अध्यायः 248

शुकम् प्रति व्यासेन ब्रह्मचर्याश्रमधर्मनिरूपणम् ॥ 1 ॥ शुक उवाच 001
क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च । 001a
बुद्ध्यैश्वर्यातिसर्गोऽयं प्रधानश्चात्मनः श्रुतम् ॥ 001c
भूय एव तु लोकेऽस्मिन्सद्वृतिं कालहैतुकीम् । 002a
यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्तितुम् ॥ 002c
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च । 003a
कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि ॥ 003c
लोकवृत्तान्ततत्वज्ञः पूतोऽहं गुरुशासनात् । 004a
कृत्वा बुद्धिं विमुक्तात्मा द्रक्ष्याम्यात्मानमव्ययम् ॥ 004c
व्यास उवाच 005
एषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् । 005a
एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः ॥ 005c
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः । 006a
आत्मनश्च हृदि श्रेयो ह्यन्विच्छन्मनसाऽऽत्मनि ॥ 006c
वने मूलफलाशी च तप्यन्सुविपुलं तपः । 007a
पुण्यायतनचारी च भूतानामविहिंसक ॥ 007c
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये । 008a
काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे ॥ 008c
निस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे । 009a
अरण्ये विचरैकाकी येनकेनचिदाशितः ॥ 009c
शुक उवाच 010
यदिदं वेदवचनं लोकवादे विरुध्यते । 010a
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रतः कुतः ॥ 010c
इत्येतच्छ्रोतुमिच्छामि प्रमाणं तूभयं कथम् । 011a
कर्मणामविरोधेन कथमेतत्प्रवर्तते ॥ 011c
भीष्म उवाच 012
इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् । 012a
ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः ॥ 012c
व्यास उवाच 013
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । 013a
यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् ॥ 013c
एको वाऽप्याश्रमानेतान्योऽनुतिष्ठेद्यथाविधि । 014a
अकामद्वेषसंयुक्तः स परत्र महीयते ॥ 014c
चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता । 015a
एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते ॥ 015c
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः । 016a
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ॥ 016c
जघन्यशायी पूर्वं स्यादुत्थाय गुरुवेश्मनि । 017a
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥ 017c
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः । 018a
किङ्करः सर्वकारी स्यात्सर्वकर्मसु कोविदः ॥ 018c
कर्मातिशेषेण गुरावध्येतव्यं बुभूषता । 019a
दक्षिणेनोपसादी स्यादाहूतो गुरुमाश्रयेत् ॥ 019c
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमिवान्तरा । 020a
चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः ॥ 020c
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् । 021a
नातिष्ठति तथासीत नासुप्ते प्रस्वपेत च ॥ 021c
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् । 022a
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् ॥ 022c
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति । 023a
इदं करिष्ये भगवन्निदं चापि कृतं मया ॥ 023c
ब्रह्मंस्तदपि कर्ताऽस्मि यद्भवान्वक्ष्यते पुनः । 024a
इति सर्वमनुज्ञाप्य निवेद्य गुरवे पुनः || 024c
कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः । 025a
यांस्तु गन्धान्रसान्वाऽपि ब्रह्मचारी न सेवते ॥ 025c
सेवेत तान्समावृत्त इति धर्मेषु निश्चयः । 026a
ये केचिन्नियमेनोक्ता नियमा ब्रह्मचारिणः ॥ 026c
तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः । 027a
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् ॥ 027c
अग्राम्येणाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा । 028a
वेदव्रतोपवासेन चतुर्थे चायुषो गते || 028c
गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि ॥ 029ac
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यत्नतः । 030a
द्वितीयमायुषो भागं गृहमेधी भवेद्व्रती ॥ 030c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥

12-248-2 सद्वृत्तिं सतामाचारम् । कालहैतुकीं युगानुसारिणीम् । अनुवर्तितुं पुनः श्रोतुम् । हैतुकीं क्रियाम् इति ट. थ. पाठः ॥ 12-248-3 कुरु कर्म त्यजेति श्रुत्योरेतदेतमविरोधं च कथं विजानीयां विषयविभागेन विविच्य कथं जानीयाम् ॥ 12-248-4 लोकवृत्तान्तो लोकरीतिः तस्य तत्त्वं धर्माधर्ममूलकत्वं तज्ज्ञः । पूतो धर्मानुष्ठानेन । बुद्धिं कृत्वा संस्कृत्य । विमुक्तात्मा त्यक्तदेहः ॥ 12-248-5 एषा कर्मभिर्बुद्धिं संस्कृत्य तयात्मदर्शनमित्येवंरूपा ॥ 12-248-12 गन्धवत्याः योजनगन्धायाः सुतो व्यासः ॥ 12-248-15 चतुष्पदी चातुराश्रम्यरूपा ॥ 12-248-19 कर्मातिशेषेण निःशेषं कर्म कृत्वेत्यर्थः ॥ 12-248-21 अभुक्तवति गुराविति शेषः ॥ 12-248-23 अधीष्वाध्यापय ॥ 12-248-26 समावृत्तः समापितब्रह्मचर्यकृत्यः । विस्तरेणोक्ता इति झ. पाठः ॥ 12-248-27 अनपगः समीपस्थः ॥ 12-248-28 आश्रमादाश्रमेष्वेवमिति झ. पाठः ॥