अध्यायः 237
भीष्मेण युधिष्ठिरम् प्रति सद्गुणानां जनवशीकरणकारणत्वे दृष्टान्ततया उग्रसेनाय कृष्णोदितनारदगुणानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
प्रियः सर्वस्य लोकस्य सर्वसत्वाभिनन्दितः । 001a
गुणैः सर्वैरुपेतश्च कोन्वस्ति भुवि मानवः ॥ 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ । 002a
उग्रसेनस्य संवादं नारदे केशवस्य च ॥ 002c
उग्रसेन उवाच 003
यस्य सङ्कल्पते लोको नारदस्य प्रकीर्तने । 003a
मन्ये स गुणसम्पन्नो ब्रूहि तन्मम पृच्छतः ॥ 003c
वासुदेव उवाच 004
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः । 004a
नारदस्य गुणान्साधून्सङ्क्षेपेण नराधिप ॥ 004c
न चारित्रनिमित्तोऽस्याहङ्कारो देहपातनः । 005a
अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः ॥ 005c
अरतिः क्रोधचापल्ये भयं नैतानि नारदे | 006a
अदीर्घसूत्रः शूरश्च तस्मात्सर्वत्र पूजितः ॥ 006c
उपास्यो नारदो बाढं वाचि नास्य व्यतिक्रमः । 007a
कामतो यदि वा लोभात्तस्मात्सर्वत्र पूजितः ॥ 007c
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः । 008a
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः ॥ 008c
तेजसा यशसा बुद्ध्या ज्ञानेन विनयेन च । 009a
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः ॥ 009c
सुशीलः सुखसंवेशः सुभोजः स्वादरः शुचिः । 010a
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः ॥ 010c
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते । 011a
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः ॥ 011c
वेदश्रुतिभिराख्यानैरर्थानभिजिगीषति । 012a
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः ॥ 012c
समत्वाच्च प्रियो नास्ति नाप्रियश्च कथञ्चन । 013a
मनोऽनुकूलवादी च तस्मात्सर्वत्र पूजितः ॥ 013c
बहुश्रुतश्चित्रकथः पण्डितोऽनलसोऽशठः । 014a
अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः ॥ 014c
नार्थे धने वा कामे वा भूतपूर्वोऽस्य विग्रहः । 015a
दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः ॥ 015c
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् । 016a
वीतसम्मोहदोषश्च तस्मात्सर्वत्र पूजितः ॥ 016c
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते । 017a
अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः ॥ 017c
समाधिर्नास्य कामार्थै नात्मानं स्तौति कर्हिचित् । 018a
अनीर्षुर्मृदुसंवादस्तस्मात्सर्वत्र पूजितः ॥ 018c
'नाहङ्कारे मुक्तिरस्य चारित्रे बुद्धिरास्थिता । 019a
वेदार्थविद्विभागेन यज्ञविद्योगवित्कविः । 019c
भक्तिमान्स सदा विद्वांस्तस्मात्सर्वत्र पूजितः ॥ 019e
त्रिगुणं गुणभोक्तारं पञ्चयज्ञात्मकं तथा । 020a
यथावत्स विजानाति तस्मात्सर्वत्र पूजितः ॥ 020c
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते । 021a
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूज्यते ॥' 021c
लोकस्य विविधं चित्तं प्रेक्षते चाप्यकुत्सयन् । 022a
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः ॥ 022c
नासूयत्यागमं कञ्चित्स्वनयेनोपजीवति । 023a
अवन्ध्यकालोऽवश्यात्मा तस्मात्सर्वत्र पूजितः ॥ 023c
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः । 024a
नित्ययुक्तोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः ॥ 024c
नापत्रपश्च युक्तश्च नियुक्तः श्रेयसे परैः । 025a
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः ॥ 025c
न हृष्यत्यर्थलाभेषु नालाभे तु व्यथत्यपि । 026a
स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः ॥ 026c
तं सर्वगुणसम्पन्नं दक्षं शुचिमनामयम् । 027a
कालज्ञं च प्रियज्ञं च कः प्रियं न करिष्यति ॥ 027c
'इत्युक्तः सम्प्रशस्यैनमुग्रसेनो गतो गृहात् । 028a
आस्ते कृष्णस्तथैकान्ते पर्यङ्के रत्नभूषिते ॥ 028c
कदाचित्तत्र भगवान्प्रविवेश महामुनिः । 029a
तमभ्यर्च्य यथान्यायं तूष्णीमास्ते जनार्दनः ॥ 029c
तं खिन्नमिव संलक्ष्य केशवं वाक्यमब्रवीत् । 030a
किमिदं केशव तव वैमनस्यं जनार्दन । 030c
अभूतपूर्वं गोविन्द तन्मे व्याख्यातुमर्हसि ॥ 030e
श्रीवासुदेव उवाच 031
नासुहृत्परमं मेऽद्य नापदोऽर्हति वेदितुम् । 031a
अपण्डितो वापि सुहृत्पण्डितो वाऽप्यनात्मवान् ॥ 031c
स त्वं सुहृच्च विद्वांश्च जितात्मा श्रोतुमर्हसि । 032a
अप्येतद्धृदि यद्दुःखं तद्भवाञ्श्रोतुमर्हति ॥ 032c
दास्यमैश्वर्यवादेन ज्ञातीनां च करोम्यहम् । 033a
द्विषन्ति सततं क्रुद्धा ज्ञातिसम्बन्धिबान्धवाः ॥ 033c
दिव्या अपि तथा भोगा दत्तास्तेषां मया पृथक् । 034a
तथाऽपि च द्विषन्तो मां वर्तन्ते च परस्परम् ॥ 034c
नारद उवाच 035
अनायसेन शस्त्रेण परिमृज्यानुमृज्य च । 035a
जिह्वामुद्धर चैतेषां न वक्ष्यन्ति ततः परम् ॥ 035c
भगवानुवाच 036
अनायसं कथं विन्द्यां शस्त्रं मुनिवरोत्तम । 036a
येनैषामुद्धरे जिह्वां ब्रूहि तन्मे यथातथम् ॥ 036c
नारद उवाच 037
गोहिरण्यं च वासांसि रत्नाद्यं यद्धनं बहु । 037a
आस्ये प्रक्षिप चैतेषां शस्त्रमेतदनायसम् ॥ 037c
सुहृत्सम्बन्धिमित्राणां गुरूणां स्वजनस्य च । 038a
आख्यातं शस्त्रमेतद्धि तेन च्छिन्धि पुनःपुनः ॥ 038c
तवैश्वर्यप्रदानानि श्लाघ्यमेषां वचांसि च । 039a
समर्थं त्वामभिज्ञाय प्रवदन्ति च ते नराः ॥ 039c
भीष्म उवाच 040
ततः प्रहस्य भगवान्सम्पूज्य च महामुनिम् । 040a
तथाऽकरोन्महातेजा मुनिवाक्येन चोदितः ॥ 040c
एवम्प्रभावो ब्रह्मर्षिर्नारदो मुनिसत्तमः । 041a
पृष्टवानसि यन्मां त्वं तदुक्तं राजसत्तम ॥ 041c
सर्वधर्महिते युक्ताः सत्यधर्मपरायणाः । 042a
लोकप्रियत्वं गच्छन्ति ज्ञानविज्ञानकोविदाः ॥' 042c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥
12-237-12 तितिक्षुरनवद्यश्चेति ट. पाठः ॥ 12-237-31 असुहृत् नापुरुषः ॥