अध्यायः 236

भीष्मेण युधिष्ठिरम् प्रति वैराग्यादिपूर्वकभगवज्ज्ञानस्य श्रेयःसाधनत्वपरासितजैगीषव्यसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
किंशीलः किंसमाचारः किंविद्यः किम्पराक्रमः । 001a
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ 001c
भीष्म उवाच 002
मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः । 002a
प्राप्नोति ब्रह्मणः स्थानं तत्परं प्रकृतेर्ध्रुवम् ॥ 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
जैगीषव्यस्य संवादमसितस्य च भारत ॥ 003c
'महादेवान्तरे वृत्तं देव्याश्चैवान्तरे तथा । 004a
यथावच्छृणु राजेन्द्र ज्ञानदं पापनाशनम् ॥' 004c
जैगीषव्यं महाप्रज्ञं धर्माणामागतागमम् । 005a
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् ॥ 005c
न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसे । 006a
का ते प्रज्ञा कुतश्चैषा किं ते तस्याः परायणम् ॥ 006c
भीष्म उवाच 007
इति तेनानुयुक्तः स तमुवाच महातपाः । 007a
महद्वाक्यप्रसन्दिग्धं पुष्कलार्थपदं शुचि ॥ 007c
जैगीषव्य उवाच 008
या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम् । 008a
तां तेऽहं सम्प्रवक्ष्यामि यां मां पृच्छसि वै द्विज ॥ 008c
निन्दत्सु च समा नित्यं प्रशंसत्सु च देवल । 009a
निह्नवन्ति च ये तेषां समयं सुकृतं च यत् ॥ 009c
उक्ताश्च न विवक्ष्यन्ति वक्तारमहिते हितम् । 010a
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ॥ 010c
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते । 011a
न चातीतानि शोचन्ति न चैतान्प्रतिजानते ॥ 011c
सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवल । 012a
यथोपपत्तिं कुर्वन्ति शक्तिमन्तो धृतव्रताः ॥ 012c
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः । 013a
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ॥ 013c
अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन । 014a
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ 014c
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य च । 015a
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ॥ 015c
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः । 016a
न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् ॥ 016c
विमुच्य हृदयग्रन्थिं चङ्क्रम्यन्ते यथासुखम् । 017a
न चैषां बान्धवाः सन्ति ये चान्येषां च बान्धवाः ॥ 017c
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् । 018a
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा ॥ 018c
ये धर्मं चानुरुध्यन्ते धर्मज्ञा द्विजसत्तमाः । 019a
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ॥ 019c
आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् । 020a
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ॥ 020c
यद्यदिच्छन्ति तत्तस्मादधिगच्छन्ति मानवाः । 021a
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ॥ 021c
अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् । 022a
विषस्येवोद्विजेन्नित्यं सम्मानस्य विचक्षणः ॥ 022c
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः । 023a
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बुध्यते ॥ 023c
परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः । 024a
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ॥ 024c
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः । 025a
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ 025c
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः । 026a
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् ॥ 026c
'एतच्छ्रुत्वा मुनेस्तस्य वचनं देवलस्तथा । 027a
तदधीनो भवच्छिष्यः सर्वद्वन्द्वविनिष्ठितः ॥ 027c
अथान्यत्तु पुरावृत्तं जैगीषव्यस्य धीमतः । 028a
शृणु राजन्नवहितः सर्वज्ञानसमन्वितः ॥ 028c
यमाहुः सर्वलोकेशं सर्वलोकनमस्कृतम् । 029a
