अध्यायः 250

भीष्मेण युधिष्ठिरम् प्रति वनस्थधर्मप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥ भीष्म उवाच 001
प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिभिः । 001a
तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर ॥ 001c
'व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने ।' 002a
व्यास उवाच 002
क्रमशस्त्ववधृयैनां तृतीयां वृत्तिमुत्तमाम् । 002c
संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् ॥ 002e
श्रूयतां पुत्र भद्रं ते सर्वलोकाश्रमात्मनाम् । 003a
प्रेक्षापूर्वं निवृत्तानां पुण्यदेशनिवासिनाम् ॥ 003c
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः | 004a
अपत्यस्यैव चापत्यं वनमेव तदाऽऽश्रयेत् ॥ 004c
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् । 005a
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः ॥ 005c
नियतो नियताहारः षष्ठभक्तोऽप्रमत्तवान् । 006a
तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः ॥ 006c
अवैकृष्टं व्रीहियवं नीवारं विघसानि च । 007a
हवींषि सम्प्रयच्छेत मखेष्वत्रापि पञ्चसु ॥ 007c
वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः । 008a
सद्यः प्रक्षालकाः केचित्केचिन्मासिकसञ्चयाः ॥ 008c
वार्षिकं सञ्चयं केचित्केचिद्द्वादशवार्षिकम् । 009a
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव वा ॥ 009c
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः । 010a
ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः ॥ 010c
भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि । 011a
स्थानासनैर्वर्तयन्ति स वनेष्वभिषिञ्चते ॥ 011c
दन्तोलूखलिकाः केचिदश्मकुट्टास्तथा परे । 012a
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् ॥ 012c
कृष्णपक्षे पिबन्त्यन्ये भुञ्जते वा यथागतम् । 013a
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः ॥ 013c
वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः । 014a
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ॥ 014c
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः । 015a
वानप्रस्थाद्गृहस्थाच्च ततोऽन्यः सम्प्रवर्तते । 015c
अस्मिन्नेव युगे तात विप्रैस्तत्वार्थदर्शिभिः ॥ 015e
अगस्त्यः सप्तऋषयो मधुच्छन्दोऽघमर्षणः । 016a
साङ्कृतिः सुदिवातण्डिर्यथावासो कृतश्रमः ॥ 016c
अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः । 017a
बलवान्कर्णनिर्वाकः शून्यपालः कृतश्रमः । 017c
एते धर्मे सुविद्वांसस्ततः स्वर्गमुपागमन् ॥ 017e
तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः । 018a
ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम् ॥ 018c
अन्ये चापरिमेयाश्च ब्राह्मणा वनमाश्रिताः । 019a
वैखानसा वालखिल्याः सैकताश्च तथा परे ॥ 019c
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः । 020a
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः ॥ 020c
अनक्षत्रास्त्वनाधृष्या दृश्यते ज्योतिषां गणाः । 021a
जरया च परिद्यूना व्याधिना च प्रपीडिताः ॥ 021c
चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् । 022a
साद्यस्कां सन्निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥ 022c
आत्मयाजी सोऽत्मरतिरात्मक्रीडात्मसंश्रयः । 023a
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् ॥ 023c
साद्यस्कांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा । 024a
यदैव याजिनां यज्ञादात्मनीज्या प्रवर्तते ॥ 024c
त्रींश्चैवाग्नींस्त्यजेत्सम्यगात्मन्येवात्ममोक्षणात् । 025a
प्राणेभ्यो यजुषां पञ्च षट् प्राश्नीयादकुत्सयन् ॥ 025c
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः । 026a
आश्रमादाश्रमं पुण्यं पूतो गच्छति कर्मभिः ॥ 026c
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्द्विजः । 027a
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते ॥ 027c
सुशीलवृत्तो व्यपनीतकल्मषो नचेह नामुत्र च कर्तुमीहते । 028a
अरोषमोहो गतसन्धिविग्रहो भवेदुदासीनवदात्मविन्नरः ॥ 028c
यमेषु चैवानुगतेषु न व्यथेत्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः । 029a
भवेद्यथेष्टा गतिरात्मयाजिनो न संशयो धर्मपरे जितेन्द्रिये ॥ 029c
ततःपरं श्रेष्ठमतीव सद्गुणैरधिष्ठितं त्रीनधिवृत्तिमुत्तमम् । 030a
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम् ॥ 030c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥

12-250-2 एनां गृहस्थवृत्तिमवधूय तिरस्कृत्य कां तृतीयां कापोतीं वृत्तिमपि । संयोगः सहधर्मचारिणीसंयोगस्तत्र यद्व्रतं तेन खिन्नानाम् । वानप्रस्थाश्रम ओक आश्रयो येषां तेषां वृत्तिः श्रूयतामिति द्वयोः सम्बन्धः ॥ 12-250-3 सर्वे लोका आश्रमाश्चाऽऽत्मा येषाम् । संविभागशमादिमयत्वात् सर्वाश्रमफलमत्रैवान्तर्भूतमित्यर्थः ॥ 12-250-4 विग्रहं तु यदा पश्येदिति ध. पाठः ॥ 12-250-6 षष्ठभुक्त इति ध. पाठः ॥ 12-250-7 अत्रापि वनेपि ॥ 12-250-10 शाश्वतामृतभोजिन इति ध. पाठः ॥ 12-250-15 चतुर्थश्चतुर्थाश्रमे विहित औपनिषदः शान्त्यादिर्धर्मः साधारणः सर्वेष्वाश्रमेषु । अन्योऽसाधारणः । सर्वार्थदर्शिभिरिति ध. पाठः ॥ 12-250-16 साङ्कृतिश्च सुदीप्तार्चिर्यवक्रीतः सुतश्रमः इति ध. पाठः ॥ 12-250-17 चलो वाकश्च निर्वाक इति ट. ध. पाठः ॥ 12-250-21 अनक्षत्राः नक्षत्रग्रहताराभ्योऽन्ये ॥ 12-250-22 सर्ववेदसदक्षिणां सर्वस्वदक्षिणाम् ॥ 12-250-23 आत्मयाजी जीवच्छ्राद्धादिकृत् । आत्मक्रीडश्चाऽऽत्मसंश्रयश्च नतु स्त्र्यादिक्रीडो राजाद्याश्रयः ॥ 12-250-24 साद्यस्कान् सद्यएव क्रियन्ते तान् ब्रह्मयज्ञादीन् तावद्यजेत् । यदैव यस्मिन्नेव काले याजिनां यज्वनां यज्ञात् कर्ममयादन्या आत्मनीज्या आत्मयज्ञः प्रवर्तते तावदेव तान् कुर्यादित्यर्थः ॥ 12-250-25 यज्ञः सदैवात्मनि वर्तत ट. ध. पाठः ॥ 12-250-26 वाप्य वापयित्वा ॥ 12-250-29 स्वस्य सन्न्यासविधेः शास्त्रं तत्रस्थं सूत्रम् आहुतिमन्त्रश्च तत्रोभयत्रापि विक्रमः पराक्रमो यस्य स तथा ॥ 12-250-30 त्रीनाश्रमानपेक्ष्याधिष्ठितमधिकत्वेन स्थितम् । यतोऽधिवृत्तिमधिका शमाद्यात्मिका वृत्तिर्यस्मिंस्तम् ॥