अध्यायः 227

भीष्मेण युधिष्ठिरम् प्रति भगवत्स्वरूपनिरूपकमुनिसनत्कुमारसंवादानुवादः ॥ 1 ॥ '* युधिष्ठिर उवाच 001
केचिदाहुर्द्विधा लोके त्रिधा राजन्ननेकधा । 001a
न प्रत्ययो न चान्यच्च दृश्यते ब्रह्म नैव तत् ॥ 001c
नानाविधानि शास्त्राणि उक्ताश्चैव पृथग्विधाः । 002a
किमधिष्ठाय तिष्ठामि तन्मे ब्रूहि पितामह ॥ 002c
भीष्म उवाच 003
स्वेस्वे युक्ता महात्मानः शास्त्रेषु प्रभविष्णवः । 003a
वर्तन्ते पण्डिता लोके को विद्वान्कश्च पण्डितः ॥ 003c
सर्वेषां तत्वमज्ञाय यथारुचि तथा भवेत् । 004a
अस्मिन्नर्थे पुराभूतमितिहासं पुरातनम् ॥ 004c
महाविवादसंयुक्तमृषीणां भावितात्मनाम् । 005a
हिमवत्पार्श्व आसीना ऋषयः संशितव्रताः ॥ 005c
षण्णां तानि सहस्राणि ऋषीणां गणमाहितम् । 006a
तत्र केचिद्ध्रुवं विश्वं सेश्वरं तु निरीश्वरम् ॥ 006c
प्राकृतं कारणं नास्ति सर्वं नैवमिदं जगत् । 007a
अनेन चापरे विप्राः स्वभावं कर्म चापरे ॥ 007c
पौरुषं कर्म दैवं च यत्स्वभावादिरेव तम् । 008a
नानाहेतुशतैर्युक्ता नानाशास्त्रप्रवर्तकाः ॥ 008c
स्वभावाद्ब्राह्मणा राजञ्जिगीषन्तः परस्परम् । 009a
ततस्तु मूलमुद्भूतं वादिप्रत्यर्थिसंयुतम् ॥ 009c
पात्रदण्डविघातं च वल्कलाजिनवाससाम् । 010a
एके मन्युसमापन्नास्ततः शान्ता द्विजोत्तमाः ॥ 010c
वसिष्ठमब्रुवन्सर्वे त्वं नो ब्रूहि सनातनम् । 011a
नाहं जानामि विप्रेन्द्राः प्रत्युवाच स तान्प्रभुः ॥ 011c
ते सर्वे सहिता विप्रा नारदम् ऋषिमब्रुवन् । 012a
त्वं नो ब्रूहि महाभाग तत्वविच्च भवानसि ॥ 012c
नाहं द्विजा विजानामि क्व हि गच्छाम सङ्गताः । 013a
इति तानाह भगवांस्ततः प्राह च स द्विजान् ॥ 013c
को विद्वानिह लोकेऽस्मिन्नमोहोऽमृतमद्भुतम् । 014a
तच्च ते शुश्रुवुर्वाक्यं ब्राह्मणा ह्यशरीरिणः ॥ 014c
सनद्धाम द्विजा गत्वा पृच्छध्वं स च वक्ष्यति ॥ 015ac
तमाह कश्चिद्विजवर्यसत्तमो विभाण्डको मण्डितवेदराशिः । 016a
कस्त्वं भवानर्थविभेदमध्ये न दृश्यसे वाक्यमुदीरयंश्च ॥ 016c
अथाहेदं तं भगवान्सनन्तं महामुने विद्धि मां पण्डितोऽसि | 017a
ऋषिं पुराणं सततैकरूपं यमक्षयं वेदविदो वदन्ति ॥ 017c
पुनस्तमाहेदमसौ महात्मा स्वरूपसंस्थं वद आह पार्थ । 018a
त्वमेकोऽस्मदृषिपुङ्गवाद्य न सत्स्वरूपमथवा पुनः किम् ॥ 018c
अथाह गम्भीरतरानुवादं वाक्यं महात्मा ह्यशरीर आदिः । 019a
न ते मुने श्रोत्रमुखेऽपि चास्यं न पादहस्तौ प्रपदात्मके न ॥ 019c
ब्रुवन्मुनीन्सत्यमथो निरीक्ष्य स्वमाह विद्वान्मनसा निगम्य । 020a
ऋषे कथं वाक्यमिदं ब्रवीषि न चास्य मन्ता न च विद्यते चेत् ॥ 020c
न शुश्रुवुस्ततस्तत्तु प्रतिवाक्यं द्विजोत्तमाः । 021a
निरीक्षमाणा आकाशं प्रहसन्तस्ततस्ततः ॥ 021c
आश्चर्यमिति मत्वा ते ययुर्हैमं महागिरिम् । 022a
सनत्कुमारसङ्काशं सगणा मुनिसत्तमाः ॥ 022c
तं पर्वतं समारुह्य ददृशुर्ध्यानमाश्रिताः । 023a
कुमारं देवमर्हन्तं वेदपाराविवर्जितम् ॥ 023c
ततः संवत्सरे पूर्णे प्रकृतिस्थं महामुनिम् । 024a
सनत्कुमारं राजेन्द्र प्रणिपत्य द्विजाः स्थिताः ॥ 024c
आगतान्भगवानाह ज्ञाननिर्धूतकल्मषः । 025a
ज्ञातं मया मुनिगणा वाक्यं तदशरीरिणः । 025c
