अध्यायः 228
भीष्मेण युधिष्ठिरम् प्रति तपश्शब्दस्य मतभेदेन नानार्थकत्वकथनपूर्वकं स्वमते तस्य ज्ञानार्थकत्वाभिधानम् ॥ 1 ॥ ज्ञानस्य मोक्षसाधनत्वे दृष्टान्ततया सुवर्चलाचरित्रकथनम् ॥ 2 ॥
'युधिष्ठिर उवाच 001
यदिदं तप इत्याहुः किं तपः सम्प्रकीर्तितम् । 001a
उपवासमथान्यत्तु वेदाचारमथो नु किम् । 001c
शास्त्रं तपो महाप्राज्ञ तन्मे ब्रूहि पितामह ॥ 001e
भीष्म उवाच 002
पक्षमासोपवासादीन्मन्यन्ते वै तपोधनाः । 002a
वेदव्रतादीनि तप अपरे वेदपारगाः । 002c
वेदपारायणं चान्ये चाहुस्तत्वमथापरे ॥ 002e
यथाविहितमाचारस्तपः सर्वं व्रतं गताः । 003a
आत्मविद्याविधानं यत्तत्तपः परिकीर्तितम् ॥ 003c
त्यागस्तपस्तथा शान्तिस्तप इन्द्रियनिग्रहः । 004a
ब्रह्मचर्यं तपः प्रोक्तमाहुरेवं द्विजातयः ॥ 004c
सदोपवासो यो विद्वान्ब्रह्मचारी सदा भवेत् ॥ 005ac
यो मुनिश्च सदा धीमान्विघसाशी विमत्सरः । 006a
ततस्त्वनन्तमप्याहुर्यो नित्यमतिथिप्रियः ॥ 006c
नान्तराशीस्ततो नित्यमुपवासी महाव्रतः । 007a
ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः ॥ 007c
भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथाऽमृतम् । 008a
एवं नानार्थसंयोगं तपः शश्वदुदाहृतम् ॥ 008c
केषां लोका ह्यपर्यन्ताः सर्वे सत्यव्रते स्थिताः । 009a
येऽपि कर्ममयं प्राहुस्ते द्विजा ब्राह्मणाः स्मृताः । 009c
रमन्ते दिव्यभोगैश्च पूजिता ह्यप्सरोगणैः ॥ 009e
ज्ञानात्मकं तपश्शब्दं ये वदन्ति विनिश्चिताः । 010a
ते ह्यन्तराऽऽत्मसद्भावं प्रपन्ना नृपसत्तम ॥ 010c
एतत्ते नृपशार्दूल प्रोक्तं यत्पृष्टवानसि । 011a
यथा वस्तुनि सञ्ज्ञानि विविधानि भवन्त्युत ॥ 011c
युधिष्ठिर उवाच 012
पितामह महाप्राज्ञ राजाधीना नृपाः पुनः । 012a
अन्यानि च सहस्राणि नामानि विविधानि च ॥ 012c
प्रतियोगीनि वै तेषां छन्नान्यस्तमितानि च । 013a
दृढं सर्वं प्राकृतकमिदं सर्वत्र पश्य वै ॥ 013c
तस्माद्यथागतं राजन्यथारुचि नृणां भवेत् । 014a
अस्मिन्नर्थे पुरावृत्तं शृणु राजन्युधिष्ठिर ॥ 014c
ब्राह्मणानां समूहे तु यदुवाच सुवर्चला । 015a
देवलस्य सुता विद्वन्सर्वलक्षणशोभिता ॥ 015c
कन्या सुवर्चला नाम योगभावितचेतना । 016a
हेतुना केन जाता सा निर्द्वन्द्वा नष्टसंशया ॥ 016c
साऽब्रवीत्पितरं विप्रं वरान्वेषणतत्परा ॥ 017ac
अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम् । 018a
एवं स्म च पितः शश्वन्मयेदं—— मुने ॥ 018c
पितोवाच 019
न शक्यं प्रार्थितुं वत्से त्वयाऽद्य प्रतिभाति मे । 019a
अन्धताऽनन्धता चेति विचारो मम जायते । 019c
उन्मत्तेव सुते वाक्यं भाषसे पृथुलोचने ॥ 019e
कन्योवाच 020
नाहमुन्मत्तभूताऽऽद्य बुद्धिपूर्वं ब्रवीमि ते । 020a
विद्धि वै तादृशं लोके स मां भजति वेदवित् ॥ 020c
यान्यांस्त्वं मन्यसे दातुं मां द्विजोत्तम तानिह । 021a
आनयान्यान्महाभाग ह्यहं द्रक्ष्यामि तेषु तम् ॥ 021c
तथेति चोक्त्वा तां विप्रः प्रेषयामास शिष्यकान् । 022a
ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश्च द्विजोत्तमाः । 022c
अनेकमुनयो राजन्सम्प्राप्ता देवलाश्रमम् ॥ 022e
तानागतानथाभ्यर्च्य कन्यामाह पिता महान् । 023a
यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम् ॥ 023c
तथेचि चोक्त्वा कल्याणी तप्तहेमनिभानना । 024a
करसम्मितमध्याङ्गी वाक्यमाह तपोधनाः ॥ 024c
यद्यस्ति सम्मतो विप्रो ह्यन्धोऽनन्धः स मे वरः । 025a
नोचुर्विप्रा महाभागां प्रतिवाक्यं ययुश्च ते ॥ 025c
कन्या च तिष्ठतामत्र पितुर्वेश्मनि भारत ॥ 026ac
श्वेतकेतुः कहालस्य श्यालः परमधर्मवित् । 027a
श्रुत्वा ब्रह्मा तदागम्य कन्यामाह महीपते ॥ 027c
सोहं भद्रे समावृत्तस्त्वयोक्तो यः पुरा द्विजः । 028a
विशालनयनं विद्धि मामन्धोऽहं वृणीष्व माम् ॥ 028c
सुवर्चलोवाच 029
कथं विशालनेत्रोऽसि कथं वा त्वमलोचनः । 029a
ब्रूहि पश्चादहं विद्वन्परीक्षे त्वां द्विजोत्तम ॥ 029c
द्विज उवाच 030
शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम् । 030a
न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे । 030c
अलोचनोऽहं तस्माद्धि न गतिर्विद्यते यतः ॥ 030e
येन पश्यति सुश्रोणि भाषते स्पृशते पुनः । 031a
भुज्यते घ्रायते नित्यं शृणोति मनुते तथा ॥ 031c
तच्चक्षुर्विद्यते मह्यं येन पश्यति वै स्फुटम् । 032a
सुलोचनोऽहं भद्रे वै पृच्छ वा किं वदामि ते । 032c
सर्वमस्मिन्न मे विद्या विद्वान्हि परमार्थतः ॥ 032e
सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम् । 033a
प्रणम्य पूजयामास तां भार्यां स च लब्धवान् ॥ 033c
वैराग्यसंयुता कन्या तादृशं पतिमुत्तमम् । 034a
प्राप्ता राजन्महाप्राज्ञ तस्मादर्थः पृथक्पृथक् ॥ 034c
एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि ॥' 035ac
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