अध्यायः 238

भीष्मेण युधिष्ठिरम् प्रति सृष्ट्यादिप्रतिपादकव्यासशुकसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
आद्यन्तं सर्वभूतानां ज्ञातुमिच्छामि कौरव । 001a
ध्यानं कर्म च कालं च तथैवायुर्युगेयुगे ॥ 001c
लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् । 002a
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते ॥ 002c
'भेदकं भेदतत्वं च तथाऽन्येषां मतं तथा । 003a
अवस्थात्रितयं चैव यादृशं च पितामह ॥' 003c
यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर । 004a
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे ॥ 004c
पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् | 005a
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा ॥ 005c
जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता । 006a
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति ॥ 006c
भीष्म उवाच 007
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् । 007a
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते ॥ 007c
अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा । 008a
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् ॥ 008c
कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः । 009a
पप्रच्छ संशयमिमं छिन्नधर्मार्थसंशयम् ॥ 009c
श्रीशुक उवाच 010
भूतग्रामस्य र्क्तारं कालज्ञाने च निश्चितम् । 010a
'ज्ञानं ब्रह्म च योगं च गवात्मकमिदं जगत् ॥ 010c
त्रितये त्वेनमायाति तथा ह्येषोऽपि वा पुनः । 011a
केनैव च विभागः स्यात्तुरीयो लक्षणैर्विना ॥ 011c
ज्ञानज्ञेयान्तरे कोसौ कोयं भावस्तु भेदवत् । 012a
यज्ज्ञानं लक्षणं चैव तेषां कर्तारमेव च ।' 012c
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति ॥ 012e
भीष्म उवाच 013
तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते । 013a
अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् ॥ 013c
'पृच्छतस्तव सत्पुत्र यथावत्कीर्तयाम्यहम् । 014a
शृणुष्वावहितो भूत्वा यथाऽऽवृतमिदं जगत् ॥ 014c
कार्यादि कारणान्तं यत्कार्यान्तं कारणादिकम् । 015a
ज्ञानं तदुभयं वित्त्वा सत्यं च परमं शुभम् ॥ 015c
ब्रह्मेति चाभिविख्यातं तद्वै पश्यन्ति सूरयः । 016a
ब्रह्मतेजोमयं भूतं भूतकारणमद्भुतम् ॥ 016c
आसीदादौ ततस्त्वाहुः प्राधान्यमिति तद्विदः । 017a
त्रिगुणां तां महामायां वैष्णवीं प्रकृतिं विदुः ॥ 017c
तदीदृशमनाद्यन्तमव्यक्तमजरं ध्रुवम् । 018a
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे वैकृतं च तत् ॥ 018c
तद्वै प्रधानमुद्दिष्टं त्रिसूक्ष्मं त्रिगुणात्मकम् । 019a
सम्यग्योगगुणं स्वस्थं तदिच्छाक्षोभितं महत् ॥ 019c
शक्तित्रयात्मिका तस्य प्रकृतिः कारणात्मिका । 020a
अस्वतन्त्रा च सततं विदधिष्ठानसंयुता ॥ 020c
स्वभावाख्यं समापन्ना मोहविग्रहधारिणी । 021a
विविधस्यास्य जीवस्य भोगार्थं समुपागता ॥ 021c
यथा सन्निधिमात्रेण गन्धक्षोभाय जायते । 022a
मनस्तद्वदशेषस्य परात्पर इति स्मृतः ॥ 022c
सृष्ट्वा प्रविश्य तत्तस्मिन्क्षोभयामास विष्ठितः । 023a
सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥ 023c
प्रधानतत्वादुद्भूतो महत्वाच्च महान्स्मृतः । 024a
प्रधानतत्वमुद्भूतं महत्तत्वं समावृणोत् ॥ 024c
कालात्मनाऽभिभूतं तत्कालोंऽशः परमात्मनः । 025a
पुरुषश्चाप्रमेयात्मा स एव इति गीयते ॥ 025c
त्रिगुणोसौ महाज्ञातः प्रधान इति वै श्रुतिः ॥ 026ac
सात्विको राजसश्चैव तामसश्च त्रिधात्मकः । 027a
त्रिविधोऽयमहङ्कारो महत्तत्वादजायत ॥ 027c
तामसोऽसावहङ्कारो भूतादिरिति सञ्ज्ञितः । 028a
भूतानामादिभूतत्वाद्रक्ताहिस्तामसः स्मृतः ॥ 028c
भूतादिः स विकुर्वाणः शिष्टं तन्मात्रकं ततः । 029a
ससर्ज शब्दं तन्मात्रमाकाशं शब्दलक्षणम् ॥ 029c
शब्दलक्षणमाकाशं शब्दतन्मात्रमावृणोत् । 030a
तेन सम्पीड्यमानस्तु स्पर्शमात्रं ससर्ज ह ॥ 030c
शब्दमात्रं तदाकाशं स्पर्शमात्रं समावृणोत् । 031a
ससर्ज वायुस्तेनासौ पीड्यमान इति श्रुतिः ॥ 031c
