अध्यायः 235

गङ्गापुलिनगतयोः शक्रनारदयोः समीपम् प्रति श्रीदेव्या आगमनम् ॥ 1 ॥ शक्रम् प्रति श्रिया स्वस्य दैत्येषु निवासविप्रवासयोः कारणीभूततद्गुणदोषाभिधानम् ॥ 2 ॥ युधिष्ठिर उवाच 001
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः । 001a
पराभविष्यतश्चैव तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
मन एव मनुष्यस्य पूर्वरूपाणि शंसति । 002a
भविष्यतश्च भद्रं ते तथैव न भविष्यतः ॥ 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर ॥ 003c
महतस्तपसो व्यष्ट्या पश्यल्ँलोकौ परावरौ । 004a
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ॥ 004c
ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः । 005a
विचचार यथाकालं त्रिषु लोकेषु नारदः ॥ 005c
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि । 006a
ध्रुवद्वारभवां गङ्गां जगामावततार च ॥ 006c
'मेरुपादोद्भवां गङ्गां नारायणपदच्युताम् । 007a
स वीक्षमाणो हृष्टात्मा तं देशमभिजग्मिवान् ॥ 007c
यं–देवजवाकीर्णं सूक्ष्मकाञ्चनवालुकम् । 008a
गङ्गाद्वीपं समासाद्य नानावृक्षैरलङ्कृतम् ॥ 008c
सालतालाश्वकर्णानां चन्दनानां च राजिभिः । 009a
मण्डितं विविधैः पुष्पैर्हंसकारण्डवायुतम् ॥ 009c
नदीपुलिनमासाद्य स्नात्वा सन्तर्प्य देवताः । 010a
जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता ॥' 010c
सहस्रनयनश्चापि वज्री शम्बरपाकहा । 011a
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह ॥ 011c
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतः । 012a
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ॥ 012c
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः । 013a
चक्रतुस्तौ तथाऽऽसीनौ महर्षिकथितास्तथा । 013c
पूर्ववृत्तव्यतीतानि कथयन्तौ समाहितौ ॥ 013e
अद्य भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् । 014a
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः ॥ 014c
'विविक्ते पुण्यदेशे तु रममाणौ मुदा युतौ । 015a
ददृशातेऽन्तरिक्षे तौ सूर्यस्योदयनं प्रति ॥ 015c
ज्योतिर्ज्वालसमाकीर्णं ज्योतिषां गणमण्डितम् । 016a
अभितस्तूदयन्तं तमर्कमर्कमिवापरम् ॥ 016c
आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम् । 017a
'अर्कस्य तेजसा तुल्यं तद्भास्करसमप्रभम् ।' 017c
तयोः समीपं तं प्राप्तं प्रत्यदृश्यत भारत ॥ 017e
तत्सुपर्णार्करचितमास्थितं वैष्णवं पदम् । 018a
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् ॥ 018c
'दृष्ट्वा तौ तु विक्रान्तौ प्राञ्जली समुपास्थितौ । 019a
क्रमात्सम्प्रेक्ष्यमाणौ तौ विमानं दिव्यमद्भुतम् ॥ 019c
तस्मिंस्तदा सतीं कान्तां लोककान्तां परां शुभाम् । 020a
धात्रीं लोकस्य रमणीं लोकमातरमच्युताम् ॥' 020c
दिव्याभिरुपशोभाभिरप्सरोभिः पुरस्कृताम् । 021a
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् ॥ 021c
नक्षत्रकल्पाभरणां तारापङ्क्तिसमस्रजम् । 022a
श्रियं ददृशतुः पद्मां साक्षात्पद्मदलस्थिताम् ॥ 022c
साऽवरुह्य विमानाग्रादङ्गनानामनुत्तमा । 023a
अभ्यागच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम् ॥ 023c
नारदानुगतः साक्षान्मघवांस्तामुपागमत् । 024a
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ॥ 024c
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् । 025a
