अध्यायः 233

भीष्मेण युधिष्ठिरम् प्रति आपदि शोकत्यागपूर्वकम् भगवदनुचिन्तनादेः श्रेयःसाधनताप्रतिपादकशक्रनमुचिसंवादानुवादः ॥ 1 ॥ 'युधिष्ठिर उवाच 001
व्यसनेषु निमग्नस्य किं श्रेयस्तद्ब्रवीहि मे । 001a
भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि मे ॥' 001c
भीष्म उवाच 002
अत्रैवोदाहन्तीममितिहासं पुरातनम् । 002a
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर ॥ 002c
श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् । 003a
भवाभवज्ञं भूतानामित्युवाच पुरन्दरः ॥ 003c
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः । 004a
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि ॥ 004c
नमुचिरुवाच 005
अनवाप्यं च शोकेन शरीरं चोपशुष्यति । 005a
अमित्राश्च प्रहृष्यन्ति शोके नास्ति सहायता । 005c
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ 005e
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते श्रियः । 006a
सन्तापाद्भ्रश्यते चायुर्धर्मश्चैव सुरेश्वर ॥ 006c
विनीय खलु तद्दुःखमागतं वै मनस्सुखम् । 007a
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ॥ 007c
यथायथा हि पुरुषः कल्याणे कुरुते मनः । 008a
तथैवास्य प्रसिध्यन्ति सर्वार्था नात्र संशयः ॥ 008c
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता । 009a
तेनानुयुक्तः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा भवामि ॥ 009c
भावाभावावजिनानन्गरीयो जानामि श्रेयो न तु तत्करोमि । 010a
आशासु हर्म्यासु हृदासु कुर्वन्यथा नियुक्तोऽस्मि तथा वहामि ॥ 010c
यथायथाऽस्य प्राप्तव्यं प्राप्नोत्येव तथातथा । 011a
भवितव्यं यथा यच्च भवत्येव तथातथा ॥ 011c
यत्रयत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः । 012a
तत्रतत्रैव वसति न यत्र स्वयमिच्छति ॥ 012c
भावो योऽयमनुप्राप्तो भवितव्यमिदं मम । 013a
इति यस्य सदा भावो न स शोचेत्कदाचन ॥ 013c
पर्यायैर्हन्यमानानामभिषङ्गो न विद्यते । 014a
दुःखमेतत्तु यद्द्वेष्टा कर्ताऽहमिति मन्यते ॥ 014c
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च । 015a
का नापदो नोपनमन्ति लोके परावरज्ञास्तु न सम्भ्रमन्ति ॥ 015c
न पण्डितः क्रुद्ध्यति नाभिषज्यते न चापि संसीदति न प्रहृष्यति । 016a
न चार्थकृच्छ्रव्यसनेषु शोचते स्थितः प्रकृत्या हिमवानिवाचलः ॥ 016c
यमर्थसिद्धिः परमा न हर्षयेत्तथैव काले व्यसनं न मोहयेत् । 017a
सुखं च दुःखं च तथैव मध्यमं निषेवते यः स धुरन्धरो नरः ॥ 017c
यांयामवस्थां पुरुषोऽधिगच्छेत्तस्यां रमेतापरितप्यमानः । 018a
एवं प्रवृद्धं प्रणुदन्मनोजं सन्तापनीलं सकलं शरीरात् ॥ 018c
न तत्सदः सत्परिषत्सभा च सा प्राप्य यां न कुरुते सदा भयम् । 019a
धर्मतत्त्वमवगाह्य बुद्धिमान्योऽभ्युपैति स धुरन्धरः पुमान् ॥ 019c
प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले । 020a
स्थानाच्च्युतश्चेन्न मुमोह गौतमस्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ॥ 020c
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च । 021a
[न शीलेन न वृत्तेन तथा नैवार्थसम्पदा ।] 021c
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥ 021e
यदेवमभिजातस्य धातारो विदधुः पुरा । 022a
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ॥ 022c
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति । 023a
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥ 023c
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः । 024a
कुशली सर्वदुःखेषु स वै सर्वधनी नरः ॥ 024c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥

12-233-3 भवाभवज्ञमुत्पत्तिप्रलयज्ञम् ॥ 12-233-5 सहायता शोकस्य दुःखापनोदे हेतुत्वं नास्तीत्यर्थः ॥ 12-233-6 श्रियः सकाशात् ॥ 12-233-7 विनीय निरस्य । हृद्यं हृत्स्थम् । कल्याणं मोक्षम् ॥ 12-233-9 प्रवणान्निम्नदेशात् ॥ 12-233-18 प्रणुदन् दूरीकुर्वन् । सन्तापमायासकरं शरीरात् इति झ. पाठः ॥ 12-233-19 श्रौतस्मार्तलौकिकन्यायान्यायविवेचका जनसमाजाः सदः पर्षत्सभाख्याः । संसत्सदः परिषदः सभासदः सम्प्राप्य यो न कुरुते सदा भयम् । इति ट. थ. ध. पाठः ॥ 12-233-20 न मुमोह चोत्तमः इति ध. पाठः ॥ 12-233-24 कुशलः सुखदुःखेषु इति ट. थ. पाठः ॥