अध्यायः 244
भीष्मेण युधिष्ठिरम् प्रति मतभेदयुगधर्मभेदादिप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥
व्यास उवाच 001
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते । 001a
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिद्ध्यति ॥ 001c
तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये । 002a
किन्तु कर्मस्वभावोऽयं ज्ञानं कर्मेति वा पुनः ॥ 002c
तत्र वेदविवित्सायां ज्ञानं चेत्पुरुषं प्रति । 003a
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु ॥ 003c
पौरुषं कारणं केचिदाहुः कर्मसु मानवाः । 004a
दैवमेके प्रशंसन्ति स्वभावमपरे जनाः ॥ 004c
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः । 005a
त्रयमेतत्पृथग्भूतमविवेकं तु केचन ॥ 005c
एतदेवं च नैवं न च चोभे नानुभे तथा । 006a
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः ॥ 006c
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः । 007a
तपस्विनः प्रशान्ताश्च सत्वस्थाश्च कृते युगे ॥ 007c
अपृथग्दर्शनाः सर्वे ऋक्सामसु यजुःषु च । 008a
कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते ॥ 008c
तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः । 009a
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥ 009c
तपसा तदवाप्नोति यद्भूतं सृजते जगत् । 010a
तद्भूतश्च ततः सर्वभूतानां भवति प्रभुः ॥ 010c
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः । 011a
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते ॥ 011c
आरम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः । 012a
परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः ॥ 012c
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् । 013a
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ 013c
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा । 014a
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥ 014c
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा । 015a
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल ॥ 015c
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः । 016a
गवां भूमेश्च ये चापामोषधीनां च ये रसाः ॥ 016c
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः । 017a
विक्रियन्ते स्वधर्माश्च स्थावराणि चराणि च ॥ 017c
यथा सर्वाणि भूतानि वृष्ट्या तृप्यन्ति प्रावृषि । 018a
सृजन्ते सर्वतोऽङ्गानि तथा वेदा युगेयुगे ॥ 018c
विहितं कालनानात्वमनादिनिधनं च यत् । 019a
कीर्तितं यत्पुरस्तात्ते यतः संयान्ति च प्रजाः ॥ 019c
यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः । 020a
स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः ॥ 020c
सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रियाफलम् । 021a
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ॥ 021c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥
12-244-5 इति क्रमेण मीमांसकस्य दैवज्ञस्य शून्यवादिलोकायतयोश्च मतान्युपन्यस्यैतेषां विकल्पसमुच्चयावाह पौरुषमिति । पौरुषं दैवं न कर्म दृष्टादृष्टयत्नः । स्वभावमनुसृत्य कर्मकालौ फलदावित्यर्थः । अविवेकं समुच्चयम् । पृथग्भूतमेकमेव प्रधानं नत्वितरावित्यर्थः ॥ 12-244-6 आर्हतमत आह एतदिति । एवमेतन्न चाप्येवमुभे एवं नचाप्युभे इति ध. पाठः ॥ 12-244-10 सत्यं तपश्च भूतानां सर्वेषां भवति प्रभुरिति थ. पाठः । स तद्रूपश्च सर्वेषां भूतानां भवति प्रभुरिति ध. पाठः ॥ 12-244-21 धर्मः काल इति ध. पाठः ॥