अध्यायः 234

भीष्मेण युधिष्ठिरम् प्रति विपदि धैर्यालम्बनस्य सुखसाधनताप्रतिपादकबलिशक्रसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि । 001a
बन्धुनाशे महीपाल राज्यनाशेऽथवा पुनः ॥ 001c
त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ । 002a
एतद्भवन्तं पृच्छामि तन्मे त्वं वक्तुमर्हसि ॥ 002c
भीष्म उवाच 003
पुत्रदारैः सुखैश्चैव वियक्तस्य धनेन च । 003a
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप । 003c
धैर्येण युक्तस्य सतः शरीरं न विशीर्यते ॥ 003e
[विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम् ।] 004a
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् ॥ 004c
यश्च प्राज्ञो नरस्तात सात्विकीं वृत्तिमास्थितः । 005a
तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु ॥ 005c
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । 006a
बलिवासवसंवादं पुनरेव युधिष्ठिर ॥ 006c
वृत्ते देवासुरे युद्धे दैत्यदानवसङ्क्षये । 007a
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ ॥ 007c
इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते । 008a
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयम्भुवि ॥ 008c
रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः । 009a
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः ॥ 009c
चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् । 010a
आरुह्यैरावणं शक्रस्त्रैलोक्यमनुसंययौ ॥ 010c
स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे । 011a
बलिं वैरोचनिं वज्री ददर्शोपससर्प च ॥ 011c
तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् । 012a
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे ॥ 012c
दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् । 013a
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः ॥ 013c
दैत्य न व्यथसे शौर्यादथवा वृद्धसेवया । 014a
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् ॥ 014c
शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् । 015a
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि ॥ 015c
श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् । 016a
हृतस्वरत्नराज्यस्त्वं ब्रूहि कस्मान्न शोचसि ॥ 016c
ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे । 017a
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि ॥ 017c
बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः । 018a
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि ॥ 018c
नष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् । 019a
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् ॥ 019c
एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् । 020a
श्रुत्वा दुःखमसम्भ्रान्तो बलिर्वैरोचनोऽब्रवीत् ॥ 020c
निगृहीते मयि भृशं शक्र किं कत्थितेन ते । 021a
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरन्दर ॥ 021c
अशक्तः पूर्वमासीस्त्वं कथञ्चिच्छक्ततां गतः । 022a
कस्त्वदन्य इमां वाचं सुक्रूरां वक्तुमर्हति ॥ 022c
यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् । 023a
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ॥ 023c
अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः । 024a
एकः प्राप्नोति विजयमेकश्चैव पराजयम् ॥ 024c
मा च ते भूत्स्वभावोऽयं मयि दानवपुङ्गवे । 025a
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् ॥ 025c
नैतदस्मत्कृतं शक्र नैतच्छक्र कृतं त्वया । 026a
यत्त्वमेवं गतो वज्रिन्यद्वाऽऽप्येवं गता वयम् ॥ 026c
अहमासं यथाऽद्य त्वं भविता त्वं यथा वयम् । 027a
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत ॥ 027c
सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति । 028a
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा ॥ 028c
कालः काले नयति मां त्वां च कालो नयत्ययम् । 029a
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् ॥ 029c
न मातृपितृशुश्रूषा न च दैवतपूजनम् । 030a
नान्यो गुणसमाचारः पुरुषस्य सुखावहः ॥ 030c
न विद्या न तपो दानं न मित्राणि न बान्धवाः । 031a
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ 031c
नागामिनमनर्थं हि प्रतिघातशतैरपि । 032a
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः ॥ 032c
पर्यायैर्हन्यमानानां परित्राता न विद्यते । 033a
इदं तु दुःखं यच्छक्र कर्ताऽहमिति मन्यसे ॥ 033c
यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन । 034a
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताऽप्यनीश्वरः ॥ 034c
कालेन त्वाऽहमजयं कालेनाहं जितस्त्वया । 035a
गन्ता गतिमतां कालः कालः कलयति प्रजाः ॥ 035c
इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुद्ध्यसे । 036a
केचित्त्वां बहुमन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा ॥ 036c
कथमस्मद्विधो नाम जानल्ँलोकप्रवृत्तयः । 037a
कालेनाभ्याहतः शोचेन्मुह्येद्वाऽप्यथविभ्रमेत् ॥ 037c
कथं कालपरीतस्य मम वा मद्विधस्य वा । 038a
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति ॥ 038c
अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः । 039a
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् ॥ 039c
