अध्यायः 258
भीष्मेण युधिष्ठिरम् प्रति आकाशादिभूतगुणादिप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥
व्यास उवाच 001
द्वन्द्वानि मोक्षजिज्ञासुरर्थधर्मानुतिष्ठतः । 001a
वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् ॥ 001c
आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी । 002a
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु ॥ 002c
अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम् । 003a
तस्य शब्दं गुणं विद्यान्मुनिः शास्त्रविधानवित् ॥ 003c
चरणं मारुतात्मेति प्राणापानौ च तन्मयौ । 004a
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् ॥ 004c
तापः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् । 005a
तस्य रूपं गुणं विद्यात्तमोनाशकमात्मवान् ॥ 005c
प्रक्लेदो द्रवता स्नेह इत्यपामुपदिश्यते । 006a
[असृङ्मज्जा च यच्चान्यत्स्निग्धं विद्यात्तदात्मकम् ॥] 006c
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः ॥ 006e
सङ्घातः पार्थिवो धातुरस्थिदन्तनखानि च । 007a
श्मश्रु रोम च केशाश्च सिरा स्नायु च चर्म च ॥ 007c
इन्द्रियं घ्राणसञ्ज्ञातं नासिकेत्यभिसञ्ज्ञिता । 008a
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः ॥ 008c
उत्तरेषु गुणाः सर्वे सन्ति पूर्वेषु नोत्तराः । 009a
पञ्चानां भूतसङ्घानां सन्ततिं मुनयो विदुः ॥ 009c
मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता । 010a
एकादशस्त्वन्तरात्मा स सर्वः पर उच्यते ॥ 010c
व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् । 011a
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसञ्ज्ञकः ॥ 011c
एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम् । 012a
पश्यत्यकलुषं बुद्ध्या स मोहं नानुवर्तते ॥ 012c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥
12-258-1 द्वन्द्वान्निर्मोक्षजिज्ञासुरिति ध. पाठः ॥ 12-258-9 उत्तरेषु भूतेषु पूर्वभूतगुणाः सन्ति ॥ 12-258-11 मनोव्याहरणात्मकमिति ट. थ. पाठः ॥