अध्यायः 257

भीष्मेण युधिष्ठिरम् प्रति साधनसामग्रीप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥ व्यास उवाच 001
गन्धान्रसान्नानुरुन्ध्यात्सुखं वा नालङ्कारांश्चाप्नुयात्तस्यतस्य | 001a
मानं च कीर्तिं च यशश्च नेच्छेत्स वै प्रचारः पश्यतो ब्राह्मणस्य ॥ 001c
सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान् । 002a
ऋचो यजूंषि सामानि वेदवेदाङ्गपारगः ॥ 002c
ज्ञानी यः सर्वभूतानां सर्ववित्सर्वभूतवित् । 003a
नाकामो म्रियते जातु न तेन न च वै द्विजः ॥ 003c
इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान् । 004a
प्राप्नोति नैव ब्राह्मण्यमविज्ञानात्कथञ्चन ॥ 004c
यदा चायं न बिभेति यदा चास्मान्न बियति । 005a
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥ 005c
यदा न कुरुते भावं सर्वभूतेषु पापकम् । 006a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ 006c
कामबन्धनमेवेदं नान्यदस्तीह बन्धनम् । 007a
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥ 007c
कामतो मुच्यमानस्तु धूमाभ्रादिव चन्द्रमाः । 008a
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते ॥ 008c
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । 009a
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामः ॥ 009c
स कामकान्तो न तु कामकामः स वै कामात्स्वर्गमुपैति देही ॥ 010ac
वेदस्योपनिषद्दानं दानस्योपनिषद्दमः । 011a
दमस्योपनिषद्दानं दानस्योपनिषत्तपः ॥ 011c
तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम् । 012a
सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः ॥ 012c
क्लेदनं शोकमनसोः सन्तीर्णं तृष्णया सह । 013a
सत्वमृच्छति सन्तोषाच्छान्तिलक्षणमुत्तमम् ॥ 013c
विशोको निर्ममःशान्तः प्रशान्तात्माऽत्मविच्छुचिः । 014a
षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति ॥ 014c
षड्भिः सत्वगुणोपेतैः प्राज्ञैरधिगतं त्रिभिः । 015a
ये विदुः प्रत्यगात्मानमिहस्थानमृतान्विदुः ॥ 015c
अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् । 016a
अध्यात्मवित्कृतप्रज्ञः सुखमव्ययमश्नुते ॥ 016c
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वशः । 017a
यामयं लभते तुष्टिं सा न शक्याऽऽत्मनोन्यथा ॥ 017c
येन तृप्यत्यभुञ्जानो येन तृप्यत्यवित्तवान् । 018a
येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् ॥ 018c
असङ्गो ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् । 019a
यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते ॥ 019c
समाहितं परे तत्त्वे क्षीणकाममवस्थितम् । 020a
सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा ॥ 020c
अविशेषाणि भूतानि गुणांश्च जहतो मुनेः । 021a
सुखेनापोह्यते दुःखं भास्करेण तमो यथा ॥ 021c
तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् । 022a
ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः ॥ 022c
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते । 023a
इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते ॥ 023c
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् । 024a
पुनरावर्तनं नास्ति सम्प्राप्तस्य परात्परम् ॥ 024c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥

12-257-9 सकामकामो नतु कामकामः स वै लोकं स्वर्गमुपैति देहीति ट. ड. पाठः ॥ 12-257-16 अध्यात्मसुकृतप्रज्ञमिति ट. ड. पाठः ॥