अध्यायः 249

भीष्मेण युधिष्ठिरम् प्रति गृहस्थधर्मप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥ व्यास उवाच 001
द्वितीयमायुषो भागं गृहमेधी गृहे वसेत् । 001a
धर्मलब्धैर्युतो दारैरग्नीनाहृत्य सुव्रतः ॥ 001c
गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः । 002a
कुसूलधान्यः प्रथमः कुम्भधान्यस्त्वनन्तरम् ॥ 002c
अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् । 003a
तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः ॥ 003c
षट्कर्मावर्तयत्येकस्त्रिभिरन्यः प्रवर्तते । 004a
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः ॥ 004c
गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते । 005a
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशून् ॥ 005c
प्राणी वा यदि वाऽप्राणी संस्कारं यजुषाऽर्हति । 006a
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः ॥ 006c
न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् । 007a
नास्यानश्नन्गृहे विप्रो वसेत्कश्चिदपूजितः ॥ 007c
तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा । 008a
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः ॥ 008c
स्वकर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः । 009a
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते ॥ 009c
नखरैः सम्प्रयातस्य स्वकर्मख्यापकस्य च । 010a
अपविद्धाग्निहोत्रस्य गुरोर्वाऽलीकचारिणः ॥ 010c
संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते । 011a
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥ 011c
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः । 012a
अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम् ॥ 012c
भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम् । 013a
विघसं भृत्यशेषं तु यज्ञशेषमथास्मृतम् ॥ 013c
स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः । 014a
ऋत्विक्पुरोहिताचार्यर्मालुलातिथिसंश्रितैः ॥ 014c
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः । 015a
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ॥ 015c
दुहित्रा दासवर्गेण विवादं न समाचरेत् । 016a
एतान्विमुच्य संवादान्सर्वपापैर्विमुच्यते ॥ 016c
एतैर्जितस्तु जयति सर्वाल्लोँकान्न संशयः । 017a
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ॥ 017c
अतिथिस्त्विन्द्रलोकस्य देवलोकस्य चर्त्विजः । 018a
जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः ॥ 018c
सम्बन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ । 019a
बृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः ॥ 019c
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः । 020a
छाया स्वा दासवर्गश्च दुहिता कृपणं परम् ॥ 020c
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसञ्ज्वरः । 021a
गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः ॥ 021c
न चार्थबद्धः कर्माणि धर्मं वा किञ्चिदाचरेत् । 022a
गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् ॥ 022c
परम्परं तथैवाहुश्चातुराश्रम्यमेव तत् । 023a
ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता ॥ 023c
कुम्भधान्यैरुञ्छशिलैः कापोतीं चास्थितास्तथा । 024a
यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते ॥ 024c
दश पूर्वान्दश परान्पुनाति च पितामहान् । 025a
गृहस्थवृत्तीश्चाप्येता वर्तयेद्यो गतव्यथः ॥ 025c
स चक्रधरलोकानां सदृशीमाप्नुयाद्गतिम् । 026a
जितेन्द्रियाणामथवा गतिरेषा विधीयते ॥ 026c
सर्वलोको गृहस्थानामुदारमनसां हितः । 027a
स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः ॥ 027c
स्वर्गलोको गृहस्थानां प्रतिष्ठा निवतात्मनान् । 028a
ब्रह्मणा विहिता श्रेणिरेषा यस्माद्विधीयते । 028c
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते ॥ 028e
अतः परं परममुदारमाश्रमं तृतीयमाहुस्त्यजतां कलेवरम् । 029a
वनौकसां गृहपतिनामनुत्तमं शृणुष्व संश्लिष्टशरीरकारिणाम् ॥ 029c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 249 ॥

12-249-2 वृत्तयो जीविकाः ॥ 12-249-3 कापोतीमुञ्छवृत्तिम् ॥ 12-249-4 षट् यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहाः कर्म यस्य एको गृहस्थाः त्रिभिर्यजनाध्ययनदानैः । अन्यो वानप्रस्थः द्वाभ्यां दानाध्ययनाभ्याम् । ब्रह्मसत्रे प्रणवोपास्तौ ॥ 12-249-5 अत्र गार्हस्थ्ये ॥ 12-249-6 प्राणी छागादिः । अप्राणी अश्वत्थादिः । यजुषा छेदनमन्त्रेणैव क्रत्वर्थमेव संस्कारमर्हति नतु भक्षणमात्रार्थम् ॥ 12-249-7 अन्तरा भोजनद्वयमध्ये । स्त्रियं मैथुनायेति शेषः ॥ 12-249-10 नखरैर्नखैः । दम्भार्थे नखलोमधरस्य । अपविद्धमविधिना त्यक्तमग्निहोत्रं येन तस्य । एवंविधानां चाण्डालादीनां च भूतानामत्र गार्हस्थ्ये संविभागोऽस्ति ॥ 12-249-11 अपचमानेभ्यो ब्रह्मचारिसन्न्यासिभ्यः । तथैव याचमानेभ्य इति ध. पाठः ॥ 12-249-15 जामीभिः सगोत्रस्त्रीभिः ॥ 12-249-16 संवादानंशाद्यर्थं कलहान् ॥ 12-249-17 आचार्यादयः सम्यगाराधिता ब्रह्मलोकादीन् प्रति नयन्तीत्याहाचार्य इति सार्धाभ्याम् ॥ 12-249-20 कृपणं कृपास्थानमिति रत्नगर्भः ॥ 12-249-22 नचेति । अर्थाशयाऽग्निहोत्रादीन्न कुर्यात् । तिस्रो वक्ष्यमाणाः कुम्भधान्यमुञ्छशिलं कापोतीं च तासां परमुत्तरमुत्तरं श्रेयः ॥ 12-249-23 चातुराश्रम्यमध्येऽपि परं परं श्रेयः ॥ 12-249-26 चक्रधराश्चक्रवर्तिनो मान्धात्रादयस्तल्लोकानां सदृशीं गतिं तत्तुल्यताम् ॥ 12-249-27 सुपुष्पितो रमणीयः ॥ 12-249-29 गृहपतिनां ह्रस्वत्वमार्षम् । गृहस्थेभ्यः श्रेष्ठं संश्लिष्टमस्थिचर्ममात्रसंश्लेषवत् तच्च तच्छरीरं च तस्य कारिणां शरीरशोषकाणामित्यर्थः । शरीरकर्मणामिति ध. पाठः ॥