अध्यायः 253

भीष्मेण युधिष्ठिरम् प्रति अध्यात्मविषयकव्यासवाक्यानुवादः ॥ 1 ॥ शुक उवाच 001
अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे । 001a
यदध्यात्मं यथा वेद भगवन्नृषिसत्तम ॥ 001c
व्यास उवाच 002
अध्यात्मं यदिदं तात पुरुषस्येह विद्यते । 002a
तत्तेऽहं वर्तयिष्यामि तस्य व्याख्यामिमां शृणु ॥ 002c
भूमिरापस्तथा ज्योतिर्वायुराकाश एव च । 003a
महाभूतानि भूतानां सागरस्योर्मयो यथा ॥ 003c
प्रसार्येह यथाऽङ्गानि कूर्मः संहरते पुनः । 004a
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते ॥ 004c
इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् । 005a
सर्गे च प्रलये चैव तस्मिन्निर्दिश्यते तथा ॥ 005c
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् । 006a
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति ॥ 006c
शुक उवाच 007
अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् । 007a
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् ॥ 007c
व्यास उवाच 008
एतत्ते वर्तयिष्यामि यथावदनुपूर्वशः । 008a
शृणु तत्त्वमिहैकाग्रो यथा तत्त्वं यथा च तत् ॥ 008c
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् । 009a
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ 009c
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते । 010a
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः ॥ 010c
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः । 011a
'श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी |' 011c
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः || 011e
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रुपमुच्यते । 012a
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ 012c
मनो बुद्धिः स्वभावश्च त्रय एते मनोमयाः । 013a
न गुणानतिवर्तन्ते गुणेभ्यः परमागताः ॥ 013c
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति । 014a
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ॥ 014c
यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति । 015a
एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिरुत्तमा ॥ 015c
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि । 016a
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥ 016c
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते । 017a
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ॥ 017c
चक्षुरालोचनायैव संशयं कुरुते मनः । 018a
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ 018c
रजस्तमश्च सत्वं च त्रय एते स्वयोनिजाः । 019a
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥ 019c
तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत् । 020a
प्रशान्तमिव संशुद्धं सत्वं तदुपधारयेत् ॥ 020c
यत्तु सन्तापसंयुक्तं काये मनसि वा भवेत् । 021a
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ 021c
यत्तु सम्मोहसंयुक्तमव्यक्तविषयं भवेत् । 022a
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् ॥ 022c
प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता । 023a
अकस्माद्यदि वा कस्माद्वर्तन्ते सात्विका गुणाः ॥ 023c
अभिमानो मृषावादो लोभो मोहस्तथाऽक्षमा । 024a
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ॥ 024c
तथा मोहः प्रमादश्च निद्रा तन्द्रा प्रबोधिता । 025a
कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ 025c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिपञ्चशदधिकद्विशततमोऽध्यायः ॥ 253 ॥

12-253-3 मिश्रभूतानि भूतानामिति ध. पाठः ॥ 12-253-6 सुरनरतिर्यगादिरूपेण वैषम्यमकरोत् । तत्र हेतुः । यस्मिन्कर्मणि निमित्ते सति यदनुपश्यति अन्तकाले । यंयं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ॥ तन्तमेवैतीति स्मृतेः ॥ 12-253-9 स्पर्शः स्पर्शनेन्द्रियम् वायुगुणा वायुविकाराः ॥ 12-253-10 विपाको जाठरः ॥ 12-253-11 शरीरं कठिनांशबाहुल्यात्पार्थिवम् । इन्द्रियग्रामैः सह पाञ्चभौतिको विकारः ॥ 12-253-12 स्पर्शादयो वाय्वादीनां गुणास्तद्विकारैः स्पर्शनादीन्द्रियैर्गृह्यन्ते । वायोः प्राण इति ध. पाठः ॥ 12-253-13 एतेत्मयोनिजा इति थ. पाठः ॥