अध्यायः 229

भीष्मेण युधिष्ठिरम् प्रति ज्ञानस्य श्रेयःसाधनत्वज्ञानोपायादिप्रतिपादकेन्द्रप्रह्लादसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाऽशुभम् । 001a
पुरुषं योजयत्येव फलयोगेन भारत ॥ 001c
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः । 002a
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ॥ 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर ॥ 003c
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् । 004a
अस्तब्धमनहङ्कारं सत्वस्थं संयतेन्द्रियम् ॥ 004c
तुल्यनिन्दास्तुतिं दान्तं शून्यागारसमाकृतिम् । 005a
चराचराणां भूतानां विदितप्रभवाप्ययम् ॥ 005c
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च । 006a
काञ्चने वाऽथ लोष्ठे वा उभयोः समदर्शनम् ॥ 006c
आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चयम् | 007a
परावरज्ञं भूतानां सर्वज्ञं सर्वदर्शनम् ॥ 007c
'अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि । 008a
हृदयेन समाविष्टं सर्वभावप्रियङ्करम् ॥ 008c
भक्तं भागवतं नित्यं नारायणपरायणम् । 009a
ध्यायन्तं परमात्मानं हिरण्यकशिपोः सुतम् ॥' 009c
शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम् । 010a
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ॥ 010c
यैः कैश्चित्सम्मतो लोके गुणैः स्यात्पुरुषो नृषु । 011a
भवत्यनपगान्सर्वांस्तान्गुणाल्ँलक्षयामहे ॥ 011c
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह । 012a
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे ॥ 012c
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः । 013a
श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि ॥ 013c
प्रज्ञालाभेन दैतेय उताहो धृतिमत्तथा । 014a
प्रह्लाद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः ॥ 014c
भीष्म उवाच 015
इति सञ्चोदितस्तेन धीरो निश्चितनिश्चयः । 015a
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ॥ 015c
प्रह्लाद उवाच 016
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते । 016a
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥ 016c
'गहनं सर्वभूतानां ध्येयं नित्यं सनातनम् । 017a
अनिग्रहमनौपम्यं सर्वाकारं परात्परम् ॥ 017c
सर्वावरणसम्भूतं तस्मादेतत्प्रवर्तते । 018a
तन्मया अपि सम्पश्य नानालक्षणलक्षिताः ॥ 018c
स वै पाति जगत्स्रष्टा विष्णुरित्यभिशब्दितः । 019a
पुनर्दर्शति सम्प्राप्ते —— सुरेश्चरः ॥' 019c
स्वभावात्सम्प्रवर्तन्ते निवर्तन्ते तथैव च । 020a
सर्वे भावास्तथा भावाः पुरुषार्थो न विद्यते ॥ 020c
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः । 021a
स्वयं च कुर्वतस्तस्य जातु मानो भवेदिह ॥ 021c
यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा । 022a
तस्य दोषवती प्रज्ञा अतत्त्वज्ञेति मे मतिः ॥ 022c
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् । 023a
आरम्भास्तस्य सिद्ध्येयुर्न तु जातु पराभवेत् ॥ 023c
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च । 024a
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ॥ 024c
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृतिमेव च । 025a
अप्रयत्नेन पश्यामः केषां चित्तत्स्वभावतः ॥ 025c
प्रतिरूपतराः केचिद्दृश्यन्ते बुद्धिमत्तराः । 026a
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् ॥ 026c
