अध्यायः 246
भीष्मेण युधिष्ठिरम् प्रति योगस्वरूपादिनिरूपकशुकसम्बोध्यकव्यासवचनानुवादः ॥ 1 ॥
व्यास उवाच 001
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः । 001a
साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥ 001c
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु । 002a
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ 002c
आत्मनोऽव्यथिनस्तात ज्ञानमेतदनुत्तमम् । 003a
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥ 003c
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा । 004a
योगदोषान्समुच्छिन्द्यात्पञ्च यान्कवयो विदुः ॥ 004c
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् । 005a
क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात् ॥ 005c
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति । 006a
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ 006c
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा । 007a
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् ॥ 007c
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः । 008a
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ॥ 008c
वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुदाम् । 009a
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं ततम् ॥ 009c
एतस्य सूत्रभूतस्य द्वयं स्थावरजङ्गमम् । 010a
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ 010c
शोचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः । 011a
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥ 011c
सिद्ध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्धते । 012a
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयेत् ॥ 012c
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः । 013a
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ 013c
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः । 014a
पूर्वरात्रेऽपरात्रे च धारयेन्मन आत्मनि ॥ 014c
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् । 015a
ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम् ॥ 015c
मनस्तु पूर्वमादद्यात्कुमीनमिव मत्स्यहा । 016a
ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् ॥ 016c
तत एतानि संयम्य मनसि स्थापयेद्यतिः । 017a
तथैवापो ह्यसङ्कल्पान्मनो ह्यात्मनि धारयेत् ॥ 017c
पञ्चेन्द्रियाणि सन्धाय मनसि स्थापयेद्यतिः । 018a
यदैतान्यवतिष्ठन्ति मनःषष्ठानि चात्मनि ॥ 018c
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते । 019a
विधूम इव सप्तार्चिरादित्य इव दीप्तिमान् ॥ 019c
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि । 020a
सर्वस्तत्र स सर्वत्र व्यापकत्वाच्च दृश्यते ॥ 020c
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः । 021a
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥ 021c
एवं परिमितं कालमाचरन्संशितव्रतः । 022a
आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् ॥ 022c
विमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने । 023a
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥ 023c
प्रतिभामुपसर्गांश्चाप्युपसङ्गृह्य योगतः । 024a
तांस्तत्त्वविदनादृत्य आत्मन्येव निवर्तयेत् ॥ 024c
कुर्यात्परिचयं योगे त्रैकाल्ये नियतो मुनिः । 025a
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजयेत् ॥ 025c
सन्नियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव । 026a
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥ 026c
येनोपायेन शक्येत सन्नियन्तुं चलं मनः । 027a
तत्तद्युक्तो निषेवेत न चैव विचलेत्ततः ॥ 027c
शून्या गिरिगुहाश्चैव देवतायतनानि च । 028a
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ 028c
नाभिष्वजेत्परं वाचा कर्मणा मनसाऽपि वा । 029a
उपेक्षको यताहारो लब्धालब्धे समो भवेत् ॥ 029c
यश्चैनमभिनिन्देत यश्चैनमभिवादयेत् । 030a
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ 030c
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् । 031a
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ 031c
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः । 032a
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥ 032c
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः । 033a
एतस्मिन्निरतो मार्गे विरमेन्न च मोहितः ॥ 033c
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी । 034a
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ 034c
अजं पुराणमजरं सनातनं यदिन्द्रियैरुपलभेत निश्चलैः । 035a
अणोरणीयो महतो महत्तरं तदात्मना पश्यति युक्तमात्मवान् ॥ 035c
इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसाऽनुदृश्य च । 036a
अवेक्ष्य चेमां परमेष्ठिसाम्यतां प्रयान्ति यां भूतगतिं मनीषिणः ॥ 036c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥
12-246-3 आत्मनो व्ययिन इति ध. पाठः ॥ 12-246-9 सर्वमिदं रस इति झ. पाठः ॥ 12-246-10 एकस्य सर्वं भूतस्येति ड. पाठः ॥ 12-246-12 विज्ञानं च प्रकाशत इति ड. थ. पाठः ॥ 12-246-15 दृतेश्चर्मकोशस्य ॥ 12-246-16 कुमीनं जालदंशक्षमं मीनम् । कुलीरमिव मत्स्यहेति ड. थ. पाठः ॥ 12-246-18 तं च ज्ञानेनेति ड. थ. पाठः । पञ्चज्ञानेन सन्धाय मनः संस्थापयेद्यतिरिति ध. पाठः ॥ 12-246-23 प्रमादो भ्रम इति ड. थ. पाठः ॥ 12-246-24 मनसैव निवर्तयेदिति ड. थ. पाठः ॥ 12-246-26 कोष्ठं भाण्डं यथैव चेति ध. पाठः ॥ 12-246-30 यश्चैनमभिनन्देत यश्चैनमपवादयेत् इति झ. पाठः ॥ 12-246-32 सर्वात्मना साधोरिति ड. पाठः । स्वस्थात्मन इति झ. पाठः ॥