अध्यायः 230
इन्द्रबलिसंवादः ॥ 1 ॥ इन्द्रावमानितेन बलिना तम् प्रति गर्वभञ्जकवचनोपन्यासः ॥ 2 ॥
युधिष्ठिर उवाच 001
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् । 001a
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
वासवस्य च संवादं बलेर्वैरोचनस्य च ॥ 002c
पितामहमुपागम्य प्रणिपत्य कृताञ्जलिः । 003a
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः ॥ 003c
यस्य स्म ददतो वित्तं न कदाचन हीयते । 004a
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ 004c
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः । 005a
सोऽग्निस्तपति भूतानि जलं च स भवत्युत ॥ 005c
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् । 006a
स एव ह्यस्तमयते स स्म विद्योतते दिशः ॥ 006c
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः । 007a
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ 007c
ब्रह्मोवाच 008
नैतत्ते साधु मघवन्यदेनमनुपृच्छसि । 008a
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ॥ 008c
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः । 009a
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ॥ 009c
शक्र उवाच 010
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् । 010a
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् ॥ 010c
ब्रह्मोवाच 011
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति । 011a
न्यायस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया ॥ 011c
भीष्म उवाच 012
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा । 012a
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः ॥ 012c
ततो ददर्श स बलिं खरवेषेण संवृतम् । 013a
यथाख्यातं भगवता शून्यागारकृतालयम् ॥ 013c
शक्र उवाच 014
खरयोनिमनुप्राप्तस्तुपभक्षोऽसि दानव । 014a
इदं ते योनिरसमा शोचस्याहो न शोचसि ॥ 014c
अदृष्टं बत पश्यामि द्विषतां वशमागतम् । 015a
श्रिया विहीनं मित्रैश्च भ्रष्टैश्वर्यपराक्रमम् ॥ 015c
यत्तद्यानसहस्रैस्त्वं ज्ञातिभिः परिवारितः । 016a
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥ 016c
त्वन्मुखाश्चैव दैतेय व्यतिष्ठंस्तव शासने । 017a
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह ॥ 017c
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि । 018a
यदाऽतिष्ठः समुद्रस्य पूर्वकूले विलेलिखन् ॥ 018c
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् । 019a
यत्ते सहस्रसमिता ननुतुर्देवयोषितः ॥ 019c
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया । 020a
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः ॥ 020c
कथमद्य तदा चैव मनस्ते दानवेश्वर । 021a
छत्रं तवासीत्सुमहत्सौवर्णं रत्नभूषितम् ॥ 021c
ननृतुस्तत्र गन्धर्वाः षट्सहस्राणि सप्तचा । 022a
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः ॥ 022c
यत्राददः सहस्राणि अयुतानां गवां दश । 023a
अनन्तरं सहस्रेण तदाऽऽसीद्दैत्य का मतिः ॥ 023c
यदा च पृथिवीं सर्वां यजमानोऽनुपर्यगाः । 024a
शम्याक्षेपेण विधिना तदाऽऽसीत्किन्तु ते हृदि ॥ 024c
न ते पश्यामि भृङ्गारं न च्छत्रं व्यजनं न च । 025a
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ॥ 025c
'भीष्म उवाच 026
ततः प्रहस्य स बलिर्वासवेन समीरितम् । 026a
निशम्य मानगम्भीरं सुरराजमथाब्रवीत् ॥ 026c
अहो हि तव बालिश्यमिह देवगणाधिप । 027a
अयुक्तं देवराजस्य तव कष्टमिदं वचः ॥' 027c
न त्वं पश्यसि भृङ्गारं न च्छन्नं व्यजनं न च । 028a
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव ॥ 028c
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि । 029a
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ॥ 029c
'न जानीषे भवान्सिद्धिं शुभाङ्गस्वरूपरूपिणीम् । 030a
कालेन भविता सर्वो नात्र गच्छति वासव ॥' 030c
न त्वेतदनुरूपं ते यशसो वा कुलस्य च । 031a
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि ॥ 031c
न हि दुःखेषु शोचन्ते न प्रहृष्यन्ति चर्द्धिषु । 032a
कृतप्रज्ञाः ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ॥ 032c
त्वं तु प्राकृतया बुद्ध्या पुरन्दर विकत्थसे । 033a
यदाऽहमिव भावी स्यास्तदा नैवं वदिष्यसि ॥ 033c
'ऐश्वर्यमदमत्तो मां स त्वं किञ्चिन्न बुद्ध्यसे । 034a
राज्याद्विनिपतानेन सोहं न त्वपराजितः ॥' 034c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥
12-230-1 भ्रष्टश्रीर्विन्दते महीम् इति ध. पाठः ॥ 12-230-4 स्ववीर्यख्यापनाय बलिं स्तौति यस्येत्यादिना ॥ 12-230-9 गोषु वृषभेषु । शून्यागारप्रतिश्रयः इति ट. थ. ध. पाठः ॥ 12-230-15 भ्रष्टवीर्यपराक्रमम् इति झ. पाठः ॥ 12-230-17 अकृष्टपच्या कृषणंविना धान्यप्रसूः ॥ 12-230-18 विलेलिहन् इति ध. पाठः । तत्र तालुग्रस्तं जगत्कुर्वन्नित्यर्थः ॥ 12-230-24 सूक्ष्माग्रः स्थूलमूलः षट्त्रिंशदङ्गुलो दण्डः शम्या सा बलवता क्षिप्ता यावद्दूरे पतेत्तावदेकं देवयजनम् । एवं सर्वापि पृथिवी शम्याप्रक्षेपविमिता । तव देवयजनानामपर्याप्ताभूदित्यर्थः । पर्यगाः परिहृत्य गतवान् ॥ 12-230-25 भृङ्गारः सौवर्णम् उदपात्रविशेषः ॥ 12-230-35 विनिपतानेन विनिपतनेन ॥