अध्यायः 223
भीष्मेण युधिष्ठिरम् प्रति जनकोपाख्यानकथनम् ॥ 1 ॥
001 '* युधिष्ठिर उवाच
001a किं कारणं महाप्राज्ञ दह्यमानश्च मैथिलः ।
001c मिथिलां नेह धर्मात्मा प्राह वीक्ष्य विदाहिताम् ॥
002 भीष्म उवाच
002a श्रूयतां नृपशार्दूल यदर्थं दीपिता पुरा ।
002c वह्निना दीपिता सा तु तन्मे शृणु महामते ॥
003a जनको जनदेवस्तु कर्माण्याध्याय चात्मनि ।
003c सर्वभावमनुप्राप्य भावेन विचचार सः ॥
004a यजन्ददंस्तथा जुह्वन्पालयन्पृथिवीमिमाम् ।
004c अध्यात्मविन्महाप्राज्ञस्तन्मयत्वेन निष्ठितः ॥
005a स तस्य हृदि सङ्कल्पं ज्ञातुमैच्छत्स्वयं प्रभुः ।
005c सर्वलोकाधिपस्तत्र द्विजरूपेण संयुतः ॥
006a मिथिलायां महाबुद्धिर्व्यलीकं किञ्चिदाचरन् ।
006c स गृहीत्वा द्विजश्रेष्ठैर्नृपाय प्रतिवेदितः ॥
007a अपराधं समुद्दिश्य तं राजा प्रत्यभाषत ।
007c न त्वां ब्राह्मण दण्डेन नियोक्ष्यामि कथञ्चन ॥
008a मम राज्याद्विनिर्गच्छ यावत्सीमा भुवो मम ।
008c तच्छ्रुत्वा ब्राह्मणो गत्वा राजानं प्रत्युवाच ह ॥
009a करिष्ये वचनं राजन्ब्रवीहि मम जानतः ।
009c का सीमा तव भूमेस्तु ब्रूहि धर्मं ममाद्य वै ॥
010a तच्छ्रुत्वा मैथिलो राजा लज्जयावनताननः ।
010c नोवाच वचनं विप्रं तत्वबुद्ध्या समीक्ष्य तत् ॥
011a पुनःपुनश्च तं विप्रश्चोदयामास सत्वरम् ।
011c ब्रूहि राजेन्द्र गच्छामि तव राज्याद्विवासितः ॥
012a ततो नृपो विचार्यैवमाह ब्राह्मणपुङ्गवम् ।
012c आवासो वा न मेऽस्त्यत्र सर्वा वा पृथिवी मम ।
012e गच्छ वा तिष्ठ वा ब्रह्मन्निति मे निश्चिता मतिः ॥
013a इत्युक्तः स तथा तेन मैथिलेन द्विजोत्तमः ।
013c अब्रवीत्तं महात्मानं राजानं मन्त्रिभिर्वृतम् ॥
014a त्वमेवं पद्मनाभस्य नित्यं पक्षपदाहितः ।
014c अहो सिद्धार्थरूपोऽसि गमिष्ये स्वस्ति तेऽस्तु वै ॥
015a इत्युक्त्वा प्रययौ विप्रस्तज्जिज्ञासुर्द्विजोत्तमान् ।
015c अदहच्चाग्निना तस्य मिथिलां भगवान्स्वयम् ॥
016a प्रदीप्यमानां मिथिलां दृष्ट्वा राजा न कम्पितः ।
016c जनैः स परिपृष्टस्तु वाक्यमेतदुवाच ह ॥
017a अनन्तं बत मे वित्तं भाव्यं मे नास्ति किञ्चन ।
017c मिथिलायां प्रदीप्तायां न मे किञ्चन दह्यते ॥
018a तदस्य भाषमाणस्य श्रुत्वा श्रुत्वा हृदि स्थितम् ।
पुनः सञ्जीवयामास मिथिलां तां द्विजोत्तमः ॥ 018c
आत्मानं दर्शयामास वरं चास्मै ददौ पुनः । 019a
धर्मे तिष्ठतु सद्भावो बुद्धिस्तेऽर्थे नराधिप ॥ 019c
सत्ये तिष्ठस्व निर्विण्णः स्वस्ति तेऽस्तु व्रजाम्यहम् । 020a
इत्युक्त्वा भगवांश्चैनं तत्रैवान्तरधीयत । 020c
एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि ॥' 020e
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥
- 223, 223 एतदध्यायद्वयं ध. पुस्तकएव दृश्यते ।