त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया । 040a
काले परिणते कालः कलयिष्यति मामिव ॥ 040c
बहूनीन्द्रसहस्राणि दैवतानां युगे युगे । 041a
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः ॥ 041c
इदं तु लब्ध्वा संस्थानमात्मानं बहु मन्यसे । 042a
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् ॥ 042c
न चेदमचलं स्थानमनन्तं वाऽपि कस्यचित् । 043a
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे ॥ 043c
अविश्वस्ते विश्वसिषि मन्यसे वाऽध्रुवे ध्रुवम् । 044a
नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर ॥ 044c
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि । 045a
नेयं तव न चास्माकं न चान्येषां स्थिरा मता ॥ 045c
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता । 046a
कञ्चित्कालमियं स्थित्वा त्वयि वासव चञ्चला ॥ 046c
गौर्निवासमिवोत्सृज्य पुनरन्यं गमिष्यति । 047a
सुरेशा ये ह्यतिक्रान्तास्तान्न सङ्ख्यातुमुत्सहे ॥ 047c
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरन्दर । 048a
सवृक्षौषधिगुल्मेयं ससरित्पर्वताकरा ॥ 048c
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही । 049a
पृथुरैलो मयो भीमो नरकः शम्बरस्तथा ॥ 049c
अश्वग्रीवः पुलोमा च स्वर्भानुरमितप्रभः | 050a
प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः ॥ 050c
ह्रीनिषेवः सुहोत्रश्च भूरिहा पुष्पवान्वृषः । 051a
सत्येषुर्ऋषभो बाहुः कपिलाश्वो निरूपकः ॥ 051c
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैर्ऋतिः । 052a
सङ्कोचोऽथ वरीताक्षो वराहाश्वो रुचिप्रभः ॥ 052c
विश्वजित्प्रतिरूपश्च वृषाण्डो विष्करो मधुः । 053a
हिरण्यकशिपुश्चैव कैटभश्चैव दानवः ॥ 053c
दैतेया दानवाश्चैव सर्वे ते नैर्ऋतैः सह । 054a
एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये ॥ 054c
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम । 055a
बहवः पूर्वदैत्येन्द्राः सन्त्यज्य पृथिवीं गताः ॥ 055c
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः । 056a
सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः ॥ 056c
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः । 057a
अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः ॥ 057c
सर्वे संहननोपेताः सर्वे परिघबाहवः । 058a
सर्वे मायाशतधराः सर्वे ते कामरूपिणः । 058c
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ॥ 058e
सर्वे सत्यव्रतपराः सर्वे कामविहारिणः । 059a
सर्वे वेदव्रतपराः सर्वे चैव बहुश्रुताः ॥ 059c
सर्वे सम्मतमैश्वर्यमीश्वराः प्रतिपेदिरे । 060a
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम् ॥ 060c
सर्वे यथार्हदातारः सर्वे विगतमत्सराः । 061a
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदरे ॥ 061c
सर्वे दाक्षायणीपुत्राः प्राजपत्या महाबलाः । 062a
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः ॥ 062c
त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः । 063a
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः ॥ 063c
मुञ्चेच्छां कामभोगेषु मुञ्जेमं श्रीभवं मदम् । 064a
एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि ॥ 064c
शोककाले शुचो मा त्वं हर्षकाले च मा हृषः । 065a
अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय ॥ 065c
मां चेदभ्यागतः कालः सदा युक्तमतन्द्रितः । 066a
क्षमस्व न चिरादिन्द्र त्वामप्युपगमिष्यति ॥ 066c
त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह । 067a
संयते मयि नूनं त्वमात्मानं बहु मन्यसे ॥ 067c
कालः प्रथममायान्मां पश्चात्त्वामनुधावति । 068a
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि ॥ 068c
को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे । 069a
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव ॥ 069c
यत्तद्वर्षसहस्रान्तं तूर्णं भवितुमर्हति । 070a
यथा मे सर्वगात्राणि न सुस्थानि महौजसः ॥ 070c
अहमैन्द्राच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि । 071a
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययः ॥ 071c
किं हि कृत्वा स्वमिन्द्रोऽद्य किं वा कृत्वा वयं च्युताः । 072a
कालः कर्ता विकर्ता च सर्वमन्यदकारणम् ॥ 072c
नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ । 073a
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् ॥ 073c
त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव । 074a
किं कत्थसे मां किञ्च त्वं कालेन निरपत्रपः ॥ 074c
त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम । 075a
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् ॥ 075c
आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह । 076a
मया विनिर्जिताः पूर्वं मरुतश्च शचीपते ॥ 076c
त्वमेव शक्र जानासि देवासुरसमागमे । 077a
समेता विबुधा भग्नास्तरसा समरे मया ॥ 077c
पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः । 078a
सशृङ्गशिखरा भग्नाः समरे मूर्ध्नि ते मया ॥ 078c
किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः । 079a
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना ॥ 079c
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः । 080a
तेन त्वां मर्षये शक्र दुर्मर्षणतरस्त्वया ॥ 080c
तं मां परिणते काले परीतं कालवह्निना । 081a
