अध्यायः 224

भीष्मेण युधिष्ठिरम् प्रति गार्हस्थ्ये स्थितस्यापि भगवदुपासकस्य ज्ञानिनः पुरुषार्थसिद्धौ दृष्टान्ततया सुवर्चलाश्वेतकेतूपाख्यानकथनम् ॥ 1 ॥ 'युधिष्ठिर उवाच 001
अस्ति कश्चिद्यदि विभो सदारो नियतो गृहे । 001a
अतीतसर्वसंसारः सर्वद्वन्द्वविवर्जितः । 001c
तं मे ब्रूहि महाप्राज्ञ दुर्लभः पुरुषो महान् ॥ 001e
भीष्म उवाच 002
शृणु राजन्यथावृत्तं यन्मां त्वं पृष्टवानसि । 002a
इतिहासमिमं शुद्धं संसारभयभेषजम् ॥ 002c
देवलो नाम विप्रर्षिः सर्वशास्त्रार्थकोविदः । 003a
क्रियावान्धार्मिको नित्यं देवब्राह्मणपूजकः ॥ 003c
सुता सुवर्चला नाम तस्य कल्याणलक्षणा । 004a
नातिह्रस्वा नातिकृशा नातिदीर्घा यशस्विनी । 004c
प्रदानसमयं प्राप्ता पिता तस्य ह्यचिन्तयत् ॥ 004e
अस्याः पतिः कुतो वेति ब्राह्मणः श्रोत्रियः परः । 005a
विद्वान्विप्रो ह्यकुटुम्बः प्रियवादी महातपाः ॥ 005c
इत्येवं चिन्तयानं तं रहस्याह सुवर्चला ॥ 006ac
अन्धाय मां महाप्राज्ञ देह्यनन्धाय वै पितः । 007a
एवं स्मर सदा विद्वन्ममेदं प्रार्थितं मुने ॥ 007c
पितोवाच 008
न शक्यं प्रार्थितं वत्से त्वयाऽद्य प्रतिभाति मे । 008a
अन्धतानन्धता चेति विकारो मम जायते ॥ 008c
उन्मत्तेवाशुभं वाक्यं भाषसे शुभलोचने ॥ 009ac
सुवर्चलोवाच 010
नाहमुन्मत्तभूताऽद्य बुद्धिपूर्वं ब्रवीमि ते । 010a
विद्यते चेत्पतिस्तादृक्स मां भरति वेदवित् ॥ 010c
येभ्यस्त्वं मन्यसे दातुं मामिहानय तान्द्विजान् । 011a
तादृशं तं पतिं तेषु वरयिष्ये यथातथम् ॥ 011c
भीष्म उवाच 012
तथेति चोक्त्वा तां कन्यामृषिः शिष्यानुवाच ह । 012a
ब्राह्मणान्वेदसम्पन्नान्योनिगोत्रविशोधितान् ॥ 012c
मातृतः पितृतः शुद्धाञ्शुद्धानाचारतः शुभान् । 013a
अरोगान्बुद्धिसम्पन्नाञ्शीलसत्वगुणान्वितान् ॥ 013c
असङ्कीर्णांश्च गोत्रेषु वेदव्रतसमन्वितान् । 014a
ब्राह्मणान्स्नातकाञ्शीघ्रं मातापितृसमन्वितान् । 014c
निवेष्टुकामान्कन्यां मे दृष्ट्वाऽऽनयत शिष्यकाः ॥ 014e
तच्छ्रुत्वा त्वरिताः शिष्या ह्याश्रमेषु ततस्ततः । 015a
ग्रामेषु च ततो गत्वा ब्राह्मणेभ्यो न्यवेदयन् ॥ 015c
ऋषेः प्रभावं मत्वा ते कन्यायाश्च द्विजोत्तमाः । 016a
अनेकमुनयो राजन्सम्प्राप्ता देवलाश्रमम् ॥ 016c
अनुमान्य यथान्यायं मुनीन्मुनिकुमारकान् । 017a
अभ्यर्च्य विधिवत्तत्र कन्यामाह पिता महान् ॥ 017c
एतेऽपि मुनयो वत्से स्वपुत्रैकमता इह । 018a
वेदवेदाङ्गसम्पन्नाः कुलीनाः शीलसम्मताः ॥ 018c
येऽमी तेषु वरं भद्रे त्वमिच्छसि महाव्रतम् । 019a
तं कुमारं वृणीष्वाद्य तस्मै दास्याम्यहं शुभे ॥ 019c
तथेति चोक्त्वा कल्याणी तप्तहेमनिभा तदा । 020a
सर्वलक्षणसम्पन्ना वाक्यमाह यशस्विनी ॥ 020c
