अध्यायः 239
भीष्मेण युधिष्ठिरम् प्रति शुकाय श्रीव्यासोदितप्रलयप्रकाराद्यनुवादः ॥ 1 ॥
व्यास उवाच 001
प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि । 001a
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ॥ 001c
दिवि सूर्यस्तथा सप्त दहन्ति शिखिनोऽर्चिषः । 002a
सर्वमेतत्तदाऽर्चिर्भिः पूर्णं जाज्वल्यते जगत् ॥ 002c
पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च । 003a
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ 003c
ततः प्रलीने सर्वास्मिन्स्थावरे जङ्गमे तथा । 004a
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् ॥ 004c
भूमेरपि गुणं गन्धमाप आददते यदा । 005a
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते ॥ 005c
आपस्तत्र प्रतिष्ठन्ते ऊर्मिमत्यो महास्वनाः । 006a
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च ॥ 006c
अपामपि गुणांस्तात ज्योतिराददते यदा । 007a
आपस्तदा त्वात्तगुणा ज्योतिःषूपरमन्ति वै ॥ 007c
यदाऽऽदित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः । 008a
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः ॥ 008c
ज्योतिषोऽपि गुणं रूपं वायुराददते यदा । 009a
प्रशाम्यति ततो ज्योतिर्वायुर्दोधूयते महान् ॥ 009c
ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः । 010a
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश ॥ 010c
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा । 011a
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् ॥ 011c
अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् । 012a
सर्वलोकप्रणुदितं खं तु तिष्ठति नानदत् ॥ 012c
आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः । 013a
'ग्रसते च यदा सोऽपि शाम्यति प्रतिसञ्चरे ।' 013c
मनसो व्यक्तमव्यक्तं ब्राह्मः सम्प्रतिसञ्चरः ॥ 013e
तदाऽऽत्मगुणमाविश्य मनो ग्रसति चन्द्रमाः । 014a
मनस्युपरते चात्मा चन्द्रमस्युपतिष्ठते ॥ 014c
तं तु कालेन महता सङ्कल्पं कुरुते वशे । 015a
चित्तं ग्रसति सङ्कल्पस्तच्च ज्ञानमनुत्तमम् ॥ 015c
कालो गिरति विज्ञानं कालं बलमिति श्रुतिः । 016a
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे ॥ 016c
[आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि ।] 017a
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम् । 017c
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंहरेत् ॥ 017e
यथावत्कीर्तितं सत्यमेवमेतदसंशयम् । 018a
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः ॥ 018c
एवं विस्तारसङ्क्षेपौ ब्रह्माव्यक्ते पुनःपुनः । 019a
युगसाहस्रयोरादावहोरात्र्यास्तथैव च ॥ 019c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 239 ॥
12-239-1 क्रमप्राप्तं प्रलयमाह प्रत्याहारमिति । प्रतीपमुत्पत्तिक्रमविपरीतमाहरणं प्रत्याहारः ॥ 12-239-2 सङ्कर्षणमुखोद्भूतस्य शिखिनोऽग्नेरर्चिषः सप्तेति सम्बन्धः । अर्चिर्भिः सौरीभिराग्नेयीभिश्च ज्वालाभिः ॥ 12-239-3 ध्रुवाणि स्थावराणि ॥ 12-239-4 निर्वृक्षा निस्तृणेति झ. पाठः ॥ 12-239-5 गन्धं काठिन्यहेतुम् । धृतवद्भूमिः काठिन्यं त्यक्त्वा जलमात्रं भवतीत्यर्थः । प्रलयत्वाय कारणभावाय ॥ 12-239-7 आपोप्यात्तगुणा अग्निना शोषितरसा अग्निमात्रं भवन्ति ॥ 12-239-8 यथा रसगुमांस्तासां ग्रसन्ति शिखिनोऽर्चिष इति ट. थ. पाठः ॥ 12-239-9 रूपं वायुराददते । आङ्पूर्वस्य दद दाने इत्यस्य रूपम् ॥ 12-239-10 ततस्तु स्वनमासाद्येति झ. पाठः । तत्र स्वनं शब्दतन्मात्रमित्यर्थः ॥ 12-239-13 ब्राह्मोऽयं प्रतिसञ्चर इति ध. पाठः ॥ 12-239-16 कालो हरति विज्ञानमिति थ. पाठः ॥ 12-239-18 बोध्यं बोधयितुं योग्यमन्वर्थनामानं शिष्यम् । विद्यामयम् अत्यौत्कण्ठ्येन विद्यार्थित्वात् ॥ 12-239-19 विस्तारसङ्क्षेपौ सृष्टिप्रलयावुक्ताविति शेषः ॥