अध्यायः 243

भीष्मेण युधिष्ठिरम् प्रति भूतेषु तारतम्यकतनपूर्वकज्ञानप्रशंसापरशुकसम्बोध्यकव्यासवाक्यानुवादः ॥ 1 ॥ व्यास उवाच 001
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमात्मनः । 001a
उन्मज्जंश्च निमज्जंश्च विद्यामेवाभिसंश्रयेत् ॥ 001c
शुक उवाच 002
किं तज्ज्ञानमथो विद्या यथा निस्तरते द्वयम् । 002a
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि ॥ 002c
व्यास उवाच 003
यस्तु पश्यन्स्वभावेन विनाभावमचेतनः । 003a
पुष्णाति स पुनः सर्वान्प्रज्ञया मुक्तहेतुकः ॥ 003c
येषां चैकान्तभावेन स्वभावः कारणं मतम् । 004a
दूर्वातृणबृसीका ये ते लभन्ते न किञ्चन ॥ 004c
येचैनं पक्षमाश्रित्य निवर्तन्त्यल्पमेधसः । 005a
स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते ॥ 005c
स्वभावो हि विनाशाय मोहकर्ममनोभवः । 006a
निरुक्तमेतयोरेतत्स्वभावपरिभावयोः ॥ 006c
कृष्यादीनीह कर्माणि सस्यसंहरणानि च । 007a
प्रज्ञावद्भिः प्रक्लृप्तानि यानासनगृहाणि च ॥ 007c
आक्रीडानां गृहाणां च गदानामगदस्य च । 008a
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः ॥ 008c
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति । 009a
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः ॥ 009c
परावरं तु भूतानां ज्ञानेनैवोपलभ्यते । 010a
विद्यया तात सृष्टानां विद्यैवेह परा गतिः ॥ 010c
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् । 011a
जरायुजाण्डजोद्भिज्जस्वेदजं चोपलक्षयेत् ॥ 011c
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपधारयेत् । 012a
उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्यया ॥ 012c
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि तु । 013a
बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि ॥ 013c
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च । 014a
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते ॥ 014c
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि तु । 015a
मध्यमानि विशिष्टानि जातिधर्मोपधारणात् ॥ 015c
मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च । 016a
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् ॥ 016c
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च । 017a
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः ॥ 017c
वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च । 018a
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् ॥ 018c
विज्ञायन्ते हि यैर्वेदाः सधर्माः सक्रियाफलाः । 019a
सधर्मा निखिला वेदाः प्रवक्तृभ्यो विनिःसृताः ॥ 019c
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च । 020a
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् ॥ 020c
धर्मद्वयं हि यो वेद स सर्वज्ञः स सर्ववित् । 021a
सत्याशीः सत्यसङ्कल्पः सत्यः शुचिरथेश्वरः ॥ 021c
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः । 022a
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् ॥ 022c
अन्तस्थं च बहिष्ठं च येऽधियज्ञाधिदैवतम् । 023a
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः ॥ 023c
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् । 024a
तेषां माहात्म्यभावस्य सदृशं नास्ति किञ्चन ॥ 024c
आद्यन्तनिधनं चैव कर्म चातीत्य सर्वशः । 025a
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयम्भुवः ॥ 025c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥

12-243-3 मुक्तहेतुकानिति झ. पाठः ॥ 12-243-4 पूत्वा तृणमिषीकां वेति झ. पाठः ॥ 12-243-7 सस्यसङ्ग्रहणानि चेति थ. पाठः ॥ 12-243-8 गदानां रोगाणाम् । अगदस्यौषधस्य । अनुष्ठिताः प्रयोजिताः । गतानामागतस्य चेति ट. थ । पाठः ॥ 12-243-9 तुल्यलक्षणाः प्रज्ञाधिक्यादैश्वर्याधिक्यभाजः ॥ 12-243-12 यच्चेष्टे विशिष्येत निचेष्टक इति ट. थ. पाठः ॥ 12-243-14 पार्थिवानि पृथिवीचराणि मानुषाणि । इतराणि खेचराणि ॥ 12-243-19 सर्वयज्ञाः क्रिया वेदा इति ध. पाठः ॥ 12-243-21 धर्मद्वयं प्रवृत्तिनिवत्तिरूपम् । सत्यागीति झ. पाठः । सत्यक्षान्तिः स ईश्वर इति ट.थ. पाठः ॥ 12-243-22 शब्दब्रह्मणि वेदशास्त्रे ॥