नियतं कालपाशेन बद्धं शक्र विकत्थसे ॥ 081c
अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः । 082a
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा ॥ 082c
लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ । 083a
वधो बन्धप्रमोक्षश्च सर्वं कालेन लभ्यते ॥ 083c
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः । 084a
सोयं पचति कालो मां वृक्षे फलमिवागतम् ॥ 084c
यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते । 085a
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते ॥ 085c
न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति । 086a
तेन शक्र न शोचामि नास्ति शोके सहायता ॥ 086c
यदा हि शोचतः शोको व्यसनं नापकर्षति । 087a
सामर्थ्यं शोचतो नास्तीत्यतोऽहं नाद्य शोचिमि ॥ 087c
भीष्म उवाच 088
एवमुक्तः सहस्राक्षो भगवान्पाकशासनः । 088a
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः ॥ 088c
सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् । 089a
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः ॥ 089e
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी । 090a
व्रुवन्न व्यथसेऽद्य त्वं धैर्यात्सत्यपराक्रम ॥ 090c
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत् । 091a
कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत् ॥ 091c
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् । 092a
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे ॥ 092c
न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् । 093a
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् ॥ 093c
अनीशस्याप्रमत्तस्य भूतानि पचतः सदा । 094a
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥ 094c
अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु । 095a
प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित् ॥ 095c
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः । 096a
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः ॥ 096c
अहोरात्रांश्च मासांश्च क्षणान्काष्ठा लवान्कलाः । 097a
सम्पीडयति यः कालो वृद्धिं वार्धुषिको यथा ॥ 097c
इदमद्य करिष्यामि श्वः कर्ताऽस्मीति वादिनम् । 098a
कालो हरति सम्प्राप्तो नदीवेग इव द्रुमम् ॥ 098c
इदानीं तावदेवासौ मया दृष्टः कथं मृतः । 099a
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् ॥ 099c
नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च । 100a
जीवितं जीवलोकस्य कालेनागम्य नीयते ॥ 100c
उच्छ्राया विनिपातान्ता भावोऽभावः स एव च । 101a
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः ॥ 101c
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी । 102a
अहमासं पुरा चेति मनसाऽपि न बुद्ध्यते ॥ 102c
कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा । 103a
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते ॥ 103c
ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च । 104a
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति ॥ 104c
भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः । 105a
कालं पश्यति सुव्यक्तं पाणावामलकं यथा ॥ 105c
कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः । 106a
वैरोचने कृतार्थोऽसि स्पृहणीयो विजानताम् ॥ 106c
सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया । 107a
विहरन्सर्वतोमुक्तो न क्वचिच्च विषीदसि ॥ 107c
रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम् । 108a
निष्प्रीतिं नष्टसन्तापमात्मानं त्वमुपाससे ॥ 108c
सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् । 109a
दृष्ट्वा त्वां मम सञ्जाता त्वय्यनुक्रोशिनी मतिः ॥ 109c
नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धनैः । 110a
आनृशंस्यं परो धर्मो ह्यनुक्रोशश्च मे त्वयि ॥ 110c
मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् । 111a
प्रजानामुपचारेण स्वस्ति तेऽस्तु महासुर ॥ 111c
यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते । 112a
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु ॥ 112c
ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् । 113a
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः ॥ 113c
वियोनिषु विमोक्ष्यन्ति बीजानि पुरुषा यदा । 114a
सङ्करं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः ॥ 114c
चातुर्वर्ण्यं यदा कृत्स्नममर्यादं भविष्यति । 115a
एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते ॥ 115c
अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय । 116a
सुखी भव निराबाधः स्वस्थचेता निरामयः ॥ 116c
भीष्म उवाच 117
तमेवमुक्त्वा भगवाञ्छतक्रतुः प्रतिप्रयातो गजराजवाहनः । 117a
विजित्य सर्वानसुरान्सुराधिपो ननन्द हर्षेण बभूव चैकराट् ॥ 117c
महर्षयस्तुष्टुवुरञ्जसा च तं वृषाकपिं सर्वचराचरेश्वरम् । 118a
हिमापहो हव्यमुवाह चाध्वरे तथाऽमृतं चार्पितमीश्वरोऽपि हि ॥ 118c
द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजाः शतमन्युरीश्वरः । 119a
प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः ॥ 119c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥

12-234-20 श्रुत्वासुखमसम्भ्रान्त इति झ. ट. थ. पाठः ॥