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा । 027a
शुभाशुभास्तदा तत्र तस्य किं मानकारणम् ॥ 027c
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः । 028a
आत्मप्रतिष्ठा प्रज्ञा वा मम नास्ति ततोऽन्यथा ॥ 028c
कर्मजं त्विह मन्यन्ते फलयोगं शुभाशुभम् । 029a
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ॥ 029c
यथा वेदयते कश्चिदोदनं पायसं ह्यदन् । 030a
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥ 030c
विकारानेव यो वेद न वेद प्रकृतिं पराम् । 031a
तस्य स्तम्भोऽभवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥ 031c
स्वभावभाविनो भावान्सर्वानेवेह निश्चये । 032a
बुद्ध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥ 032c
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् । 033a
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ 033c
निर्ममो निरहङ्कारो निरीहो मुक्तबन्धनः । 034a
स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ॥ 034c
कृतप्रज्ञस्य दान्तस्य वितृष्णाय निराशिषः । 035a
नायासो विद्यते शक्र पश्यतो योगवित्तया ॥ 035c
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे । 036a
द्वेष्टारं च न पश्यामि यो ममाद्य विरुध्यति ॥ 036c
नोर्ध्वं नावाङ्नतिर्यक्च न क्वचिच्छक्र कामये । 037a
न हि ज्ञेये न विज्ञाने नाज्ञाने विद्यतेऽन्तरम् ॥ 037c
शक्र उवाच 038
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते । 038a
प्रब्रूहि तमुपायं मे सम्यक्प्रह्लाद पृच्छते ॥ 038c
प्रह्लाद उवाच 039
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया । 039a
गुरुशुश्रूषया शक्र पुरुषो लभते महत् ॥ 039c
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः । 040a
स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यति ॥ 040c
'नैवान्तरं विजानाति श्रुत्वा गुरुमुखात्ततः । 041a
वाक्यं वाक्यार्थविज्ञानमालोक्य मनसा यतिः ॥ 041c
विवेकप्रत्ययापन्नमात्मानमनुपश्यति । 042a
विरज्यति ततो भीत्या परमेश्वरमृच्छति ॥ 042c
त्रातारं सर्वदुःखानां तत्सुखान्वेषणं ततः । 043a
करोति सद्भिः संसर्गमलं सन्तः सुखाय वै ॥ 043c
सतां सकाशादाज्ञाय मार्गं लक्षणवत्तया । 044a
सर्वसङ्गविनिर्मुक्तः परमात्मानमृच्छति ॥ 044c
विषयेच्छाकृतो धर्मं सरजस्को भयावहः । 045a
धर्महानिमवाप्नोति क्रमात्तेन नरः पुनः ॥ 045c
भक्तिहीनो भवत्येव परमात्मनि चाच्युत । 046a
वाचके वाऽपि च स्थानं न हन्त्येव विमोचितः ॥ 046c
सार्क्ष्ये चास्य रतिर्नित्यं संसारे च रतिर्भवेत् । 047a
तस्य नित्यमविज्ञानादात्मा चैव न सिद्ध्यति ॥ 047c
उन्मत्तवृत्तिर्भवति क्रमादेवं प्रवर्तते । 048a
आशौचं वर्धते नित्यं न शाम्यति कथञ्चन ॥ 048c
विषये चान्वितस्यास्य मोक्षवाञ्छा न जायते । 049a
हेत्वाभासेषु संलीनः स्तौति वैषयिकान्गुणान् ॥ 049c
न शास्त्राणि शृणोत्येव मानदर्पसमन्वितः । 050a
स्वतःसिद्धं न भोगस्तं स्वतःसिद्धं न वेत्ति च । 050c
चिद्रूपधारणं चैव परसृष्टिमथाव्ययम् ॥ 050e
नानायोनिगतस्तेन भ्राम्यमाणः स्वकर्मभिः । 051a
तीर्णपारं न जानाति महामोहसमन्वितः । 051c
आचार्यसंश्रयाद्विद्याद्विनयं समुपागतः ॥ 051e
अनुकूलेषु धर्मेषु चिनोत्येनं ततस्ततः । 052a
आचार्य इति च ख्यातस्तेनासौ बलवृत्रहन् ॥ 052c
नियतेनैव सद्भावस्तेन जन्मान्तरादिषु । 053a
कर्मसञ्चयतूलौघः क्षिप्यते ज्ञानवायुना ॥ 053c
एवं युक्तसमाचारः संसारविनिवर्तकः । 054a