विप्राणां समितीर्दृष्ट्वा प्रणिपत्य तपोधनान् । 021a
यद्यस्ति समितौ विप्रो ह्यन्धोऽनन्धः स मे वरः ॥ 021c
तच्छ्रुत्वा मुनयस्तत्र वीक्षमाणाः परस्परम् । 022a
नोचुर्विप्रा महाभागाः कन्यां मत्वा ह्यवेदिकाम् ॥ 022c
कुत्सयित्वा मुनिं तत्र मनसा मुनिसत्तमाः । 023a
यथागतं ययुः क्रुद्धा नानादेशनिवासिनः ॥ 023c
कन्या च संस्थिता तत्र पितृवेश्मनि भामिनी ॥ 024ac
ततः कदाचिद्ब्रह्मण्यो विद्वान्न्यायविशारदः । 025a
ऊहापोहविधानज्ञो ब्रह्मचर्यसमन्वितः ॥ 025c
वेदविद्वेदतत्वज्ञः क्रियाकल्पविशारदः । 026a
आत्मतत्वविभागज्ञः पितृमान्गुणसागरः ॥ 026c
श्वेतकेतुरिति ख्यातः श्रुत्वा वृत्तान्तमादरात् । 027a
कन्यार्थं देवलं चापि शीघ्रं तत्रागतोऽभवत् ॥ 027c
उद्दालकसुतं दृष्ट्वा श्वेतकेतुं महाव्रतम् । 028a
यथान्यायं च सम्पूज्य देवलः प्रत्यभाषत ॥ 028c
कन्ये एष महाभागे प्राप्तो ऋषिकुमारकः । 029a
वरयैनं महाप्राज्ञं वेदवेदाङ्गपारगम् ॥ 029c
तच्छ्रुत्वा कुपिता कन्या ऋषिपुत्रमुदैक्षत । 030a
तां कन्यामाह विप्रर्षिः सोऽहं भद्रे समागतः ॥ 030c
अन्धोऽहमत्र तत्वं हि तथा मन्ये च सर्वदा । 031a
विशालनयनं विद्धि तथा मां हीनसंशयम् । 031c
वृणीष्व मां वरारोहे भजे च त्वामनिन्दिते ॥ 031e
येनेदं वीक्षते नित्यं वृणोति स्पृशतेऽथवा । 032a
घ्रायते वक्ति सततं येनेदं सार्यते पुनः ॥ 032c
येनेदं मन्यते तत्वं येन बुध्यति वा पुनः । 033a
न चक्षुर्विद्यते ह्येतत्स वै भूतान्ध उच्यते ॥ 033c
यस्मिन्प्रवर्तते चेदं पश्यञ्छृण्वन्स्पृशन्नपि । 034a
जिघ्रंश्च रसयंस्तद्वद्वर्तते येन चक्षुषा ॥ 034c
तन्मे नास्ति ततो ह्यन्धो वृणु भद्रेऽद्य मामतः । 035a
लोकदृष्ट्या करोमीह नित्यनैमित्तिकादिकम् ॥ 035c
आत्मदृष्ट्या च तत्सर्वं विलिप्यामि च नित्यशः । 036a
स्थितोऽहं निर्भरः शान्तः कार्यकारणभावनः ॥ 036c
अविद्यया तरन्मृत्युं विद्यया तं तथाऽमृतम् । 037a
यथाप्राप्तं तु सन्दृश्य वसामीह विमत्सरः । 037c
क्रीते व्यवसितं भद्रे भर्ताऽहं ते वृणीष्व माम् ॥ 037e
भीष्म उवाच 038
ततः सुवर्चला दृष्ट्वा प्राह तं द्विजसत्तमम् । 038a
मनसाऽसि वृतो विद्वञ्शेषकर्ता पिता मम । 038c
वृणीष्व पितरं मह्यमेष वेदविधिक्रमः ॥ 038e
तद्विज्ञाय पिता तस्या देवलो मुनिसत्तमः । 039a
श्वेतकेतुं च सम्पूज्य तथैवोद्दालकेन तम् ॥ 039c
मुनीनामग्रतः कन्यां प्रददौ जलपूर्वकम् । 040a
उदाहरन्ति वै तत्र श्वेतकेतुं निरीक्ष्य तम् ॥ 040c
हृत्पुण्डरीकनिलयः सर्वभूतात्मको हरिः । 041a
श्वेतकेतुस्वरूपेण स्थितोऽसौ मधुसूदनः ॥ 041c
प्रीयतां माधवो देवः पत्नी चेयं सुता मम । 042a
प्रतिपादयामि ते कन्यां सहधर्मचरीं शुभाम् । 042c
इत्युक्त्वा प्रददौ तस्मै देवलो मुनिपुङ्गवः ॥ 042e
