अध्यायः 232
बलिशरीरान्निर्गन्त्या श्रिया शक्रम् प्रति स्वनिर्गमनकारणाभिधानपूर्वकं ततः स्वस्य स्थानचतुष्टयवरणम् ॥ 1 ॥ इन्द्रबलिसंवादश्च ॥ 2 ॥
भीष्म उवाच 001
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः । 001a
स्वरूपिणीं शरीराद्धि निष्क्रामन्तीं तदा श्रियम् ॥ 001c
तां दृष्ट्वा प्रभया दीप्तां भगवान्पाककशासनः । 002a
विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः ॥ 002c
बले केयमपक्रान्ता रोचमाना शिखण्डिनी । 003a
त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा ॥ 003c
बलिरुवाच 004
न हीमामासुरीं वेद्मि न दैवीं च न मानुषीम् । 004a
त्वमेनां पृच्छ वा मा वा यथेष्टं कुरु वासव ॥ 004c
शक्र उवाच 005
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी । 005a
अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते ॥ 005c
का त्वं तिष्ठसि मामेवं दीप्यमाना स्वतेजसा । 006a
हित्वा दैत्यवरं सुभ्रु तन्ममाचक्ष्व पृच्छतः ॥ 006c
श्रीरुवाच 007
न मां विरोचनो वेद नायं वैरोचनो बलिः । 007a
आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ॥ 007c
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येव च वासव । 008a
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ॥ 008c
शक्र उवाच 009
किमिदं त्वं मम कृते उताहो बलिनः कृते । 009a
दुःसहे विजहास्येनं चिरसंवासिनी सती ॥ 009c
श्रीरुवाच 010
नो धाता न विधाता मां विदधाति कथञ्चन । 010a
कालस्तु शक्र पर्यागान्मैवं शक्रावमन्यथाः ॥ 010c
शक्र उवाच 011
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि । 011a
कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते ॥ 011c
श्रीरुवाच 012
सत्ये स्थिताऽस्मि दाने च व्रते तपसि चैव हि । 012a
पराक्रमे च धर्मे च पराचीनस्ततो बलिः ॥ 012c
ब्रह्मण्योऽयं पुरा भूत्वा सत्यवादी जितेन्द्रियः । 013a
अभ्यसूयन्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्धृतम् ॥ 013c
यज्ञशीलः सदा भूत्वा मामेव यजते स्वयम् । 014a
ततः प्रहाय मूढात्मा कालेनोपनिपीडितः ॥ 014c
अपक्रान्ता ततः शक्र त्वयि वत्स्यामि वासव । 015a
अप्रमत्तेन धार्याऽस्मि तपसा विक्रमेण च ॥ 015c
शक्र उवाच 016
कोऽस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् । 016a
यस्त्वामेको विषहितुं शक्नुयात्कमलालये ॥ 016c
श्रीरुवाच 017
नैव देवो न गन्धर्वो नासुरो न च राक्षसः । 017a
यो मामेको विषहितुं शक्तः कश्चित्पुरन्दर ॥ 017c
शक्र उवाच 018
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे । 018a
तत्करिष्यामि ते वाक्यमृतं तद्वक्तुमर्हसि ॥ 018c
शक्र उवाच 019
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् । 019a
विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ॥ 019c
शक्र उवाच 020
अहं वै त्वां निधास्यामि यथाशक्ति यथाबलम् । 020a
न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ॥ 020c
भूमिरेव मनुष्येषु धारिणी भूतभाविनी । 021a
सा ते पादं तितिक्षेत समर्था हीति मे मतिः ॥ 021c
श्रीरुवाच 022
एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः । 022a
द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ 022c
शक्र उवाच 023
आप एव मनुष्येषु द्रवन्त्यः परिधारणे । 023a
तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ॥ 023c
श्रीरुवाच 024
एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः । 024a
तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ 024c
शक्र उवाच 025
यस्मिन्वेदाश्च यज्ञाश्च यस्मिन्देवाः प्रतिष्ठिताः । 025a
तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति ॥ 025c
श्रीरुवाच 026
एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः । 026a
चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ 026c
शक्र उवाच 027
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः । 027a
तेते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ॥ 027c
श्रीरुवाच 028
एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः । 028a
एवं हि निहितां शक्र भूतेषु परिधत्स्व माम् ॥ 028c
शक्र उवाच 029
'भूमिशुद्धिं ततः कृत्वा अद्भिः सन्तर्पयन्ति ये । 029a
भूतानि च यजन्त्यग्नौ तेषां त्वमनपायिनी ॥ 029c
ये क्रियाभिः सुरक्ताभिर्हेतुयुक्ताः समाहिताः । 030a
ज्ञानवन्तो विवत्सायां लब्धा माद्यन्ति योगिनः ॥' 030c
भूतानामिह यो वै त्वां मया विनिहितां सतीम् । 031a
उपहन्यात्स मे द्वेष्यस्तथा शृण्वन्तु मे वचः ॥ 031c
'भीष्म उवाच 032
तथेति चोक्त्वा सा भ्रष्टा सर्वलोकनमस्कृता । 032a
वासवं पालयामास सा देवी कमलालया ॥' 032c
ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् ॥ 033ac
यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् । 034a
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः ॥ 034c
तथा मध्यन्दिने सूर्यो नास्तमेति यदा तदा । 035a
पुनर्देवासुरं युद्धं भावि जेताऽस्मि वस्तदा ॥ 035c
सर्वलोकान्यदाऽऽदित्यो मध्यस्थस्तापयिष्यति । 036a
तदा देवासुरे युद्धे जेताऽहं त्वां शतक्रतो ॥ 036c
शक्र उवाच 037
ब्रह्मणाऽस्मि समादिष्टो न हन्तव्यो भवानिति । 037a
तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि ॥ 037c
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर ॥ 038ac
आदित्यो नैव तपिता कदाचिन्मध्यतः स्थितः । 039a
स्थापितो ह्यस्य समयः पूर्वमेव स्वयम्भुवा ॥ 039c
अजस्रं परियात्येष सत्येनावतपन्प्रजाः । 040a
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा । 040c
येन संयाति लोकेषु शीतोष्णे विसृजन्रविः ॥ 040e
भीष्म उवाच 041
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत । 041a
जगाम दक्षिणामाशामुदीचीं तु पुरन्दरः ॥ 041c
इत्येतद्बलिना गीतमनहङ्कारसञ्ज्ञितम् । 042a
वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा ॥ 042c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥
12-232-31 वित्तं तीर्थादिपुण्यं यज्ञादिधर्मो विद्या चेति श्रियश्चत्वारः पादा भूमौ जलेऽग्नौ विद्वत्सु च निहितास्तेषामुपघातः स्तेयकामाशौचाशमैः ॥ 12-232-34 वैवस्वतमन्वन्तरमेवाष्टधा विभज्य तदन्ते सर्वपुर्युच्छेदे सति मन्वन्तरान्तरे बलिरिन्द्रो भविष्यतीति ज्ञेयम् । तदिदमुक्तं यावत्पुरस्तात्प्रतपेदित्यादिना श्लोकत्रयेण ॥ 12-232-36 यदादित्यो ह्येकस्थ इति झ. ध. पाठः ॥