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह ॥ 025c
का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि । 026a
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ॥ 026c
श्रीरुवाच 027
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः । 027a
ममात्मभावमिच्छन्तो यतन्ते परमात्मना ॥ 027c
साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते । 028a
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥ 028c
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन । 029a
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ॥ 029c
अहं धृतिरहं सिद्धिरहं सम्भूतिरेव च । 030a
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः ॥ 030c
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च । 031a
निवसे धर्मशीलानां विषयेषु पुरेषु च ॥ 031c
जितकाशिनि शूरे च सङ्ग्रामेष्वनिवर्तिनि । 032a
निवसामि मनुष्येन्द्रे सदैव बलसूदन ॥ 032c
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । 033a
प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥ 033c
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धनात् । 034a
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् ॥ 034c
शक्र उवाच 035
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने । 035a
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् ॥ 035c
श्रीरुवाच 036
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च । 036a
स्वर्गमार्गाभिरामेषु सत्वेषु निरता ह्यहम् ॥ 036c
दानाध्ययनयज्ञेज्यापितृदैवतपूजनम् । 037a
गुरूणामतिथीनां च तेषां नित्यमवर्तत ॥ 037c
सुसम्मृष्टगुहाश्चासञ्जितस्त्रीका हुताग्नयः । 038a
गुरुशुश्रूषका दान्ता ब्रह्मण्याः सत्यवादिनः ॥ 038c
श्रद्दधाना जितक्रोधा दानशीलाऽनसूयवः । 039a
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ॥ 039c
अमर्षेण न चान्योन्यं स्पृहयन्ते कदाचन । 040a
न च जातूपतप्यन्ति धीराः परसमृद्धिभिः ॥ 040c
दातारः सङ्ग्रहीतार आर्याः करुणवेदिनः । 041a
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः ॥ 041c
सन्तुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः । 042a
यथार्हमानार्थकरा ह्रीनिषेवा यतव्रताः ॥ 042c
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः । 043a
उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः ॥ 043c
नैनानभ्युदियात्सूर्यो नैवास्वप्स्यन्प्रगेशयाः । 044a
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् ॥ 044c
काल्यं घृतं तु चान्वीक्ष्य प्रयता ब्रह्मवादिनः । 045a
मङ्गल्यान्यपि चापश्यन्ब्रह्माणांश्चाप्यपूजयन् ॥ 045c
सदा हि ददतां धर्म्यं सदाचाप्रतिगृह्णताम् । 046a
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ॥ 046c
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् । 047a
दयां च संविभागं च नित्यमेवान्वमोदताम् । 047c
कालो यातः सुखेनैव धर्ममार्गे निवर्तताम् ॥ 047e
त्रस्तं विषण्णमुद्विग्नं भयार्तं व्याधिपीडितम् । 048a
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते ॥ 048c
धर्ममेवानुवर्तन्ते न हिंसन्ति परस्परम् । 049a
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ॥ 049c
पितॄन्देवातिथींश्चैव गुरूंश्चैवाभ्यपूजयन् । 050a