स्पर्शमात्रं तदा वायू रूपमात्रं समावृणोत् । 032a
तेन सम्पीड्यमानस्तु ससर्जाग्निमिति श्रुतिः ॥ 032c
रूपमात्रं ततो वह्निं समुत्सृज्य समावृणोत् । 033a
तेन सम्पीड्यमानस्तु रसमात्रं ससर्ज ह ॥ 033c
रुपमात्रगतं तेजो रसमात्रं समावृणोत् । 034a
तेन सम्पीड्यमानस्तु ससर्जाम्भ इति श्रुतिः ॥ 034c
रसमात्रात्मकं भूयो रसं तन्मात्रमावृणोत् । 035a
तेन सम्पीड्यमानस्तु गन्धं तन्मात्रकं ततः ॥ 035c
ससर्ज गन्धं तन्मात्रमावृणोत्करकं ततः । 036a
तेन सम्पीड्यमानस्तु काठिन्यं च ससर्ज ह ॥ 036c
पृथिवी जायते तस्माद्गन्धतन्मात्रजात्तथा ॥ 037ac
अम्मयं सर्वमेवेदमापस्तस्तम्भिरे पुनः । 038a
भूतानीमानि जातानि पृथिव्यादीनि वै श्रुतिः ॥ 038c
भूतानां मूर्तिरेवैषामन्नं चैषां मता बुधैः । 039a
तस्मिंस्तस्मिंस्तु तन्मात्रा तन्मात्रा इति ते स्मृताः ॥ 039c
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश । 040a
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ 040c
एषामुद्धर्तकः कालो नानाभेदवदास्थितः । 041a
परमात्मा च भूतात्मा गुणभेदेन संस्थितः । 041c
एक एव त्रिधा भिन्नः करोति विविधाः क्रियाः ॥ 041e
ब्रह्मा सृजति भूतानि पाति नारायणोऽव्ययः । 042a
रुद्रो हन्ति जगन्मूर्तिः काल एष क्रियाबुधः ॥ 042c
कालोपि तन्मयोचिन्त्यस्त्रिगुणात्मा सनातनः । 043a
अव्यक्तोसावचिन्त्योसौ वर्तते भिन्नलक्षणः ॥ 043c
कालात्मना त्विदं भिन्नमभिन्नं श्रूयते हि यत् । 044a
अनाद्यन्तमजं दिव्यमव्यक्तमजरं ध्रुवम् ।' 044c
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे सम्प्रवर्तते ॥ 044e
काष्ठा निमेषा दश पञ्च चैव त्रिंशत्तु काष्ठा गणयेत्कलां ताम् । 045a
त्रिंशत्कलश्चापि भवेन्मुहूर्तो भागः कलाया दशमश्च यः स्यात् ॥ 045c
त्रिंशन्मुहूर्तं तु भवेदहश्च रात्रिश्च सङ्ख्या मुनिभिः प्रणीता । 046a
मासः स्मृतो रात्र्यहनी च त्रिंशत्संवत्सरो द्वादशमास उक्तः ॥ 046c
संवत्सरं द्वे अयने वदन्ति सङ्ख्याविदो दक्षिणमुत्तरं च ॥ 047ac
अहोरात्रौ विभजते सूर्यो मानुषलौकिकौ । 048a
रात्रिः स्वप्नाय संयाति चेष्टायै कर्मणामहः ॥ 048c
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः । 049a
शुक्लोऽहः कर्मचेष्टायां कृष्णः स्वप्नाय शर्वरी ॥ 049c
दैवे रात्र्यहनी ह्यब्दः प्रविभागस्तयोः पुनः । 050a
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ 050c
ये ते रात्र्यहनी पूर्वं कीर्तिते दैवलौकिके । 051a
तयोः सङ्ख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहः क्षपे ॥ 051c
तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः । 052a
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा ॥ 052c
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । 053a
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ 053c
इतरेषु ससन्ध्येषु सन्ध्यांशेषु ततस्त्रिषु । 054a
एकापायेन संयान्ति सहस्राणि शतानि च ॥ 054c
एतानि शाश्वताल्ँलोकान्धारयन्ति सनातनान् । 055a
एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् ॥ 055c
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युग । 056a
नाधर्मेणागमः कश्चिद्युगे तस्मिन्प्रवर्तते ॥ 056c
इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते । 057a
'सत्यं शौचं तथायुश्च धर्मश्चापैति पादशः ।' 057c
चौर्यकानृतमायाभिरधर्मश्चोपचीयते ॥ 057e
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । 058a
कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः ॥ 058c
वेदवादाश्चानुयुगं ह्रसन्तीतीह नः श्रुतम् । 059a
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् ॥ 059c
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे । 060a
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव ॥ 060c
तपः परं कृतयुगे त्रेतायां सत्यमुत्तमम् । 061a
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ 061c
एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः । 062a