कार्यमद्य यथाकामं पृच्छध्वं मुनिपुङ्गवाः ॥ 025e
तमब्रुवन्प्राञ्जलयो महामुनिं द्विजोत्तमं ज्ञाननिधिं सुनिर्मलम् । 026a
कथं वयं ज्ञाननिधिं वरेण्यं यक्ष्यामहे विश्वरूपं कुमार ॥ 026c
प्रसीद नो भगवञ्ज्ञानलेशं मधुप्रयाताय सुखाय सन्तः । 027a
यत्तत्पदं विश्वरूपं महामुने तत्र ब्रूहि किं तत्र महानुभाव ॥ 027c
स तैर्वियुक्तो भगवान्महात्मा यः सङ्गवान्सत्यवित्तच्छृणुष्व । 028a
अनेक साहस्रकलेषु चैव प्रसन्नधातुं च शुभाज्ञया सत् ॥ 028c
यथाह पूर्वं युष्मासु ह्यशरीरी द्विजोत्तमाः । 029a
तथैव वाक्यं तत्सत्यमजानन्तश्च कीर्तितम् ॥ 029c
शृणुध्वं परमं कारणमस्ति कथमवगम्यते । अहन्यहनि पाकविशेषो दृश्यते तेन मिश्रं सर्वं मिश्रयते । यथा मण्डली दृशि सर्वेषामस्ति निदर्शनम् । अस्ति चक्षुष्मतामस्ति ज्ञाने स्वरूपं पश्यति । यथा दर्पणान्तं निदर्शनम् ॥ 030AB
स एव सर्वं विद्वान्न बिभेति न गच्छति कुत्राहं कस्य नाहं केन केनेत्यवर्तमानो विजानाति ॥ 031AB
स युगतो व्यापी । स पृथक्स्थितः । तदपरमार्थः ॥ 032AB
यथा वायुरेकः सन्बहुधेरितः । आश्रयविशेषो वा यस्याश्रयं यथावद्द्विजे मृगे व्याघ्रे च मनुजे वेणुसंश्रयो भिद्यते वायुरथैकः । आत्मा तथाऽसौ परमात्माऽसावन्य इव भाति ॥ 033AB
एवमात्मा स एव गच्छति सर्वमात्मा पश्यञ्शृणोति न च घ्राति न भाषते ॥ 034AB
चक्रेऽस्य तं महात्मानं परितो दश रश्मयः । 035a
विनिष्क्रम्य यथा सूर्यमनुगच्छन्ति तं प्रभुम् ॥ 035c
दिनेदिनेऽस्तमभ्येति पुनरुद्गच्छते दिशः । 036a
तावुभौ न रवौ चास्तां तथा वित्त शरीरिणम् ॥ 036c
पतिते वित्त विप्रेन्द्रं भक्षणे चरणे परः । 037a
ऊर्ध्वमेकस्तथाऽधस्तादेकस्तिष्ठति चापरः ॥ 037c
हिरण्यसदनं ज्ञेयं समेत्य परमं पदम् । 038a
आत्मना ह्यात्मदीपं तमात्मनि ह्यात्मपूरुषम् ॥ 038c
सञ्चितं सञ्चितं पूर्वं भ्रमरो वर्तते भ्रमम् । 039a
योऽभिमानीव जानाति न मुह्यति न हीयते ॥ 039c
न चक्षुषा पश्यति कश्चनैनं हृदा मनीषा पश्यति रुपमस्य । 040a
न शुक्लं न कृष्णं परमार्थभावं गुहाशयं ज्ञानदेवीकरस्थम् ॥ 040c
ब्राह्मणस्य न सादृश्ये वर्तते सोऽपि किं पुनः । 041a
इज्यते यस्तु मन्त्रेण यजमानो द्विजोत्तमः ॥ 041c
नैव धर्मी न चाधर्मी द्वन्द्वातीतो विमत्सरः । 042a
ज्ञानतृप्तः सुखं शेते ह्यमृतात्मा न संशयः ॥ 042c
एवमेव जगत्सृष्टिं कुरुते मायया प्रभुः । 043a
न जानाति विमूढात्मा कारणं चात्मनो ह्यसौ ॥ 043c
ध्याता द्रष्टा तथा मन्ता बोद्धा दृष्टान्स एव सः । 044a
को विद्वान्परमात्मानमनन्तं लोकभावनम् । 044c
यत्तु शक्यं मया प्रोक्तं गच्छध्वं मुनिपुङ्गवाः ॥ 044e
भीष्म उवाच 045
एवं प्रणम्य विप्रेन्द्रा ज्ञानसागरसम्भवम् । 045a
सनत्कुमारं सन्दृष्ट्वा जग्मुस्ते रुचिरं पुनः ॥ 045c
तस्मात्त्वमपि कौन्तेय ज्ञानयोगपरो भव । 046a
ज्ञानमेवं महाराज सर्वदुःखविनाशनम् ॥ 046c
इदं महादुःखसमाकराणां नृणां परित्राणविनिर्मितं पुरा । 047a
पुराणपुंसा ऋषिणा महात्मना महामुनीनां प्रवरेण तद्ध्रुवम् ॥' 047c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ 227 ॥

  • 227,228, एतदध्यायद्वयं ध. पुस्तक एव दृश्यते ।