अध्यायः 241
भीष्मेण युधिष्ठिरम् प्रति व्यासकृतब्राह्मणधर्मकथनपूर्वकज्ञानप्रशंसनानुवादः ॥ 1 ॥
व्यास उवाच 001
त्रयीं विद्यामवेक्षेत वेदेषूत्तमतां गतः । 001a
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा ॥ 001c
[तिष्ठत्येतेषु भगवान्षट्सु कर्मसु संस्थितः ।] 002a
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये ॥ 002c
सत्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ । 003a
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् ॥ 003c
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः । 004a
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः ॥ 004c
स्वधर्मेण क्रिया लोके कुर्वाणः सोऽप्यसङ्करः । 005a
तिष्ठते तेषु गृहवान्षट्सु कर्मसु स द्विजः ॥ 005c
पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च । 006a
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् । 006c
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति ॥ 006e
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः । 007a
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥ 007c
धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः । 008a
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ 008c
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च । 009a
वर्जयेदुशतीं वाचं हिंसां चाधर्मसंहिताम् ॥ 009c
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते । 010a
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिद्ध्यति ॥ 010c
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् । 011a
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् ॥ 011c
कालमभ्युद्यतं पश्येन्नित्यमत्यन्तमोहनम् ॥ 012ac
महता विधिदृष्टेन बलिनाऽप्रतिघातिना । 013a
स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् ॥ 013c
कालोदकेन महता वर्षावर्तेन सन्ततम् । 014a
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च ॥ 014c
निमेषोन्मेषफेनेन अहोरात्रजवेन च । 015a
कामग्राहेण घोरेण वेदयज्ञप्लवेन च ॥ 015c
धर्मद्वीपेन भूतानां चार्थकामरवेण च । 016a
ऋतवाङ्मोक्षतीरेण विहिंसातरुवाहिना ॥ 016c
युगह्रदौघमध्येन ब्रह्मप्रायभवेन च । 017a
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ॥ 017c
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः । 018a
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः ॥ 018c
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः । 019a
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति ॥ 019c
संशयात्तु स कामात्मा चलचित्तोऽल्पचेतनः । 020a
अप्राज्ञो न तरत्येनं यो ह्यास्ते न स गच्छति ॥ 020c
अप्लवो हि महादोषं मुह्यमानो न गच्छति । 021a
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः ॥ 021c
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः । 022a
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् ॥ 022c
त्र्यवदाते कुले जातस्त्रिसन्देहस्त्रिकर्मकृत् । 023a
तस्मादुन्मज्जनं तिष्ठेत्प्रज्ञया निस्तरेद्यथा ॥ 023c
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः । 024a
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च ॥ 024c
वर्तेत तेषु गृहवानक्रुध्यन्ननसूयकः । 025a
पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च ॥ 025c
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् । 026a
असंरोधेन लोकस्य वृत्तिं लिप्सेदगर्हिताम् ॥ 026c
श्रुतविज्ञानतत्त्वज्ञः शिष्टाचारविचक्षणः । 027a
स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसङ्करः ॥ 027c
क्रियावाञ्श्रद्दधानो कहि दान्तः प्रायोऽनसूयकः । 028a
धमार्धर्मविशेषज्ञः सर्वं तरति दुस्तरम् ॥ 028c
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् । 029a
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति ॥ 029c
एषा पुरातनी वृत्तिर्ब्राह्मणस्य विधीयते । 030a
ज्ञानवृद्ध्यैव कर्माणि कुर्वन्सर्वत्र सिध्यति ॥ 030c
अधर्मं धर्मकामो हि करोति ह्यविचक्षणः । 031a
धर्मं वा धर्मसङ्काशं शोचन्निव करोति सः ॥ 031c
धर्मं करोमीति करोत्यधर्ममधर्मकामश्च करोति धर्मम् । 032a
उभे बालः कर्मणी न प्रजानन् सञ्जायते म्रियते चापि देही ॥ 032c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥
12-241-1 वेदेषूक्तामथाङ्गत इति झ. पाठः ॥ 12-241-7 एतैर्वर्धयते इति झ. पाठः ॥ 12-241-12 काममन्यूद्धतं पश्यन्नित्यमत्यन्तमोहितमिति ट. थ. ध. पाठः ॥ 12-241-17 ब्रह्मप्रायभवेन ब्रह्मकार्यभूतेन । स्रोतसा युगभूतेन ब्रह्मप्रायभवेन चेति ट. थ. पाठः ॥ 12-241-23 अवदातेषु शुद्धेषु कुलेष्विति शेषः । त्रिष्वध्यापनयाजनप्रतिग्रहेषु सन्देहवांस्तत्राप्रवृत्त इत्यर्थः । त्रिकर्मकृत् स्वाध्याययजनदानकृत् ॥ 12-241-27 शिष्टशास्त्रविचक्षण इति ट. थ. पाठः ॥