अध्यायः 231

भीष्मेण युधिष्ठिरम् प्रति सर्वस्यापि कालनियामकेश्वरनियम्यत्वप्रतिपादकशक्रबलिसंवादानुवादः ॥ 1 ॥ भीष्म उवाच 001
पुनेरव तु तं शक्रः प्रहसन्निदमब्रवीत् । 001a
निःश्वसन्तं यथा नागं प्रत्याहाराय भारत ॥ 001c
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः । 002a
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥ 002c
दृष्ट्वा सुकृपणां चेमागयस्थामात्मनो बले । 003a
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥ 003c
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् । 004a
विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥ 004c
बलिरुवाच 005
'गर्वं हित्वा तथा मानं देवराज शृणुष्व मे । 005a
मया च त्वाऽनुसद्भावं पूर्वमाचरितं महत् ॥ 005c
अवश्यकालपर्यायमात्मनः परिवर्तनम् । 006a
अविदल्ँलोकमाहात्म्यं——- ॥' 006c
अनित्यमुपलक्ष्येह कालपर्यायमात्मनः । 007a
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ 007c
अन्तवन्त इमे देहा भूतानां च सुराधिप । 008a
तेन शक्र न शोचामि नापराधादिदं मम ॥ 008c
जीवितं च शरीरं च जात्या वै सह जायते । 009a
उभे सह विवर्धेते उभे सह विनश्यतः ॥ 009c
न हीदृशमहम्भावमवशः प्राप्य केवलम् । 010a
यदेवमभिजानामि का व्यथा मे विजानतः ॥ 010c
भूतानां निधनं निष्ठा स्रोतसामिव सागरः । 011a
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृत् ॥ 011c
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः । 012a
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥ 012c
बुद्धिलाभात्तु पुरुषः सर्वं तुदति किल्बिषम् । 013a
विपाप्मा लभते सत्वं सत्वस्थः सम्प्रसीदति ॥ 013c
ततस्तु ये निवर्तन्ते जायन्ते वा पुनःपुनः । 014a
कृपणाः परितप्यन्ते तैरर्थैरभिचोदिताः ॥ 014c
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा । 015a
सुखं दुःखं फलं चैव न द्वेष्मि न च कामये ॥ 015c
हतं हन्ति हतो ह्येव यो नरो हन्ति कञ्चन । 016a
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥ 016c
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते । 017a
अकर्ता ह्येव भवति कर्ता ह्येव करोति तत् ॥ 017c
को हि लोकस्य कुरुते विनाशप्रभवावुभौ । 018a
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥ 018c
पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः । 019a
एतद्योनीनि भूतानि तत्र का परिदेवना ॥ 019c
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः । 020a
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥ 020c
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा । 021a
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥ 021c
दग्धमेवानुदहते हतमेवानुहन्यते । 022a
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥ 022c
नास्य द्वीपः कुतः पारो नावारः सम्प्रदृश्यते । 023a
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥ 023c
यदि मे पश्यतः कालो भूतानि न विनाशयेत् । 024a
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥ 024c
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे । 025a
बिभ्रतं गार्दभं रूपमागत्य परिगर्हसे ॥ 025c
इच्छन्नहं विकुर्यां हि रूपाणि बहुधाऽऽत्मनः । 026a
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥ 026c
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति । 027a
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम् ॥ 027c
पुरा सर्वं प्रव्यथितं मयि क्रुद्धे पुरन्दर । 028a
'विद्रवन्ति त्वया सार्धं सर्व एव दिवौकसः ॥' 028c
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् । 029a
त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मगं गमः ॥ 029c
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन । 030a
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा । 030c
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥ 030e
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः । 031a
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥ 031c
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः । 032a
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥ 032c
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते । 033a
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥ 033c
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् । 034a
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥ 034c
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते । 035a
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥ 035c
कल्याणी रूपसम्पन्ना दुर्भगा शक्र दृश्यते । 036a
अलक्षणा विरूपा च सुभगा दृश्यते परा ॥ 036c