प्रतिगृह्य च तां कन्यां श्वेतकेतुर्महायशाः । 043a
उपयम्य यथान्यायमत्र कृत्वा यथाविधि ॥ 043c
समाप्य तन्त्रं मुनिभिर्वैवाहिकमनुत्तमम् । 044a
स गार्हस्थ्ये वसन्धीमान्भार्यां तामिदमब्रवीत् ॥ 044c
यानि चोक्तानि वेदेषु तत्सर्वं कुरु शोभने । 045a
मया सह यथान्यायं सहधर्मचरी मम ॥ 045c
अहमित्येव भावेन स्थितोऽहं त्वं तथैव च । 046a
तस्मात्कर्माणि कुर्वीथाः कुर्यां ते च ततः परम् ॥ 046c
न ममेति च भावेन ज्ञानाग्निनिलयेन च । 047a
अनन्तरं तथा कुर्यास्तानि कर्माणि भस्मसात् ॥ 047c
एवं त्वया च कर्तव्यं सर्वदा दुर्भगा मया । 048a
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । 048c
तस्माल्लोकस्य सिद्ध्यर्थं कर्तव्यं चात्मसिद्धये ॥ 048e
उक्त्वैवं स महाप्राज्ञः सर्वज्ञानैकभाजनः । 049a
पुत्रानुत्पाद्य तस्यां च यज्ञैः सन्तर्प्य देवताः ॥ 049c
आत्मयोगपरो नित्यं निर्द्वन्द्वो निष्परिग्रहः । 050a
भार्यां तां सदृशीं प्राप्य बुद्धिं क्षेत्रज्ञयोरिव ॥ 050c
लोकमन्यमनुप्राप्तौ भार्या भर्ता तथैव च । 051a
साक्षिभूतौ जगत्यस्मिंश्चरमाणौ मुदाऽन्वितौ ॥ 051c
ततः कदाचिद्भर्तारं श्वेतकेतुं सुवर्चला । 052a
पप्रच्छ को भवानत्र ब्रूहि मे तद्द्विजोत्तम ॥ 052c
तामाह भगवान्वाग्मी तया ज्ञातो न संशयः । 053a
द्विजोत्तमेति मामुक्त्वा पुनः कमनुपृच्छसि ॥ 053c
सा तमाह महात्मानं पृच्छामि हृदि शायिनम् । 054a
तच्छ्रुत्वा प्रत्युवाचैनां स न वक्ष्यति भामिनि ॥ 054c
नामगोत्रसमायुक्तमात्मानं मन्यसे यदि । 055a
तन्मिथ्यागोत्रसद्भावे वर्तते देहबन्धनम् ॥ 055c
अहमित्येष भावोऽत्र त्वयि चापि समाहितः । 056a
त्वमप्यहमहं सर्वमहमित्येव वर्तते । 056c
नात्र तत्परमार्थं वै किमर्थमनुपृच्छसि ॥ 056e
ततः प्रहस्य सा हृष्टा भर्तारं धर्मचारिणी । 057a
उवाच वचनं काले स्मयमाना तदा नृप ॥ 057c
किमनेकप्रकारेण विरोधेन प्रयोजनम् । 058a
क्रियाकलापैर्ब्रह्मर्षे ज्ञाननष्टोऽसि सर्वदा । 058c
तन्मे ब्रूहि महाप्राज्ञ यथाऽहं त्वामनुव्रता ॥ 058e
श्वेतकेतुरुवाच 059
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । 059a
वर्तते तेन लोकोऽयं सङ्कीर्णश्च भविष्यति ॥ 059c
सङ्कीर्णे च तथा धर्मे वर्णः सङ्करमेति च । 060a
सङ्करे च प्रवृत्ते तु मात्स्यो न्यायः प्रवर्तते ॥ 060c
तदनिष्टं हरेर्भद्रे धातुरस्य महात्मनः । 061a
परमेश्वरसङ्क्रीडा लोकसृष्टिरियं शुभे ॥ 061c
यावत्पांसव उद्दिष्टास्तावत्योऽस्य विभूतयः । 062a
तावत्यश्चैव मायास्तु तावत्योऽस्याश्च शक्तयः ॥ 062c
एवं सुगह्वरे युक्तो यत्र मे तद्भवाभवम् । 063a
छित्त्वा ज्ञानासिना गच्छेत्स विद्वान्स च मे प्रियः । 063c
