अध्यायः 225
भीष्मेण युधिष्ठिरम् प्रति दान्तलक्षणकथनपूर्वकं दमप्रशंसनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुयात् । 001a
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत ॥ 001c
भीष्म उवाच 002
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः । 002a
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः ॥ 002c
नादान्तस्य क्रियासिद्धिर्यथावदुपपद्यते । 003a
क्रिया तपश्च देवाश्च दमे सर्वं प्रतिष्ठितम् ॥ 003c
दमस्तेजो वर्धयति पवित्रं दम उच्यते । 004a
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत् ॥ 004c
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते । 005a
सुखं लोके विपर्येति मनश्चास्य प्रसीदति ॥ 005c
तेजो दमेन ध्रियते तत्र तीक्ष्णोऽधिगच्छति । 006a
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति ॥ 006c
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् । 007a
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा ॥ 007c
आश्रमेषु च सर्वेषु दम एव विशिष्यते । 008a
'धर्मः संरक्ष्यते तैस्तु यतस्ते धर्मसेतवः ।' 008c
यच्च तेषु फलं धर्म्यं भूयो दान्ते तदुच्यते ॥ 008e
तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः । 009a
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ॥ 009c
अक्रोध आर्जवं नित्यं नातिवादोऽभिमानिता । 010a
गुरुपूजाऽनसूया च दया भूतेष्वपैशुनम् ॥ 010c
जनवादमृषावादस्तुतिनिन्दाविवर्जनम् । 011a
साधुकामांश्च स्पृहयेन्नायतिं प्रत्ययेषु च ॥ 011c
अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः । 012a
सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मवाञ्शुचिः ॥ 012c
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति । 013a
दुर्गमं सर्वभूतानां प्रापयन्मोदते सुखी ॥ 013c
सर्वभूतहिते युक्तो न स्म यो द्विषते जनम् । 014a
महाह्रद इवाक्षोभ्यः प्राज्ञस्तृप्तः प्रसीदति ॥ 014c
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः । 015a
नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान् ॥ 015c
न हृष्यति महत्यर्थे व्यसने च न शोचति । 016a
सदाऽपरिमितप्रज्ञः स दान्तो द्विज उच्यते ॥ 016c
कर्मभिः श्रुतसम्पन्नः सद्भिराचरितः शुचिः । 017a
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महाफलम् ॥ 017c
अनसूयाऽक्षमा शान्तिः सन्तोषः प्रियवादिता । 018a
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम् ॥ 018c
कामक्रोधौ च लोभश्च परस्येर्ष्या विकत्थना । 019a
'अतुष्टिरनृतं मोह एष मार्गो दुरात्मनाम् ॥' 019c
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः । 020a
विक्रम्य घोरे तमसि ब्राह्मणः संशितव्रतः । 020c
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् ॥ 020e
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥ 225 ॥
12-225-2 श्रुतिसमाधयो वेदद्रष्टारः ॥ 12-225-3 तपश्च सत्यं चेति झ. पाठः ॥ 12-225-6 तीक्ष्णो राजसः । अमित्रान् कामादीन् ॥ 12-225-7 क्रव्याद्भ्यो व्याघ्रादिभ्यो मांसभक्षकेभ्यः ॥ 12-225-8 भूयोऽधिकम् ॥ 12-225-9 समुदेत्यस्मादिति समुदयो हेतुः । अकार्पण्यमदीनत्वम् । असंरम्भोऽभिनिवेशाभावः ॥ 12-225-11 प्रत्ययेषु सुखदुःखाद्यनुभवेषु । आयतिमुत्तरकालम् । न स्पृहयेत् । प्राप्तं सुखादिकं भुञ्जीत नतु कालान्तरीयौ तज्जौ हर्षविषादौ चिन्तनीयावित्यर्थः ॥ 12-225-12 सूपचारः शाठ्यवर्जितादरः ॥ 12-225-13 दुर्गमं दुष्काले दुर्लभमन्नादि प्रापयन् दयावानित्यर्थः ॥ 12-225-15 दान्तो भवति धर्मवित् इति ध. पाठः ॥ 12-225-19 डम्भो दर्पश्च मानश्च नैष मार्गो महात्मनाम् इति ट. ड. पाठः ॥