अध्यायः 252
भीष्मेण युधिष्ठिरम् प्रति कठवल्ल्यर्थप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥
व्यास उवाच 001
प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैरधिष्ठितः । 001a
न चैनं ते प्रजानन्ति स तु जानाति तानपि ॥ 001c
तैश्चैवं कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः । 002a
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः ॥ 002c
इन्द्रियेभ्यः परे ह्यर्था अर्थेभ्यः परमं मनः । 003a
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ 003c
महतः परमव्यक्तमव्यक्तात्पुरुषः परः । 004a
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ 004c
एवं सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । 005a
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ 005c
अन्तरात्मनि संलीय मनः षष्ठानि मेधया । 006a
इन्द्रियाणीन्द्रियार्थांश्च बहुचिन्त्यमचिन्तयन् ॥ 006c
ध्यानोपरमणं कृत्वा विद्यासम्पादितं मनः । 007a
अनिश्चरः प्रशान्तात्मा ततोर्च्छत्यमृतं पदम् ॥ 007c
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः । 008a
आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ 008c
हित्वा तु सर्वसङ्कल्पान्सत्वे चित्तं निवेशयेत् । 009a
सत्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥ 009c
चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् । 010a
प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ 010c
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् । 011a
निवाते वा यथा दीपो दीप्यमानो न कम्पते ॥ 011c
एवं पूर्वापरे रात्रौ युञ्जन्नात्मानमात्मनि । 012a
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ 012c
रहस्यं सर्ववेदानामनैतिह्यमनागतम् । 013a
आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् ॥ 013c
धर्माख्यानेषु सर्वेषु चित्राख्यानेषु यद्वसु । 014a
दृश्यते ऋक्सहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ 014c
नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च । 015a
तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् ॥ 015c
स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् । 016a
तदिदं नाप्रशान्ताय नादान्तायातपस्विने ॥ 016c
नावेदविदुषे वाच्यं तथा नानुगताय च । 017a
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ 017c
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च । 018a
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ 018c
इदं प्रियाय पुत्राय शिष्यायानुगताय च । 019a
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन ॥ 019c
यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः । 020a
इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ 020c
अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् । 021a
यत्तन्महर्षिभिर्जुष्टं वेदान्तेषु च गीयते ॥ 021c
तत्तेऽहं सम्प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ॥ 022ac
यच्च ते मनसि वर्तते परं यत्र चास्ति तव संशयः क्वचित् । 023a
श्रूयतामयमहं तवाग्रतः पुत्र किं हि कथयामि ते पुनः ॥ 023c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 252 ॥
12-252-4 अव्यक्तात्परतोऽमृतम् । अमृतान्न परम् इति झ. थ. पाठः ॥ 12-252-5 महात्मा तत्वदर्शिभिरिति थ. ध. पाठः ॥