सहस्रपरिवर्तं तद्ब्राह्मं दिवसमुच्यते ॥ 062c
रात्रिस्तु तावती ब्राह्मी तदादौ विश्वमीश्वरः । 063a
प्रलयेत्मानमाविश्य सुप्त्वासोऽन्ते विबुध्यते ॥ 063c
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । 064a
रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः ॥ 064c
प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये । 065a
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः ॥ 065c
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । 066a
आकाशं जायते तस्मात्तस्य शब्दे गुणो मतः ॥ 066c
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । 067a
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः ॥ 067c
वायोरपि विकुर्वाणाज्ज्योतिर्भवति भास्वरम् । 068a
रोचनं जनयेच्छुद्धं तद्रूपगुणमुच्यते ॥ 068c
ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः । 069a
अद्भ्यो गन्धवहा भूमिः पूर्वेषां सृष्टिरुच्यते ॥ 069c
'ब्रह्मतेजोमयं शुक्लं यस्य सर्वमिदं जगत् । 070a
एकस्य ब्रह्मभूतस्य द्वयं स्थावरजङ्गमम् ॥ 070c
अहर्मुखे विबुद्धं तत्सृजते विद्यया जगत् । 071a
अग्र एव महद्भूतमाशु व्यक्तात्मकं मनः ॥ 071c
अभिभूयेह चातिष्ठद्व्यसृदत्सप्त मानसान् । 072a
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ॥ 072c
मनः सृष्टिं न कुरुते चोद्यमानं सिसृक्षया । 073a
आकाशो जायते तस्मात्तस्य शब्दो गुणो मतः ॥ 073c
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । 074a
बलवाञ्जायते वायुस्तस्य स्पर्शगुणं विदुः ॥ 074c
वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् । 075a
रोचिष्णुर्जायते तत्र तद्रूपगुणमुच्यते ॥ 075c
ज्योतिषोपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः । 076a
अद्भ्यो गन्धवहा भूमिः पूर्वेषां सृष्टिरुच्यते ॥' 076c
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् । 077a
तेषां यावद्गुणं यद्यत्तत्तावद्गुणकं स्मृतम् ॥ 077c
उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात् । 078a
पृथिव्यामेव तं विद्यादपां वायोश्च संश्रितम् ॥ 078c
एते सप्तविधात्मानो नानावीर्याः पृथक्पृथक् । 079a
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः ॥ 079c
ते समेत्य महात्मानो ह्यन्योन्यमभिसंश्रिताः । 080a
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते ॥ 080c
श्रयणाच्छरीरी भवति मूर्तिमान्षोडशात्मकः । 081a
तमाविशन्ति भूतानि महान्ति सह कर्मणा ॥ 081c
सर्वभूतान्युपादाय तपसश्चरणाय हि । 082a
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् ॥ 082c
स वै सृजति भूतानि स एव पुरुषः परः । 083a
अजो जनयते ब्रह्मा देवर्षिपितृमानवान् ॥ 083c
लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन् । 084a
नरकिन्नररक्षांसि वयःपशुमृगोरगान् । 084c
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ 084e
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । 085a
तान्येव प्रतिपाद्यन्ते सृज्यमानाः पुनः पुनः ॥ 085c
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । 086a
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ 086c
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । 087a
विनियोगं च भूतानां धातैव विदधात्युत ॥ 087c
केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः । 088a
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥ 088c
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः । 089a
त्रय एतेऽपृथग्भूता अविवेकः कथञ्चन ॥ 089c
एवमेतच्च दैवं च यद्भूतं सृजते जगत् । 090a
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः ॥ 090c
ततो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः । 091a
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति ॥ 091c
तपसा तदवाप्नोति यद्भूतं सृजते जगत् । 092a
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः ॥ 092c
