अध्यायः 226

भीष्मेण युधिष्ठिरम् प्रति तपउपवासादिनिरूपणम् ॥ 1 ॥ युधिष्ठिर उवाच 001
द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः । 001a
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥ 001c
भीष्म उवाच 002
अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः । 002a
वेदोक्तेषु च भुञ्जाना व्रतलुब्धा युधिष्ठिर ॥ 002c
युधिष्ठिर उवाच 003
यदिदं तप इत्याहुरुपवासं पृथग्जनाः । 003a
एतत्तपो महाराज उताहो किं तपो भवेत् ॥ 003c
भीष्म उवाच 004
मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः । 004a
आत्मतन्त्रोपघातस्तु न तपस्तत्सतां मतम् ॥ 004c
त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम् । 005a
सदोपवासी स भवेद्ब्रह्मचारी सदा भवेत् ॥ 005c
मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भवेत् । 006a
कुटुम्बिको धर्मपरः सदाऽस्वप्नश्च भारत ॥ 006c
अमांसादी सदा च स्यात्पवित्री च सदा भवेत् । 007a
अमृताशी सदा च स्यान्न च स्याद्विषभोजनः ॥ 007c
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः । 008a
[श्रद्दधानः सदा च स्याद्देवताद्विजपूजकः] ॥ 008c
युधिष्ठिर उवाच 009
कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत् । 009a
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः ॥ 009c
भीष्म उवाच 010
अन्तरा प्रातराशं च सायमाशं तथैव च । 010a
सदोपवासी स भवेद्यो न भुङ्क्तेऽन्तरा पुनः ॥ 010c
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः । 011a
ऋतवादी भवेन्नित्यं ज्ञाननित्यश्च यो नरः ॥ 011c
न भक्षयेद्वृथा मांसममांसाशी भवत्यपि । 012a
दाननित्यः पवित्री स्यादस्वप्नश्च दिवाऽस्वपन् ॥ 012c
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा नरः । 013a
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥ 013c
अभुक्तवत्सु भुञ्जानो विषमश्नाति वै द्विजः । 014a
अदत्त्वा योऽतिथिभ्योऽन्नं न भुङ्क्ते सोतिथिप्रियः || 014c
'अभुक्त्वा दैवतेभ्यश्च यो न भुङ्क्ते सदैवतम् |' 015a
देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह । 015c
अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम् ॥ 015e
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह । 016a
उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः ॥ 016c
देवताभिश्च ये सार्धं पितृभ्यश्चोपभुञ्जते । 017a
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ 017c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥

12-226-1 द्विजातयस्त्रैवर्णिकाः । हविर्देवताशेषम् ॥ 12-226-2 भुज्जाना अभोज्यं मांसादीति शेषः । कार्यकारिणः कामाचारवन्तः । इहैव पतिता इत्यर्थः । व्रतलुब्धा दीक्षोक्तफलानुरागिणः स्वर्गं प्राप्य पतिष्यन्तीत्यर्थः ॥ 12-226-4 आत्मतन्त्रमात्मविद्या तस्या उपघातो विघ्नः ॥ 12-226-5 भूतभयङ्करकर्मसन्न्यासस्त्यागः । सन्नतिर्भूताराधनम् ॥ 12-226-7 अमृताशी सदा च स्याद्देवतातिथिपूजकः इति झ. ड. पाठः ॥ 12-226-9 अतिथिर्वैश्वदेवान्ते प्राप्तः ॥ 12-226-12 वृथा देवपितृशेषं विना ॥ 12-226-14 अभुक्तवत्सु नाश्नानः सततं यस्तु वैद्विजः । अभोजनेन तेनास्य जितः स्वर्गो भवत्युतेति झ. पाठः ॥