अध्यायः 255

भीष्मेण युधिष्ठिरम् प्रति ज्ञानादिप्रशंसापरव्यासवाक्यानुवादः ॥ 1 ॥ व्यास उवाच 001
सृजते त्रिगुणान्सत्वं क्षेत्रज्ञस्त्वधितिष्ठति । 001a
गुणान्विक्रियते सर्वानुदासीनवदीश्वरः ॥ 001c
स्वभावयुक्तं तत्सत्वं यदिमान्सृजते गुणान् । 002a
ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् ॥ 002c
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते । 003a
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥ 003c
उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति । 004a
अनेनैव विधानेन भवेद्गर्भशयो महान् ॥ 004c
अनादिनिधनं नित्यं तं बुद्ध्वा विचरेन्नरः । 005a
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ 005c
इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् । 006a
अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः ॥ 006c
ताम्येयुः प्रच्युताः पृथ्व्यां यथा पूर्णां नदीं नराः । 007a
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा ॥ 007c
न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् । 008a
एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः ॥ 008c
एवं बुद्ध्वा नरः सर्वं भूतानामागतिं गतिम् । 009a
समवेक्ष्य च वैषम्यं लभते शममुत्तमम् ॥ 009c
एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः । 010a
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् ॥ 010c
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् । 011a
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥ 011c
न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं परत्र । 012a
न हि गतिरधिकाऽस्ति कस्यचिद्भवति हि या विदुषः सनातनी ॥ 012c
लोकमातुरमसूयते जनस्तत्तदेव च निरीक्ष्य शोचते । 013a
तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं कृताकृतम् ॥ 013c
यत्करोत्यनभिसन्धिपूर्वकं तच्च निर्णुदति तत्पुराकृतम् | 014a
न प्रियं तदुभयं न चाप्रियं तस्य तज्जनयतीह कुर्वतः ॥ 014c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥

12-255-2 ऊर्णनाभिर्यथा सत्वमिति ट. ड. पाठः ॥ 12-255-7 नात्येयुः प्रच्युता इति ध. पाठः ॥