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोधृताः ॥ 050c
नैकेऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रियम् । 051a
सर्वभूतेष्ववर्तन्त यथाऽऽत्मनि दयां प्रति ॥ 051c
नैवाकाशे न पशुषु नायोनौ च न पर्वसु । 052a
इन्द्रियस्य विसर्गं ते रोचयन्ति कदाचन ॥ 052c
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा । 053a
उत्साहोऽथानहङ्कारः परमं सौहृदं क्षमा ॥ 053c
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा । 054a
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ॥ 054c
निद्रा तन्द्रीरसम्प्रीतिरसूयाऽथानवेक्षिता । 055a
अरतिश्च विषादश्च स्पृहा चाप्यविशन्न तान् ॥ 055c
साऽहमेवङ्गुणेष्वेव दानवेष्ववसं पुरा । 056a
प्रजासर्गमुपादाय यावद्गुणविपर्ययम् ॥ 056c
ततः कालविपर्यासे तेषां गुणविपर्ययात् । 057a
अपश्यं निर्गतं धर्मं कामक्रोधवशात्मनाम् ॥ 057c
सभासदां च वृद्धानां सतां कथयतां कथाः । 058a
प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुरून्परान् ॥ 058c
युवानश्च समासीना वृद्धानपि गतान्सतः । 059a
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् ॥ 059c
वर्तयत्येव पितरि पुत्रः प्रभवते तथा । 060a
अमित्रभृत्यतां प्राप्य ख्यापयन्त्यनपत्रपाः ॥ 060c
तथा धर्मादपेतेन कर्मणा गर्हितेन ये । 061a
महतः प्राप्नुवन्त्यर्थांस्तेषां तत्राभवत्स्पृहा ॥ 061c
उच्चैश्चाभ्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् । 062a
पुत्राः पितॄनत्यचरन्नार्यश्चात्यचरन्पतीन् ॥ 062c
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् । 063a
गुरुत्वान्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ॥ 063c
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते । 064a
अनिष्ट्वाऽसंविभज्याथ पितृदेवातिथीन्गुरून् ॥ 064c
न शौचमन्वरुद्ध्यन्त तेषां सूदजनास्तथा । 065a
मनसा कर्मणा वाचा भक्ष्यमासीदनावृतम् ॥ 065c
'बालानां प्रेक्षमाणानां भक्तान्यश्नन्ति मोहिताः । 066a
एको दासो भवेत्तेषां तेषां दासीद्वयं तथा ॥ 066c
त्रिगवा दानवाः केचिच्चतुरोजास्तथा परे । 067a
षडश्वाः सप्तमातङ्गाः पञ्चमाहिषिकाः परे ॥ 067c
रात्रौ दधि च सक्तूंश्च नित्यमेवाविवर्जिताः । 068a
अन्तर्दशाहे चाश्नन्ति गवां क्षिरं विचेतनाः ॥ 068c
क्रमदोहं न कुर्वन्ति वत्सस्तन्यानि भुञ्जते । 069a
अनाथां कृपणां भार्यां घ्नन्ति नित्यं शपन्ति च ॥ 069c
शूद्रान्नपुष्टा विप्रास्तु निर्लज्जाश्च भवन्त्युत । 070a
सङ्कीर्णानि च धान्यानि नात्यवेक्षत्कुटुम्बिनी ॥ 070c
मार्जारकुक्कुटश्वानैः क्रीडां कुर्वन्ति मानवाः । 071a
गृहे कण्टकिनो वृक्षास्तथा निष्पाववल्लरी ॥ 071c
यज्ञियाश्च तथा वृक्षास्तेषामासन्दुरात्मनाम् । 072a
कूपस्नानरता नित्यं पर्वमैथुनगामिनः ॥ 072c
तिलानश्नन्ति रात्रौ च तैलाभ्यक्ताश्च शेरते । 073a
विभीतककरञ्जानां छायामूलनिवासिनः ॥ 073c
करवीरं च ते पुष्पं धारयन्ति च मोहिताः । 074a
पद्मबीजानि खादन्ति पुष्पं जिघ्रन्ति मोहिताः ॥ 074c
न भोक्ष्यन्ति तथा नित्यं दैत्याः कालेन मोहिताः । 075a
निन्दन्ति स्तवनं विष्णोस्तस्य नित्यद्विषो जनाः ॥ 075c
होमधूमो न तत्रासीद्वेदघोषस्तथैव च । 076a
यज्ञाश्च न प्रवर्तन्ते यथापूर्वं गृहेगृहे ॥ 076c
शिष्याचार्यक्रमो नासीत्पुत्रैरात्मपितुः पिता । 077a