अष्टमूर्तिं जगन्मूर्तिमिष्टसन्धिविभूषितम् ॥ 029c
यं प्राप्ता न विषीदन्ति न शोचन्त्युद्विजन्ति च ॥ 030ac
यस्य स्वाभाविकी शक्तिरिदं विश्वं चराचरम् । 031a
याति सज्जति सर्वात्मा स देवः परमेश्वरः ॥ 031c
मेरोरुत्तरपूर्वे तु सर्वरत्नविभूषिते । 032a
अचिन्त्ये विमले स्थाने सर्वर्तुकुसुमान्विते ॥ 032c
वृक्षैश्च शोभिते नित्यं दिव्यवायुसमीरिते । 033a
नानाभूतगणैर्युक्तः सर्वदेवनमस्कृतः ॥ 033c
तत्र विद्याधरगणा गन्धर्वाप्सरसां गणाः । 034a
लोकपालाः समुद्राश्च नद्यः शैलाः सरांसि च ॥ 034c
ऋषयो वालखिल्याश्च यज्ञाः स्तोभाह्वयास्तथा । 035a
उपासाञ्चक्रिरे देवं प्रजानां पतयस्तथा ॥ 035c
तत्र रुद्रो महादेवो देव्या चैव सहोमया । 036a
आस्ते वृषध्वजः श्रीमान्सोमसूर्याग्निलोचनः ॥ 036c
तत्रैवं देवमालोक्य देवी धात्री विभावरी । 037a
उमा देवी परेशानमपृच्छद्विनयान्विता ॥ 037c
अर्थः कोऽथार्थशक्तिः का भगवन्ब्रूहि मेऽर्थितः । 038a
तयैवं परिपृष्टोऽसौ प्राह देवो महेश्वरः ॥ 038c
अर्थोऽहमर्थशक्तिस्त्वं भोक्ताऽहं भोज्यमेव च । 039a
रूपं विद्धि महाभागे प्रकृतिस्त्वं परो ह्यहम् ॥ 039c
अहं विष्णुरहं ब्रह्मा ह्यहं यज्ञस्तथैव च । 040a
आवयोर्न च भेदोऽस्ति परमार्थस्ततोऽबले । 040c
तथापि विद्मस्ते भेदं किं मां त्वं परिपृच्छसि ॥ 040e
एवमुक्ता ततः प्राह ह्यधिकं ह्येतयोर्वद । 041a
श्रेष्ठं वेद महादेव नम इत्येव भामिनी ॥ 041c
तदन्तरे स्थितो विद्वान्वसुरूपो महामुनिः । 042a
जैगीषव्यः स्मयन्प्राह ह्यर्थ इत्येव नादयन् ॥ 042c
श्रेष्ठोन्योऽस्मान्महीपिण्डा तल्लीना शक्तिरापरा । 043a
मुद्रिकादिविशेषेण विस्तृता सम्भृतेति च ॥ 043c
तच्छ्रुत्वा वचनं देवी कोसावित्यब्रवीद्रुषा । 044a
वाक्यमस्याद्य सम्भङ्क्त्वा प्रोक्तवानिति शङ्करम् ॥ 044c
तच्छ्रुत्वा निर्गतो धीमानाश्रमं स्वं महामुनिः । 045a
स्थानात्स्वर्गगणे विद्वान्योगैश्वर्यसमन्वितः ॥ 045c
ततः प्रहस्य भगवान्सर्वपापहरो हरः । 046a
प्राह देवीं प्रशान्तात्मा जैगीषव्यो महामुनिः ॥ 046c
भक्तो मम सखा चैव शिष्यश्चात्र महामुनिः । 047a
जैगीषव्य इति ख्यातः प्रोक्त्वासौ निर्गतः शुभे ॥ 047c
तच्छ्रुत्वा साऽथ सङ्क्रुद्धा न न्याय्यं तेन वै कृतम् । 048a
विकृताऽहं त्वया देव मुनिना च तथाकृता ॥ 048c
*अतज्ञादयदेवेश मध्ये प्राप्तं न तच्छ्रुतम् । 049a
तच्छ्रुत्वा भगवानाह महादेवः पिनाकधृत् ॥ 049c
निरपेक्षो मुनिर्योगी मामुपाश्रित्य संस्थितः । 050a
निर्द्वन्द्वः सततं धीमान्समरूपस्वभावधृत् ॥ 050c
तस्मात्क्षमस्व तं देवि रक्षितव्यस्त्वया च सः ॥ 051ac
इत्युक्ता प्राह सा देवी मुनेस्तस्य महात्मनः । 052a
निराशत्वमहं द्रष्टुमिच्छाम्यन्तकनाशन ॥ 052c
तथेति चोक्त्वा तां देवो वृषमारुह्य सत्वरम् । 053a
देवगन्धर्वसङ्घैश्च स्तूयमानो जगत्पतिः ॥ 053c
अजरामरशुद्धात्मा यत्रास्ते स महामुनिः । 054a
इतस्ततः समाहृत्य वीरसङ्घैर्महायशाः ॥ 054c
देहप्रावरणार्थं वै संसरन्स तदा मुनिः । 055a
प्रत्युद्गम्य महादेवं यथार्हं प्रतिपूज्य च । 055c
पुनः स पूर्ववत्कथां सूच्या सूत्रेण सूचयत् ॥ 055e
तमाह भगवाञ्शम्भुः किं प्रदास्यामि ते मुने । 056a
वृणीष्व मत्तः सर्वं त्वं जैगीषव्य यदीच्छसि ॥ 056c
नावलोकयमानस्तु देवदेवं महामुनिः । 057a
अनवाप्तं न पश्यामि त्वत्तो गोवृषभध्वज । 057c
कृतार्थः परिपूर्णोऽहं यत्ते कार्यं तु गम्यताम् ॥ 057e
प्रहसंस्तु पुनः शर्वो वृणीष्वेति तमब्रवीत् । 058a
अवश्यं हि वरो मत्तः श्राव्यं वरमनुत्तमम् ॥ 058c
जैगीषव्यस्तमाहेदं श्रोतव्यं च त्वया मम । 059a
सूचीमनु महादेव सूत्रं समनुगच्छतः ॥ 059c
ततः प्रहस्य भगवान्गौरीमालोक्य शङ्करः । 060a
स्वस्थानं प्रययौ हृष्टः सर्वदेवनमस्कृतः ॥ 060c
एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि । 061a
निर्द्वन्द्वा योगिनो नित्याः सर्वशस्ते स्वयम्भुवः ॥' 061c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्त्रिंशदधिकद्विशन्ततमोऽध्यायः ॥ 236 ॥

12-236-8 या शक्तिः पुण्यकर्मणाम् इति ट. पाठः ॥ 12-236-12 सम्प्रदानं च पूज्यानाम् इति ट. थ. पाठः ॥