अध्यायः 254
भीष्मेण युधिष्ठिरम् प्रति ज्ञानादिसाधनप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥
व्यास उवाच 001
मनः प्रसृजते भावं बुद्धिरध्यवसायिनी । 001a
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मवेदना ॥ 001c
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः । 002a
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः ॥ 002c
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनो गतिः । 003a
यदा विकुरुते भावं तदा भवति सा मनः ॥ 003c
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियतेऽसकृत् । 004a
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ 004c
पश्यती भवते दृष्टी रसती रसनं भवेत् । 005a
जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ॥ 005c
इन्द्रियाणीति तान्याहुस्तेष्वदृश्योऽधितिष्ठति । 006a
तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते ॥ 006c
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति । 007a
न सुखेन न दुःखेन कदाचिदिह युज्यते ॥ 007c
सेयं भावात्मिका भावांस्त्रीनेताननुवर्तते । 008a
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ 008c
यदा प्रार्थयते किञ्चित्तदा भवति सा मनः । 009a
अधिष्ठानानि वै बुद्ध्यां पृथगेतानि संस्मरेत् । 009c
इन्द्रियाण्येवमेतानि विजेतव्यानि कृत्स्नशः ॥ 009e
सर्वाण्येवानुपूर्व्येण यद्यदाऽनुविधीयते । 010a
अविभागगता बुद्धिर्भावे मनसि वर्तते । 010c
'प्रवर्तमानं तु रजः सत्वमप्यनुवर्तते ॥' 010e
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु । 011a
अन्वर्थाः सम्प्रवर्तन्ते रथनेमिमरा इव ॥ 011c
प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः । 012a
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ 012c
एवं स्वभावमेवेदमिति विद्वान्न मुह्यति । 013a
अशोचन्नप्रहृष्यन्हि नित्यं विगतमत्सरः ॥ 013c
न चात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः । 014a
प्रवर्तमानैरनयैर्दुर्धर्षैरकृतात्मभिः ॥ 014c
तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति । 015a
तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाऽऽकृतिः ॥ 015c
सर्वेषामेव भूतानां मनस्युपरते यथा । 016a
प्रकाशं भवते सर्वं तथेदमुपधार्यताम् ॥ 016c
यथा वारिचरः पक्षी न लिप्यति जले चरन् । 017a
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ 017c
एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् । 018a
असज्जमानः सर्वेषु कथञ्चन न लिप्यते ॥ 018c
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदाऽऽत्मनि । 019a
सर्वभूतात्मभूतस्य गुणवर्गेष्वसज्जतः ॥ 019c
सत्वमात्मा प्रसरति गुणान्वाऽपि कदाचन । 020a
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ 020c
परिद्रष्टा गुणानां च परिस्रष्टा यथातथम् । 021a
क्षेत्रक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ॥ 021c
सृजतेऽत्र गुणानेक एको न सृजते गुणान् । 022a
पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा ॥ 022c
यथा मत्स्योऽद्भिरन्यःस्यात्सम्प्रयुक्तौ तथैव तौ । 023a
मशकोदुम्बरौ वाऽपि सम्प्रयुक्तौ यथा सह ॥ 023c
इषीका वा यथा मुञ्जे पृथक्च सह चैव च । 024a
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ॥ 024c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 254 ॥