अध्यायः 245

भीष्मेण युधिष्ठिरम् प्रति वर्णाश्रमोचितधर्मानुष्ठानपूर्वकब्रह्मज्ञानस्य तत्प्राप्तिसाधनत्वादिप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥ भीष्म उवाच 001
इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् । 001a
मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ॥ 001c
शुक उवाच 002
प्रजावाञ्श्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः । 002a
अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति ॥ 002c
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया । 003a
साङ्ख्ये वा यदि वा योग एतत्पृष्टो वदस्व मे ॥ 003c
मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते । 004a
येनोपायेन पुरुषैस्तत्त्वं व्याख्यातुमर्हसि ॥ 004c
व्यास उवाच 005
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् । 005a
नान्यत्र लोभसन्त्यागात्सिद्धिं विन्दति कश्चन ॥ 005c
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः । 006a
भूयिष्ठं प्राणभृत्काये निविष्टानि शरीरिषु ॥ 006c
भूमेर्देहो जलात्स्रोतो ज्योतिषश्चक्षुषी स्मृते । 007a
प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम् ॥ 007c
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति । 008a
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती ॥ 008c
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । 009a
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ 009c
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः । 010a
इन्द्रियाणि पृथक्स्वार्थान्मनसा दर्शयन्त्युत ॥ 010c
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः । 011a
मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ 011c
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः । 012a
नियमे च विसर्गे च भूतात्मा मानसस्तथा ॥ 012c
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः । 013a
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ 013c
आश्रयो नास्ति सत्वस्य गुणः सत्त्वस्य चेतना । 014a
सत्वं हि तेजः सृजति न गुणान्वै कथञ्चन ॥ 014c
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः । 015a
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ 015c
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः । 016a
मनसा दीपभूतेन महानात्मा प्रकाशते ॥ 016c
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् । 017a
अशरीरं शरीरेषु निरीक्षेत निरिन्द्रियम् ॥ 017c
अव्यक्तं सर्वदेहेषु मर्त्येष्वमृतमाहितम् । 018a
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ॥ 018c
विद्याभिजनसम्पन्ने ब्राह्मणे गवि हस्तिनि । 019a
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 019c
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च । 020a
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ 020c
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । 021a
यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ 021c
यावानात्मनि मे ह्यात्मा तावानात्मा परात्मनि । 022a
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ 022c
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च । 023a
देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ 023c
शकुन्तानामिवाकाशे मत्स्यानामिव चोदके । 024a
यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥ 024c
कालः पचति भूतानि सर्वाण्येवात्मनाऽऽत्मनि । 025a
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन ॥ 025c
न स ऊर्ध्वं न तिर्यक्च नाधश्चरति यः पुनः । 026a
न मध्ये प्रतिगृह्णीते नैव किञ्चित्कुतश्चन ॥ 026c
सर्वेऽन्तस्था इमे लोका बाह्यमेषां न किञ्चन । 027a
यः सहस्रं समा गच्छेद्यथा बाणो गुणच्युतः ॥ 027c
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः । 028a
तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ॥ 028c
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् । 029a
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 029c
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् । 030a
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ 030c
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः । 031a
क्षरः सर्वेषु भूतेषु दिवि ह्यमृतमक्षरम् ॥ 031c
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी । 032a
ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ॥ 032c
हानिभङ्गविकल्पानां नवानां सञ्चयेन च । 033a
शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥ 033c
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् । 034a
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥

12-245-2 अनागतं प्रत्यक्षानुमानाभ्यामज्ञातम् । अनैतिह्यम् इदमित्थमिति वेदेनापि न निर्देश्यम् ॥ 12-245-5 विद्यादिपदैः क्रमेणाश्रमचतुष्ट्यधर्मा उक्ताः ॥ 12-245-7 खेषु नासादिरन्ध्रेषु ॥ 12-245-8 क्रान्ते पादे बले पाणौ च विष्णुशक्रौ तत्प्रयोक्तारौ तिष्ठतः । कर्णौ स्थानं श्रोत्रमिन्द्रियं दिशो देवताः । जिह्वा स्थानं वागिन्द्रियं सरस्वती देवता । एतच्चान्येषामपि स्थानादीनामुपलक्षणम् ॥ 12-245-9 आहारः शब्दादिग्रहः ॥