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् । 037a
यत्तमेवं गतो वज्रिन्यच्चाप्येवं गता वयम् ॥ 037c
न कर्म तव नान्येषां कुतो मम शतक्रतो । 038a
ऋद्धिर्वाऽप्यथवा नर्द्धिः पर्यायकृतमेव तत् ॥ 038c
पश्यामि त्वां विराजन्तं देवराजमवस्थितम् । 039a
श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि ॥ 039c
एवं नैव न चेत्कालो मामाक्रम्य स्थितो भवेत् । 040a
पातयेयमहं त्वाऽद्य सवज्रमपि मुष्टिना ॥ 040c
न तु विक्रमकालोऽयं शान्तिकालोऽयमागतः । 041a
कालः स्थापयते सर्वं कालः पचति वै तथा ॥ 041c
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् । 042a
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥ 042c
द्वादशानां तु भवतामादित्यानां महात्मनाम् । 043a
तेजांस्येकेन सर्वेषां देवराज धृतानि मे ॥ 043c
अहमेवोद्वहाम्यापो विसृजामि च वासव । 044a
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥ 044c
संरक्षामि विलुम्पामि ददाम्यहमथाददे । 045a
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥ 045c
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप । 046a
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥ 046c
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते । 047a
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥ 047c
मासमासार्धवेश्मानमहोरात्राभिसंवृतम् । 048a
ऋतुद्वारं वायुमुखमायुर्वेदविदो जनाः ॥ 048c
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया । 049a
'अनित्यपञ्चवर्षाणि षष्ठो दृश्यति देहिनाम् ॥' 049c
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा । 050a
'ततस्तानि न पश्यामि काले तमपि वृत्रहन् ॥' 050c
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा । 051a
अनादिनिधनं चाहुरक्षरं क्षरमेव च ॥ 051c
सत्त्वेषु लिङ्गमाविश्य निर्लिङ्गमपि तत्स्वयम् । 052a
मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः ॥ 052c
'यमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा । 053a
तं कालमिति जानीहि यस्य सर्वमिदं वशे ॥' 053c
भूतानां तु विपर्यासं कुरुते भगवानिति । 054a
न ह्येतावद्भवेद्ग्राम्यं न यस्मात्प्रभवेत्पुनः ॥ 054c
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति । 055a
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ॥ 055c
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा । 056a
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ॥ 056c
ऋतून्मासार्धमासांश्च दिवसांश्च क्षणांस्तथा । 057a
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे ॥ 057c
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा । 058a
तं कालमिति जानीहि यस्य सर्वमिदं वशे ॥ 058c
बहूनीन्द्रसहस्राणि समतीतानि वासव । 059a
बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥ 059c
त्वामप्यतिबलं शक्र देवराजं बलोत्कटम् । 060a
प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥ 060c
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव । 061a
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥ 061c
यामेतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम् । 062a
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥ 062c
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् । 063a
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥ 063c
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि । 064a
त्वामप्येवंविधं ज्ञात्वा क्षिप्रमन्यं गमिष्यति । 064c
'कालेन चोदिता शक्र मा ते गर्वः शतक्रतो ॥ 064e
क्षमस्व कालयोगं तमागतं विद्धि देवप । 065a
निर्लज्जश्चैव कस्मात्त्वं देवराज विकत्थसे ॥ 065c
सर्वासुराणामधिपः सर्वदेवभयङ्करः । 066a
जितवान्ब्रह्मणो लोकं को विद्यादागतं गतिम् ॥' 066c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥

12-231-1 यथा नागं प्रव्याहाराय इति ध. पाठः ॥ 12-231-11 निष्ठा परागतिः ॥ 12-231-19 मनोऽपि पाञ्चभौतिकमित्यर्थः । भूतानि स्थूलसूक्ष्मशरीराणि ॥ 12-231-22 दग्धं कालात्मनेश्वरेणाऽनुदहते वह्न्यादिः । एवमग्रेऽपि ॥ 12-231-26 ईक्ष्य दृष्ट्वा ॥ 12-231-29 धर्मं वृद्धिहासवत्त्वम् ॥ 12-231-30 प्रभव ऐश्वर्यम् । प्रभावस्तदाविष्करणाम् । नात्मसंस्थो नात्माधीनः । कौमारं बालस्येवाज्ञं तव चित्तम् ॥ 12-231-33 शास्तुरीश्वरस्य ॥ 12-231-36 सुभगा भाग्यवती ॥ 12-231-38 नर्द्धिः ऋद्ध्यभावः । पर्यायः कालक्रमस्तेन कृतम् ॥ 12-231-40 एवं मम गर्दभत्वादिकं नैव स्यादिति शेषः । नचेदित्यादि तत्रोपपत्तिः ॥ 12-231-44 उद्वहामि मेघो भूत्वा सूर्यो भूत्वा शोषयामीति वार्थः । आपः अपः ॥ 12-231-46 कालसैन्यं मासार्धमासादि ॥ 12-231-47 पर्यायेण कालक्रमेण भुज्यन्ते पाल्यन्ते संह्रियन्ते वा ॥