विष्णुं ब्रह्मण्यदेवेशं हित्वा पाषण्डमाश्रिताः ॥ 077c
हव्यकव्यविहीनाश्च ज्ञानाध्ययनवर्जिताः । 078a
देवस्वादानरुचयो ब्रह्मस्वरुचयस्तथा । 078c
स्तुतिमङ्गलहीनानि देवस्थानानि सर्वशः ॥' 078e
विप्रकीर्णानि धान्यानि काकमूषिकभोजनम् । 079a
अपावृतं पयोतिष्ठदुच्छिष्टाश्चास्पृशन्धृतम् ॥ 079c
कुद्दालं दात्रपिटकं प्रकीर्णं कांस्यभोजनम् । 080a
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी ॥ 080c
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते । 081a
'क्षुद्राः संस्कारहीनाश्च नार्यो ह्युदरपोषणाः ॥ 081c
शौचाचारपरिभ्रष्टा निर्लज्जा भोगवञ्चिताः । 082a
उभाभ्यामेव पाणिभ्यां शिरःकण्डूयनान्विताः । 082c
गृहजालाभिसंस्थाना ह्यासंस्तत्र स्त्रियः पुनः ॥ 082e
श्वश्रूश्वशुरयोर्मध्ये भर्तारं कृतकं यथा । 083a
प्रेक्षयन्ति च निर्लज्जा नार्यः कुलजलक्षणाः ॥' 083c
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च । 084a
बालानां प्रेक्षमाणानां स्वयं भक्ष्यमभक्षयन् । 084c
तथा भृत्यजनं सर्वमसन्तर्प्य च दानवाः ॥ 084e
पायसं कृसरं मांसमपूपानथ शष्कुलीः । 085a
अपाचयन्नात्मनोऽर्थे वृथा मांसान्यभक्षयन् ॥ 085c
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेशयाः । 086a
आवृत्तकलहाश्चात्र दिवारात्रं गृहेगृहे ॥ 086c
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह । 087a
आश्रमस्थान्विकर्मस्थाः प्राद्विषन्त परस्परम् ॥ 087c
सङ्कराश्चाभ्यवर्तन्त न च शौचमवर्तत । 088a
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये । 088c
निरन्तरविशेषास्ते बहुमानावमानयोः ॥ 088e
भावमाभरणं वेषं गतं स्थितमवेक्षितम् । 089a
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् ॥ 089c
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः । 090a
क्रीडारतिविहारेषु परां मुदमवाप्नुवन् ॥ 090c
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् । 091a
नाभ्यवर्न्तत नास्तिक्याद्वर्तन्तः सम्भवेष्वपि ॥ 091c
मित्रेणाभ्यर्थितं द्रव्यमर्थी संश्रयते क्वचित् । 092a
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु ॥ 092c
परस्वादानरुचयो विपणव्यवहारिणः । 093a
अदृश्यन्तार्यवर्णेषु शृद्राश्चापि तपोधनाः ॥ 093c
अधीयतेऽव्रताः केचिद्वृथा व्रतमथापरे । 094a
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः ॥ 094c
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव । 095a
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् ॥ 095c
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः । 096a
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत ॥ 096c
प्रातः सायं च सुप्रश्नं कल्पनं प्रेषणक्रियाः । 097a
शिष्यानप्रहितास्तेषामकुर्वन्गुरवश्च ह ॥ 097c
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत । 098a
अन्वशासच्च भर्तारं समाह्वायाभिजल्पति ॥ 098c
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता । 099a
व्यभजच्चापि संरम्भाद्दुःखवासं तथाऽवसत् ॥ 099c
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् । 100a
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्सम्भाविता ह्यपि ॥ 100c
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः । 101a
'श्वशुरानुगताः सर्वे ह्युत्सृज्य पितरौ सुताः ॥ 101c
