अध्यायः 256

भीष्मेण युधिष्ठिरम् प्रति ज्ञानोपायादिप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥ शुक उवाच 001
यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन । 001a
यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे ॥ 001c
व्यास उवाच 002
धर्मं ते सम्प्रवक्ष्यामि पुराणमृषिसंस्तुतम् । 002a
विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु ॥ 002c
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः । 003a
सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान् ॥ 003c
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं परमं तपः । 004a
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ 004c
तानि सर्वाणि सन्धाय मनःषष्ठानि मेधया । 005a
आत्मतृप्त इवासीत बहुचिन्त्यमचिन्तयन् ॥ 005c
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि । 006a
तदा त्वमात्मनाऽऽत्मानं परं द्रक्ष्यसि शाश्वतम् ॥ 006c
सर्वात्मानं महात्मानं विधूममिव पावकम् । 007a
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ 007c
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः । 008a
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ 008c
एवमात्मा न जानीते क्व गमिष्ये कुतस्त्वहम् । 009a
अन्यो ह्यत्रान्तरात्माऽस्ति यः सर्वमनुपश्यति ॥ 009c
ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना । 010a
दृष्ट्वा त्वमात्मनाऽऽत्मानं निरात्मा भव सर्ववित् ॥ 010c
विमुक्तः सर्वपापेभ्यो विमुक्तत्वगिवोरगः । 011a
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः ॥ 011c
सर्वतःप्रवहां घोरां नदीं लोकप्रवाहिनीम् । 012a
पञ्चेन्द्रियग्राहवतीं मनःसङ्कल्परोधसम् ॥ 012c
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् । 013a
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ 013c
अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः । 014a
प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् ॥ 014c
संसारसागरगमां योनिपातालदुस्तराम् । 015a
आत्मकर्मोद्भवां तात जिह्वावर्तां दुरासदाम् ॥ 015c
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः । 016a
तां तीर्णः सर्वतो मुक्तो विधूतात्माऽऽत्मविच्छुचिः ॥ 016c
उत्तमां बुद्धिमास्थाय ब्रह्मभूयं भविष्यसि । 017a
सन्तीर्णः सर्वसङ्क्लेशान्प्रसन्नात्मा विकल्मषः ॥ 017c
भूमिष्ठानीव भूतानि पर्वतस्थो निशामय । 018a
अक्रुध्यन्नप्रहृष्यंश्च अनृशंसमतिस्तथा ॥ 018c
ततो द्रक्ष्यसि सर्वेषां भूतानां प्रभवाप्ययौ । 019a
एनं वै सर्वभूतेभ्यो विशिष्टं मेनिरे बुधाः । 019c
धर्मं धर्मभृतां श्रेष्ठा मुनयस्तत्त्वदर्शिनः ॥ 019e
आत्मनो व्यापिनो ज्ञानमिदं पुत्रानुशासनम् । 020a
प्रयताय प्रवक्तव्यं हितायानुगताय च ॥ 020c
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् । 021a
अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा ॥ 021c
नैव स्त्री न पुमानेतन्नैव वेद नपुंसकम् । 022a
अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् ॥ 022c
नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुते । 023a
स्वभावप्रतिपत्त्यर्थमेतद्धर्मं विधीयते ॥ 023c
यथा मतानि सर्वाणि तथैतानि यथातथा । 024a
कथितानि मया पुत्र भवन्ति न भवन्ति च ॥ 024c
तत्प्रीतियुक्तेन गुणान्वितेन पुत्रेण सत्पुत्र दमान्वितेन । 025a
पृष्टो हि सम्प्रीतिमना यथार्थं ब्रूयात्सुतस्येह यदुक्तमेतत् ॥ 025c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

12-256-3 निष्पतिष्णूनि निष्पतनशीलानि सन्नियम्यैकाग्र्यं कुर्यादिति सम्बन्धः ॥ 12-256-15 आत्मजन्मोद्भवामिति ट. ध. पाठः ॥