अध्यायः 240

भीष्मेण युधिष्ठिरम् प्रति व्यासेन शुकायोक्तब्राह्मणधर्मानुवादः ॥ 1 ॥तथा ब्राह्मणेभ्यो दानमहिमानुवादः ॥ 2 ॥ व्यास उवाच 001
भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया । 001a
ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि साम्प्रतम् ॥ 001c
जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् । 002a
क्रिया स्यादासमावृत्तेराचार्ये वेदपारगे ॥ 002c
अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः । 003a
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् ॥ 003c
आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । 004a
आविमोक्षाच्छरीरस्य सोऽवतिष्ठेद्यथाविधि ॥ 004c
प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः । 005a
वने गुरुसकाशे वा यतिधर्मेण वा पुनः ॥ 005c
गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते । 006a
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ॥ 006c
प्रजावान्श्रोत्रियो यज्वा मुक्त एव ऋणैस्त्रिभिः । 007a
अथान्यानाश्रमान्पश्चात्पूतो गच्छेत कर्मभिः ॥ 007c
यत्पृथिव्यां पुण्यतमं विद्यात्स्थानं तदावसेत् । 008a
यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे ॥ 008c
तपसा वा सुमहता विद्यानां पारणेन वा । 009a
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः ॥ 009c
यावदस्य भवत्यस्मिन्कीर्तिर्लोके यशस्करी । 010a
तावत्पुण्यकृताल्ँलोकाननन्तान्पुरुषोऽश्नुते ॥ 010c
अध्यापयेदधीयीत याजयेत यजेत वा । 011a
न वृथा प्रतिगृह्णीयान्न च दद्यात्कथञ्चन ॥ 011c
याज्यतः शिष्यतो वाऽपि कन्याया वा धनं महत् । 012a
यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथञ्चन ॥ 012c
गृहमावसतो ह्यस्य नान्यत्तीर्थमुदाहृतम् । 013a
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ॥ 013c
अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् । 014a
द्रव्याणामतिशक्त्याऽपि देयमेषां कृतादपि ॥ 014c
अर्हतामनुरूपाणां नादेयं ह्यस्ति किञ्चन । 015a
उच्चैःश्रवसमप्यश्वं काश्यपाय महात्मने । 015c
दत्त्वा जगाम प्रह्लादो लोकान्देवैरभिष्टुतान् ॥ 015e
अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः । 016a
स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः ॥ 016c
रन्तिदेवश्च साङ्कृत्यो वसिष्ठाय महात्मने । 017a
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते ॥ 017c
आत्रेयश्चेन्द्रद्रुमये ह्यर्हते विविधं धनम् । 018a
दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः ॥ 018c
शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् । 019a
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥ 019c
प्रतर्दनः काशिपतिः प्रदाय नयने स्वके । 020a
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥ 020c
दिव्यमष्टशलाकं तु सौवर्णं परमर्द्धिमत् । 021a
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यगमद्दिवम् ॥ 021c
साङ्कृतिश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् । 022a
उपदिश्य महातेजा गतो लोकाननुत्तमान् ॥ 022c
अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् । 023a
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यगमद्दिवम् ॥ 023c
सावित्री कुण्डले दिव्ये शरीरं जनमेजयः । 024a
ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ॥ 024c
सर्वरत्नं वृषादर्विर्युवनाश्वः प्रियाः स्त्रियः । 025a
रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः ॥ 025c
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुन्धराम् । 026a
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम् ॥ 026c
अवर्षति च पर्जन्ये सर्वभूतानि भूतकृत् । 027a
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ॥ 027c
करन्धमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा । 028a
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह ॥ 028c
ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः । 029a
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् ॥ 029c
राजा मित्रसहश्चापि वसिष्ठाय महात्मने । 030a
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥ 030c
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः । 031a
ब्राह्मणार्थं परित्यज्य गतो लोकाननुत्तमान् ॥ 031c
सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् । 032a
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः ॥ 032c
नाम्ना च द्युतिमान्नाम साल्वराजः प्रतापवान् । 033a
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥ 033c
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः । 034a
ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत ॥ 034c
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् । 035a
हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् ॥ 035c
दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् । 036a
सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥ 036c
एते चान्ये च बहवो दानेन तपसैव च । 037a
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥ 037c
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी । 038a
दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् ॥ 038c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥

12-240-14 कृतात्पक्वान्नादपि ॥