स्वकर्मणा च जातोऽहमित्येवंवादिनस्तथा ।' 102a
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः ॥ 102c
तेष्वेवमादीनाचारानाचरत्सु विपर्यये । 103a
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः ॥ 103c
तन्मां स्वयमनुप्राप्ताभिनन्द शचीपते । 104a
त्वयाऽर्चितां मां देवेश पुरो धास्यन्ति देवताः ॥ 104c
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः । 105a
सप्तदेव्यो जयाष्टम्यो वासमेष्यन्ति तेऽष्टधा ॥ 105c
आशा श्रद्धा धृतिः क्षान्तिर्विजितिः सन्नतिः क्षमा । 106a
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन ॥ 106c
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागताः । 107a
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ॥ 107c
इत्युक्तवचनां देवीं प्रीत्यर्थं च ननन्दतुः । 108a
नारदश्चात्र देवर्षिर्वृत्रहन्ता च वासवः ॥ 108c
ततोऽनलसखो वायुः प्रववौ देववर्त्मसु । 109a
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ॥ 109c
शुचौ चाभ्यर्थिते देशे त्रिदशाः प्रायशः स्थिताः । 110a
लक्ष्मीसहितमासीनं मघवन्तं दिदृक्षवः ॥ 110c
ततो दिवं प्राप्य सहस्रलोचनः स्त्रियोपपन्नः सुहृदा महर्षिणा । 111a
रथेन हर्यश्वयुजा सुरर्षभः सदः सुराणामभिसत्कृतो ययौ ॥ 111c
अथेङ्गितं वज्रधरस्य नारदः श्रियश्च देव्या मनसा विचारयन् । 112a
श्रियै शशंसामरदृष्टपौरुषः शिवेन तत्रागमनं महर्षिभिः ॥ 112c
ततोऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयम्भुवः । 113a
अनाहता दुन्दुभयोऽथ नेदिरे तथा प्रसन्नाश्च दिशश्चकाशिरे ॥ 113c
यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद्विचचाल कश्चन । 114a
अनेकरत्नाकरभूषणा च भूः सुघोषघोषाश्च दिवौकसां जये ॥ 114c
क्रियाभिरामा मनुजा मनस्विनो बभुः शुभे पुण्यकृतां पथि स्थिताः । 115a
नरामराः किन्नरयक्षराक्षसाः समृद्धिमन्तः सुमनस्विनोऽभवन् ॥ 115c
न जात्वकाले कुसुमं कुतः फलं पपात वृक्षात्पवनेरितादपि । 116a
रसप्रदाः कामदुघाश्च धेनवो न दारुणा वाग्विचचार कस्यचित् ॥ 116c
इमां सपर्यां सह सर्वकामदैः श्रियाश्च शक्रप्रमुखैश्च दैवतैः । 117a
पठन्ति ये विप्रसदः समागताः समृद्धकामाः श्रियमाप्नुवन्ति ते ॥ 117c
त्वया कुरूणां वर यत्प्रचोदितं भवाभवस्येह परं निदर्शनम् । 118a
तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि ॥ 118c
'संस्मृत्य बुद्धीन्द्रियगोचरातिगं स्वगोचरे सर्वकृतालयं तम् । 119a
हरिं महापापहरं जनास्ते संस्मृत्य सम्पूज्य विधूतपापाः ॥ 119c
यमैश्च नित्यं नियमैश्च संयतास्तत्वं च विष्णोः परिपश्यमानाः । 120a
देवानुसारेण विमुक्तियोगं ते गाहमानाः परमाप्नुवन्ति ॥ 120c
एवं राजेन्द्र सततं जपहोमपरायणः । 121a
वासुदेवपरो नित्यं ज्ञानध्यानपरायणः ॥ 121c
दानधर्मरतिर्नित्यं प्रजास्त्वं परिपालय । 122a
वासुदेवपरो नित्यं ज्ञानध्यानपरायणान् । 122c
विशेषेणार्चयेथास्त्वं सततं पर्युपास्व च ॥' 122e

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ 235 ॥

12-235-6 भवमौलिभवां गङ्गाम् इति ध. पाठः ॥ 12-235-26 विजितिः स्मृतिः ट. ड. पाठः ॥ 12-235-29 इति ट. ड. ध. पाठः ॥ 12-235-44 धैर्यादुद्धारितारिषु इति नचाप्यासन्प्रगेशयाः इति घ. पाठः ॥ 12-235-45 कार्यं कृतं चान्ववेक्ष्य इति ट. पाठः ॥ 12-235-60 मृत्या भर्त्रन्तरं प्राप्य इति ट. पाठः ॥ 12-235-80 प्रकीर्णं कांस्यभाजनमिति झ. पाठः ॥