सोऽहमेव न सन्देहः प्रतिज्ञा इति तस्य वै ॥ 063e
ये मूढास्ते दुरात्मानो धर्मसङ्करकारकाः । 064a
मर्यादाभेदका नीचा नरके यान्ति जन्तवः ॥ 064c
आसुरीं योनिमापन्ना इति देवानुशासनम् ॥ 065ac
भगवत्या तथा लोके रक्षितव्यं न संशयः । 066a
मर्यादालोकरक्षार्थमेवमस्ति तथा स्थितः ॥ 066c
सुवर्चलोवाच 067
शब्दः कोत्र इति ख्यातस्तथाऽर्थं च महामुने । 067a
आकृत्या पतयो ब्रूहि लक्षणेन पृथक्पृथक् ॥ 067c
श्वेतकेतुरुवाच 068
व्यत्ययेन च वर्णानां परिवादकृतो हि यः । 068a
स शब्द इति विज्ञेयस्तन्निपातोऽर्थ उच्यते ॥ 068c
सुवर्चलोवाच 069
शब्दार्थयोर्हि सम्बन्धस्त्वनयोरस्ति वा न वा । 069a
तन्मे ब्रूहि यथातत्वं शब्दस्यानेऽर्थ एव चेत् ॥ 069c
श्वेतकेतुरुवाच 070
शब्दार्थयोर्न चैवास्ति सम्बन्धोऽत्यन्त एव हि । 070a
पुष्करे च यथा तोयं तथाऽस्मीति च वेत्थ तत् ॥ 070c
सुवर्चलोवाच 071
अर्थे स्थितिर्हि शब्दस्य नान्यथा च स्थितिर्भवेत् । 071a
विद्यते चेन्महाप्राज्ञ विनाऽर्थं ब्रूहि सत्तम ॥ 071c
श्वेतकेतुरुवाच 072
ससंसर्गोऽतिमात्रस्तु वाचकत्वेन वर्तते । 072a
अस्ति चेद्वर्तते नित्यं विकारोच्चारणेन वै ॥ 072c
सुवर्चलोवाच 073
शब्दस्थानोत्र इत्युक्तस्तथाऽर्थ इति मे कृतः । 073a
अर्थः स्थितो न तिष्ठेच्च विरूढमिह भाषितम् ॥ 073c
श्वेतकेतुरुवाच 074
न विकूलोऽत्र कथितो नाकाशं हि विना जगत् । 074a
सम्बन्धस्तत्र नास्त्येव तद्वदित्येष मन्यताम् ॥ 074c
सुवर्चलोवाच 075
सदाऽहङ्कारशब्दोऽयं व्यक्तमात्मनि संश्रितः । 075a
न वाचस्तत्र वर्तन्ते इति मिथ्या भविष्यति ॥ 075c
श्वेतकेतुरुवाच 076
अहंशब्दो ह्यहम्भावो नात्मभावे शुभव्रते । 076a
न वर्तन्ते परेऽचिन्त्ये वाचः सगुणलक्षणाः ॥ 076c
सुवर्चलोवाच 077
अहं गात्रैकतः श्यामा भवानपि तथैव च । 077a
तन्मे ब्रूहि यथान्यायमेवं चेन्मुनिसत्तम ॥ 077c
श्वेतकेतुरुवाच 078
मृण्मये हि घटे भावस्तादृग्भाव इहेष्यते । 078a
अयं भावः परेऽचिन्त्ये ह्यात्मभावो यथाच तत् ॥ 078c
अहं त्वमेतदित्येव परे सङ्कल्पना मया । 079a
तस्माद्वाचो न वर्तन्त इति नैव विरुध्यते ॥ 079c
तस्माद्वामेन वर्तन्ते मनसा भीरु सर्वशः । 080a
यथाऽऽकाशगतं विश्वं संसक्तमिव लक्ष्यते ॥ 080c
संसर्गे सति स्बन्धात्तद्विकारं भविष्यति । 081a
अनाकाशगतं सर्वं विकारे च सदा गतम् ॥ 081c
तद्ब्रह्म परमं शुद्धमनौपम्यं न शक्यते । 082a
न दृश्यते तथा तच्च दृश्यते च मतिर्मम ॥ 082c
सुवर्चलोवाच 083
निर्विकारं ह्यमूर्तिं च निरयं सर्वगं तथा । 083a
दृश्यते च वियन्नित्यं दृगात्मा तेन दृश्यते ॥ 083c
श्वेतकेतुरुवाच 084
त्वचा स्पृशति वै वायुमाकाशस्थं पुनः पुनः । 084a
तत्स्थं गन्धं तथाघ्राति ज्योतिः पश्यति चक्षुषा ॥ 084c