अनुकूलवृत्तिं सततं छिनत्त्येव भृगुर्यथा ॥ 054c
येन चायं समापन्नं वैतृष्ण्यं नाधिगच्छति । 055a
अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत् ॥ 055c
प्रथमं तत्कृतेनैव कर्मणा परिमृच्छति । 056a
द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति ॥ 056c
एतैरक्षैः समापन्नः प्रत्यक्षोऽसौ समास्थितः । 057a
सुषुप्त्याख्यस्तुरीयोसौ न च ह्यावरणान्वितः ॥ 057c
लोकवृत्त्या तमीशानं यजञ्जुह्वन्यमी भवेत् । 058a
आत्मन्यायासयोगेन निष्क्रियं स परात्परम् ॥ 058c
आयामे तां विजानाति मायैषा परमात्मनः । 059a
प्रातिभासिकसामान्याद्बुद्धेर्या संविदात्मिका ॥ 059c
स्फुलिङ्गसत्त्वसदृशादग्निभावो यथा भवेत् । 060a
शिशूनामेवमज्ञानामात्मभावोऽन्यथा स्मृतः ॥ 060c
साध्येऽप्यवस्तुभूताख्ये मित्रामित्रादयः कुतः । 061a
तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर ॥ 061c
एवं बुध्यस्व भगवन्समबुद्धिं समन्वियात् । 062a
उपायमेतदाख्यातं मा वक्रं गच्छ देवप ॥ 062c
ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम् । 063a
यावदारब्धमस्येह तावन्नैवोपशाम्यति ॥ 063c
तदन्ते तं प्रयात्येव न विद्वानिति मे मतिः । 064a
यदस्य वाचकं वक्ष्ये संस्मरे तद्भवेत्तदा ॥ 064c
तेनतेन च भावेन अपायं तत्र पश्यति । 065a
स्थानभेदेषु वागेषा तालुसंस्था यथा तथा ॥ 065c
तद्वद्बुद्धिगता ह्यर्था बुद्धिमात्मगतः सदा ॥ 066ac
समस्तसङ्कल्पविशेषमुक्तं परं पराणां परमं महात्मा । 067a
त्रय्यन्तविद्भिः परिगीयतेऽसौ विष्णुर्विभुर्वास्ति गुणो न नित्यम् ॥ 067c
वर्णेषु लोकेषु विशेषणेषु स वासुदेवो वसनान्महात्मा । 068a
गुणानुरूपं स च कर्मरूपं ददाति सर्वस्य समस्तरूपम् । 068c
न सन्दृशे तिष्ठति रुपमस्य न चक्षुषा पश्यति कश्चिदेनम् ॥ 069e
भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह ॥ 069ac
वदन्ति तन्मे भगवान्ददौ स स एव शेषं मघवान्महात्मा । 070a
एवं ममोपायमवैहि शक्र तस्माल्लोको नास्ति मह्यं सदैव ॥' 070c
भीष्म उवाच 071
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् । 071a
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् ॥ 071c
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः । 072a
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ॥ 072c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ 229 ॥

12-229-2 श्रोतुं त्वत्तो वदस्व मे इति ट. थ. पाठः ॥ 12-229-4 असक्तं फलेच्छारहितम् । संयमे रतम् इति ट. थ. पाठः । समये रतम् इति झ. पाठः ॥ 12-229-5 शून्यागारनिवासिनम् इति झ. पाठः ॥ 12-229-7 आत्मनि प्रतीचि । श्रेयस्यानन्दरूपे । ज्ञाने चिन्मात्रे । धीरं कुतर्कानभिभूतम् । सर्वज्ञं समदर्शनमिति झ. पाठः ॥ 12-229-11 भवति त्वयि । अनपगान् स्थिरान् ॥ 12-229-12 बालजनैः समारागद्वेषादिराहित्यात् । मन्यमानो जानन्नात्मज्ञानार्थं किं श्रेयः प्रशस्ततरं साधनम् ॥ 12-229-15 तदुक्तमनुवर्णयन् इति ध. पाठः ॥ 12-229-21 नास्ति काचित्स्वका रतिः इति थ. पाठः ॥ 12-229-25 अनिष्टस्याप्यनिर्वृत्तिमिष्टनिर्वृत्तिमेव च इति ट. थ. पाठः ॥ 12-229-30 कश्चिदोदनं वायसो ह्यदन्निति झ. पाठः ॥ 12-229-32 बुध्यमानस्य वै दर्पं मनो वा इति ध. पाठः ॥ 12-229-35 पश्यतो लोकविद्यया इति ध. पाठः । लोकमव्ययम् इति झ. पाठः ॥ 12-229-36 यो मामद्य ममायते इति झ. पाठः ॥ 12-229-37 न ज्ञाने कर्म विद्यते इति झ. पाठः ॥ 12-229-38 प्रज्ञा ज्ञानम् । शान्तिस्तत्फलम् ॥ 12-229-39 महत् मोक्षम् ॥