अध्यायः 242

भीष्मेण युधिष्ठिरम् प्रति ज्ञानस्य श्रेयःसाधनतापरशुकसम्बोध्यकव्यासवाक्यानुवादः ॥ 1 ॥ व्यास उवाच 001
अथ चेद्रोचयेदेतदुह्यते मनसा तथा । 001a
उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् ॥ 001c
प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः । 002a
नाबुधास्तारयन्त्यन्यानात्मानं वा कथञ्चन ॥ 002c
छिन्नदोषो मुनिर्योगयुक्तो युञ्जीत द्वादश । 003a
दशकर्मसुखानर्थानुपायापायनिष्क्रियः ॥ 003c
चक्षुराचारसङ्ग्राहैर्मनसा दर्शनेन च । 004a
यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् ॥ 004c
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः । 005a
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः ॥ 005c
यदि वा सर्ववेदज्ञो यदि वाऽप्यनृचो द्विजः । 006a
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः ॥ 006c
यदि वा पुरुषव्याघ्रो यदि वैक्लव्यधारणः । 007a
तरत्येवं महादुर्गं जरामरणसागरम् ॥ 007c
एवं ह्येतेन योगेन युञ्जानो ह्येवमन्ततः । 008a
अपि जिज्ञासमानोऽपि शब्दब्रह्माऽतिवर्तते ॥ 008c
धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः । 009a
अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः ॥ 009c
चेतनाबन्धुरश्चारुश्चाचारग्रहनेमिमान् । 010a
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ॥ 010c
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः । 011a
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः ॥ 011c
त्यागरश्म्यनुगः क्षेम्यः शौचगो ध्यानगोचरः । 012a
जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते ॥ 012c
अथ सन्त्वरमाणस्य रथमेवं युयुक्षतः । 013a
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् ॥ 013c
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते । 014a
पृष्ठतः पार्श्वतश्चान्यास्तावत्यस्ताः प्रधारणाः ॥ 014c
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः । 015a
ज्योतिषो यत्तदैश्वर्यमहङ्कारस्य बुद्धितः । 015c
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते ॥ 015e
विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः । 016a
तथाऽस्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः ॥ 016c
निर्मुच्यमानः सूक्ष्मत्वाद्रूपाणीमानि पश्यतः । 017a
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः ॥ 017c
तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत । 018a
अथ धूमस्य विरमेद्द्वितीयं रूपदर्शनम् ॥ 018c
जलरूपमिवाकाशे तत्रैवात्मनि पश्यति । 019a
अपां व्यतिक्रमे चास्य वह्निरूपं प्रकाशते ॥ 019c
तस्मिन्नुपरते चास्य वायव्यं सूक्ष्ममव्ययम् । 020a
रूपं प्रकाशते तस्य पीतवस्त्रवदव्ययम् ॥ 020c
तस्मिन्नुपरते रूपमाकाशस्य प्रकाशते । 021a
तस्मिन्नुपरते चास्य बुद्धिरूपं प्रकाशते । 021c
ऊर्णारूपसवर्णस्य तस्य रूपं प्रकाशते ॥ 021e
अथ श्वेतां गतिं गत्वा सोहङ्कारे प्रकाशते । 022a
सुशुक्लं चेतसः सौक्ष्म्यमप्युक्तं ब्राह्मणस्य वै ॥ 022c
एतेष्वपि हि जातेषु फलजातानि मे शृणु । 023a
जातस्य पार्थिवैश्वर्यैः सृष्टिरिष्टा विधीयते ॥ 023c
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजते प्रजाः । 024a
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ॥ 024c
पृथिवीं कम्पयत्येको गुणो वायोरिति श्रुतिः । 025a
आकाशभूतश्चाकाशे सवर्णत्वात्प्रकाशते । 025c
वर्णतो गृह्यते चाप्सु नापः पिबति चाशया ॥ 025e
न चास्य तेजसां रूपं दृश्यते शाम्यते तथा । 026a
अहङ्कारेऽस्य विजिते पञ्चैते स्युर्वशानुगाः ॥ 026c
षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ । 027a
निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते ॥ 027c
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते । 028a
यतो निःसरते लोको भवति व्यक्तसञ्ज्ञकः ॥ 028c
तत्राव्यक्तमयीं विद्यां शृणु त्वं विस्तरेण मे । 029a
तथा व्यक्तमयं चैव सङ्ख्यापूर्वं निबोध मे ॥ 029c
पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम् । 030a
योगे साङ्ख्येऽपि च तथा विशेषं तत्र मे शृणु ॥ 030c
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् । 031a
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥ 031c
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् । 032a
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ॥ 032c
चतुर्लक्षणजं त्वाद्यं चतुर्वर्गं प्रचक्षते । 033a
व्यक्तमव्यक्तजं चैव तथा बुद्धिरथेतरत् ॥ 033c
सत्वं क्षेत्रज्ञ इत्येतद्द्वयमव्यक्तदर्शनम् ॥ 033e
द्वावात्मानौ च वेदेषु विषयेष्वनुरज्यतः । 034a
विषयात्प्रतिसंहारः साङ्ख्यानां विद्धि लक्षणम् ॥ 034c
निर्ममश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः । 035a
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः ॥ 035c
आक्रुष्टस्ताडितश्चैव मैत्रीयं ध्याति नाशुभम् । 036a
वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः ॥ 036c
समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते । 037a
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ॥ 037c
अलोलुपोऽव्यथो दान्तो नाकृतिर्न निराकृतिः । 038a
नास्येन्द्रियमनेकाग्रं नाविक्षिप्तमनोरथः ॥ 038c
सर्वभूतसदृङ्मैत्रः समलोष्टाश्मकाञ्चनः । 039a
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 039c
अस्पृहः सर्वकामेभ्यो ब्रह्मचर्यदृढव्रतः । 040a
अहिंस्रः सर्वभूतानामीदृक्साङ्ख्यो विमुच्यते ॥ 040c
यथा योगाद्विमुच्यन्ते कारणैर्यैर्निबोध तत् । 041a
योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते ॥ 041c
इत्येषा भावजा बुद्धिः कथिता ते न संशयः । 042a
एवं भवति निर्द्वन्द्वो ब्रह्माणं चाधिगच्छति ॥ 042c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥

12-242-1 उह्येत स्रोतसा यथेति झ. पाठः ॥ 12-242-3 देशकर्मानुरागार्थानुपायेति झ. पाठः ॥ 12-242-4 चक्षुराहारसंहारैरिति झ. पाठः । यच्छेद्वाचं मनो बुद्ध्येति थ. पाठः ॥ 12-242-12 त्यागसूक्ष्मानुग इति झ. ध. पाठः ॥ 12-242-17 निर्मथ्यमानः सूक्ष्मात्मा रूपाण्येतानि दर्शयेत् इति ट. थ. पाठः ॥ 12-242-25 वर्णतो गृह्यते चापि कामात्पिबति चाशयानिति झ. पाठः ॥ 12-242-36 वाङ्मनःकायदण्डानामिति ट. थ. पाठः ॥