तमोरश्मिगणश्चैव मेघजालं तथैव च । 085a
वर्षं तारागणं चैव नाकाशं दृश्यते पुनः ॥ 085c
आकाशस्याप्यथाकाशं सद्रूपमिति निश्चितम् । 086a
तदर्थे कल्पिता ह्येते तत्सत्यो विष्णुरेव च । 086c
यानि नामानि गौणानि ह्युपचारात्परात्मनि ॥ 086e
न चक्षुषा न मनसा न चान्येन परो विभुः । 087a
चिन्त्यते सूक्ष्मया बुद्ध्या वाचा वक्तुं न शक्यते ॥ 087c
एतत्प्रपञ्चमखिलं तस्मिन्सर्वं प्रतिष्ठितम् । 088a
महाघटोऽल्पकश्चैव यथा मह्यां प्रतिष्ठितौ ॥ 088c
न च स्त्री न पुमांश्चैव यथैव न नपुंसकः । 089a
केवलज्ञानमात्रं तत्तस्मिन्सर्वं प्रतिष्ठितम् ॥ 089c
भूमिसंस्थानयोगेन वस्तुसंस्थानयोगतः । 090a
रसभेदा यथा तोये प्रकृत्यामात्मनस्तथा ॥ 090c
तद्वाक्यस्मरणान्नित्यं तृप्तिं वारि पिबन्निव । 091a
प्राप्नोति ज्ञानमखिलं तेन तत्सुखमेधते ॥ 091c
सुवर्चलोवाच 092
अनेन साध्यं किं स्याद्वै शब्देनेति मतिर्मम । 092a
वेदगम्यः परोऽचिन्त्य इति पौराणिका विदुः ॥ 092c
निरर्थको यथा लोके तद्वत्स्यादिति मे मतिः । 093a
निरीक्ष्यैवं यथान्यायं वक्तुमर्हसि मेऽनघ ॥ 093c
श्वेतकेतुरुवाच 094
वेदगम्यं परं शुद्धमिति सत्या परा श्रुतिः । 094a
व्याहत्या नैतदित्याह व्युपलिङ्गे च वर्तते ॥ 094c
निरर्थको न चैवास्ति शब्दो लौकिक उत्तमे । 095a
अनन्वयास्तथा शब्दा निरर्था इति लौकिकैः ॥ 095c
गृह्यन्ते तद्वदित्येव न वर्तन्ते परात्मनि । 096a
अगोचरत्वं वचसां युक्तमेवं तथा शुभे ॥ 096c
साधनस्योपदेशाच्च ह्युपायस्य च सूचनात् । 097a
उपलक्षणयोगेन व्यावृत्त्या च प्रदर्शनात् । 097c
वेदगम्यः परः शुद्ध इति मे धीयते मतिः ॥ 097e
अध्यात्मध्यानसम्भूतमभूतं—– वत्स्फुटम् । 098a
ज्ञानं विद्धि शुभाचारे तेन यान्ति परां गतिम् ॥ 098c
यदि मे व्याहृतं गुह्यं श्रुतं न तु त्वया शुभे । 099a
तथ्यमित्येव वा शुद्धे ज्ञानं ज्ञानविलोचने ॥ 099c
नानारूपवदस्यैवमैश्वर्यं दृश्यते शुभे । 100a
न वायुस्तं न सूर्यस्तं नाग्निस्तत्तत्परं पदम् ॥ 100c
अनेन पूर्णमेतद्धि हृदि भूतमिहेष्यते । 101a
एतावदात्मविज्ञानमेतावद्यदहं स्मृतम् । 101c
आवयोर्न च सत्वे वै तस्मादज्ञानबन्धनम् ॥ 101e
भीष्म उवाच 102
एवं सुवर्चला हृष्टा प्रोक्ता भर्त्रा यथार्थवत् । 102a
परिचर्यमाणा ह्यनिशं तत्वबुद्धिसमन्विता ॥ 102c
भर्ता च तामनुप्रेक्ष्य नित्यनैमित्तिकान्वितः । 103a
परमात्मनि गोविन्दे वासुदेवे महात्मनि ॥ 103c
समाधाय च कर्माणि तन्मयत्वेन भावितः । 104a
कालेन महता राजन्प्राप्नोति परमां गतिम् ॥ 104c
एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि । 105a
गार्हस्थ्यं च समास्थाय गतौ जायापती परम् ॥' 105c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