अध्यायः 247

भीष्मेण युधिष्ठिरम् प्रति विद्याकर्मस्वरूपादिनिरूपकव्यासवाक्यानुवादः ॥ 1 ॥ शुक उवाच 001
यदिदं वेदवचनं कुरु कर्म त्यजेति च । 001a
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ 001c
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे । 002a
एतच्चान्योन्यवैरूप्ये वर्तेते प्रतिकूलतः ॥ 002c
भीष्म उवाच 003
इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् । 003a
कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ ॥ 003c
यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा । 004a
शृणुष्वैकमना वत्स गह्वरं ह्येतदन्तरम् ॥ 004c
अस्ति धर्म इति ह्युक्त्वा नास्तीत्यत्रैव यो वदेत् । 005a
तस्य पक्षस्य सदृशमिदं मम भवेदथ ॥ 005c
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । 006a
प्रवृत्तिलक्षणो धर्मो निवृत्तौ च व्यवस्थितः ॥ 006c
कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते । 007a
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ 007c
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः । 008a
विद्यया जायते नित्यमव्ययो ह्यक्षरात्मकः ॥ 008c
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितया नराः । 009a
तेन ते देहजालानि रमयन्त उपासते ॥ 009c
ये स्म बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः । 010a
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ॥ 010c
कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ । 011a
विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ 011c
यत्र गत्वा न म्रियते यत्र गत्वा न जायते । 012a
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ 012c
यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रुवम् । 013a
अव्याहतमनायासममृतं चावियोगि च ॥ 013c
द्वन्द्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा । 014a
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ 014c
विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः । 015a
विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् । 015c
'विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम् ॥' 015e
तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते । 016a
नवं तु शशिनं दृष्ट्वा वक्रतन्तुमिवाम्बरे ॥ 016c
एकादशविकारात्मा कलासम्भारसम्भृतः । 017a
मृर्तिमानिति तं विद्धि तात कर्म गुणात्मकम् ॥ 017c
'तस्मिन्यः संस्थितो ह्यग्निर्नित्यंस्थाल्यामिवाहितः । 018a
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकम् ॥ 018c
देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे । 019a
क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥ 019c
तमोरजश्च सत्त्वं च विद्धि जीवगुणात्मकम् । 020a
जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥ 020c
अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् | 021a
ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त ॥ 021c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥

12-247-3 क्षराक्षरौ नश्वरानश्वरौ मार्गाविति शेषः । पराशरसुतः शुकमिति ध. पाठः ॥ 12-247-13 यद्याति परमं ब्रह्म पुराणमचलमिति ट. ड. पाठः ॥ 12-247-21 स चेष्टते जीवयते चेति झ. पाठः ॥