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् । 093a
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ॥ 093c
ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः । 094a
नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् ॥ 094c
वेदशब्देभ्य एवादौ निर्मिमीते स ईश्वरः । 095a
नामधेयानि चर्षीणां याश्च वेदेषु सृष्टयः । 095c
शर्वर्यन्तेषु जातानामन्येभ्यो विदधात्यजः ॥ 095e
नामभेदतपःकर्मयज्ञाख्या लोकसिद्धये । 096a
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः ॥ 096c
यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः । 097a
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते ॥ 097c
कर्मजोऽयं पृथग्भावो द्वन्द्वयुक्तो हि देहिनः । 098a
आत्मसिद्धिस्तु विज्ञानाज्जहाति प्रायशो बलम् ॥ 098c
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । 099a
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ 099c
आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः । 100a
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ॥ 100c
त्रेतायुगे विधिस्त्वेष यज्ञानां न कृते युगे । 101a
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ॥ 101c
अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च । 102a
काम्या इष्टीः पृथक्दृष्ट्वा तपोभिस्तप एव च ॥ 102c
त्रेतायां तु समस्ता ये प्रादुरासन्महाबलाः । 103a
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः ॥ 103c
त्रेतायां संहता वेदा यज्ञा वर्णास्तथैव च । 104a
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥ 104c
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः । 105a
उत्सीदन्ते सयज्ञाश्च केवला धर्मपीडिताः ॥ 105c
कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते । 106a
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः ॥ 106c
स धर्मः प्रैति संयोगं यथाधर्मं युगेयुगे । 107a
विक्रियन्ते स्वधर्मस्था वेदवादा यथागमम् ॥ 107c
यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि । 108a
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगेयुगे ॥ 108c
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । 109a
दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु ॥ 109c
विहितं कालनानात्वमनादिनिधनं तथा । 110a
कीर्तितं यत्पुरस्तात्ते तत्सूते चाति च प्रजाः ॥ 110c
ददाति भवनस्थानं भूतानां संयमो यमः । 111a
स्वभावेनैव वर्तन्ते द्वन्द्वयुक्तानि भूरिशः ॥ 111c
सर्वकालक्रिया वेदाः कर्ता कार्यं क्रियाफलम् । 112a
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि ॥ 112c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥

12-238-9 संशयं संशयविषयम् । छिन्नधर्मार्थसंशयं व्यासम् ॥ 12-238-45 दशपञ्च च स्थात् इति ट. थ. ध. पाठः ॥ 12-238-54 एकपादेन हीयन्ते इति झ. पाठः ॥ 12-238-60 अन्ये कलियुगे नॄणां युगह्रासानुरूपतः इति झ. पाठः ॥ 12-238-68 रोचिष्णु जायते शुक्रम् इति झ. थ. पाठः ॥ 12-238-89 अविवेकं तु केचन इति झ. पाठः ॥ 12-238-94 याश्च लोकेषु सृष्टयः इति ट. थ . पाठः ॥ 12-238-95 याश्च लोकेषु सृष्टयः इति ट. थ. पाठः ॥ 12-238-97 कर्मयोगेषु लक्ष्यते इति ध. पाठः ॥ 12-238-100 आलम्भः पशुहिंसा । हविर्व्रीह्यादिकम् । परिचारस्त्रैवर्णिकसेवा । तपो ब्रह्मोपासनम् । आरम्भयज्ञा राजानः इति ट. पाठः । आरम्भयज्ञा वैश्वस्य हविर्यज्ञा नृपस्य तु । इति ध. पाठः ॥ 12-238-101 विधिरप्रवृत्तप्रवर्तनम् । तत्र त्रेतायामेव नतु कृते । स्वतएव तत्र तत्सिद्धेः ॥ 12-238-108 तिष्ठन्तीति स्थानि स्थावराणि जङ्गमानि च स्थानि च जङ्गमस्थानि । भूयांसि वृद्धिमत्तराणि ॥ 12-238-111 एतद्धि प्रभवस्थानम् इति झ. ट. पाठः । दधाति भवति स्थानं भूतानां समयो मतम् । इति झ. पाठः ॥ 12-238-112 सर्गः सृष्टिः । कालो दर्शादिः । क्रियां यज्ञश्राद्धादिः । वेदास्तत्प्रकाशकाः । कर्ता तदनुष्ठाता । कार्यं देहादिपरिस्पन्दः । क्रियाफलं स्वर्गः ॥