अध्यायः 251
भीष्मेण युधिष्ठिरम् प्रति तुरीयाश्रमधर्मप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥
श्रीशुक उवाच 001
वर्तमानस्तयेवात्र वानप्रस्थाश्रमे यथा । 001a
योक्तव्योऽऽत्मा कथं शक्त्या परं वै काङ्क्षता पदम् ॥ 001c
व्यास उवाच 002
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् । 002a
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ॥ 002c
कषायं पाचयित्वाऽऽशु श्रेणिस्थानेषु च त्रिषु । 003a
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम् ॥ 003c
तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा । 004a
एक एव चरेद्धर्मं सिद्ध्यर्थमसहायवान् ॥ 004c
एकश्चरति यः पश्यन्न जहाति न हीयते । 005a
अनग्निरनिकेतश्च ग्राममन्नार्थमाश्रयेत् ॥ 005c
अश्वस्तनविधाता स्यान्मुनिर्भावसमन्वितः । 006a
लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥ 006c
कपालं वृक्षमूलानि कुचेलमसहायता । 007a
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् ॥ 007c
यस्मिन्वाचः प्राविशन्ति कूपे प्रास्ताः शिलाइव । 008a
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥ 008c
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् । 009a
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथञ्चन ॥ 009c
यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् । 010a
तूष्णीमासीत निन्दायां कुर्वन्भैषज्यमात्मनः ॥ 010c
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा । 011a
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥ 011c
येनकेनचिदाच्छन्नो येनकेनचिदाशितः । 012a
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः ॥ 012c
अहेरिव गणाद्भीतः सन्मानान्मरणादिव । 013a
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥ 013c
न कुद्ध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः । 014a
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥ 014c
नाभिनन्देत मरणं नाभिनन्देत जीवितम् । 015a
कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥ 015c
अनभ्याहतचित्तः स्यादनभ्याहतवाग्भवेत् । 016a
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥ 016c
अभयं सर्वभूतेभ्यो भूतानामभयं यतः । 017a
तस्य मोहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ 017c
यथा नागपदेऽन्यानि पदानि पदगामिनाम् । 018a
सर्वाण्येवापिलीयन्ते पदजातानि कौञ्जरे ॥ 018c
एवं सर्वमहिंसायां धर्मार्थमभिधीयते । 019a
अमृतः स नित्यं भवति यो हिंसां न प्रपद्यते ॥ 019c
अहिसङ्कः समः सत्यो धृतिमान्नियतेन्द्रियः । 020a
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥ 020c
एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः । 021a
न मृत्युरतिगो भावः स मृत्युं नाधिगच्छति ॥ 021c
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् । 022a
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥ 022c
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च । 023a
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥ 023c
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । 024a
निर्मुक्तं बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः ॥ 024c
सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ते । 025a
तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः ॥ 025c
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह । 026a
तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥ 026c
स दत्तमास्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा । 027a
तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमिदं प्रपेदे ॥ 027c
प्रादेशमात्रे हृदि निःसृतं यत्तस्मिन्प्राणानात्मयाजी जुहोति । 028a
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु ॥ 028c
देवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्र्यां परमात्मतां च । 029a
ते सर्वलोकेषु महीयमाना देवाः समर्था अमृतं वहन्ति ॥ 029c
वेदांश्च वेद्यं तु विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च । 030a
सर्वं शरीरात्मनि यः प्रवेद तस्य स्म देवाः स्पृहयन्ति नित्यम् ॥ 030c
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये । 031a
पतत्त्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिः ॥ 031c
आवर्तमानमजरं विवर्तनं षण्णाभिकं द्वादशारं सुपर्व । 032a
यस्येदमास्योपरि याति विश्वं तत्कालचक्रं निहितं गुहायाम् ॥ 032c
यः सम्प्रजानञ्जगतः शरीरं सर्वान्स लोकानधिगच्छतीह । 033a
तस्मिन्हितं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥ 033c
तेजोमयो नित्यमयः पुराणो लोकाननन्तानभयानुपैति । 034a
भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतानां न त्रसते कदाचित् ॥ 034c
अगर्हणीयो न च गर्हतेऽन्यान्स वै विप्रः परमात्मानमीक्षेत् । 035a
विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च सोऽन्नमर्च्छति ॥ 035c
अरोषमोहः समलोष्टकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः । 036a
अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेष भिक्षुकः ॥ 036c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 251 ॥
12-251-3 कषायं चित्तदोषं पाचयित्वा विश्लथं कृत्वा । स्थानेष्वाश्रमेष्वनुत्तमम् । इदं मतं श्रेष्ठमित्यर्थः ॥ 12-251-8 आक्रुश्यमानो नाक्रोशेदित्यर्थः । त्रस्ता द्विपा इवेति झ. पाठः ॥ 12-251-10 भैषज्यं भवरोगचिकित्साम् ॥ 12-251-13 अहेः सर्पात् गणाज्जनसमूहात् । सौहित्यान्नरकादिवेति झ. पाठः ॥ 12-251-15 निदेशमाज्ञाम् । निर्वेदं भृतको यथेति थ. पाठः ॥ 12-251-16 अभ्याहतं दोषाक्रान्तम् । निरमित्रस्याजातशत्रोः । 12-251-17 सर्वभूतेभ्यो यस्येति शेषः ॥ 12-251-18 नागपदे हस्तिपदे । पदगामिनां नृपश्वादीनां पदान्यपिलीयन्ते तिरोधीयन्ते । तथेन्द्रादीनां पदजातानि स्थानानि । कौञ्जरे कुं पृथिवीं शरीररूपां जरयतीति कुञ्जरः समाधिस्थो योगी तस्य स्थाने कौञ्जरे पदे ॥ 12-251-21 स मुक्तिमुपगच्छतीति थ. पाठः ॥ 12-251-23 धर्मो रत्यर्थमेव चेति ध. पाठः ॥ 12-251-24 अक्षीणं क्षीणकर्माणं तमिति ध. पाठः ॥ 12-251-27 उत्तान आस्येनेति झ. पाठः ॥ 12-251-29 देवाः समर्त्याः सुकृतं वदन्तीति झ. पाठः ॥