अध्यायः 222

भीष्मेण युधिष्ठिरम् प्रति जनकाय पञ्चशिखोक्तसाम्परायिकभावादिप्रतिपादकवाक्यानुवादः ॥ 1 ॥ भीष्म उवाच 001
जनको नरदेवस्तु ज्ञापितः परमर्षिणा । 001a
पुनरेवानुपप्रच्छ साम्पराये भवाभवौ ॥ 001c
जनक उवाच 002
भगवन्यदि न प्रेत्य सञ्ज्ञा भवति कस्यचित् । 002a
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ 002c
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम । 003a
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥ 003c
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु । 004a
कस्मै क्रियेत तत्वेन निश्चयः कोऽत्र तत्त्वतः ॥ 004c
भीष्म उवाच 005
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् । 005a
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥ 005c
उच्छेदनिष्ठा नेहास्ति भा निष्ठा न विद्यते । 006a
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् । 006c
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥ 006e
धावतः पञ्च तेषां तु खं वायुर्ज्योतिरम्बु भूः । 007a
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥ 007c
आकाशो वायुरूष्मा च स्नेहो यश्चापि पार्थिवः । 008a
एष पञ्चसमाहारः शरीरमपि नैकधा ॥ 008c
'अहं वाच्यं द्विजानां यद्विशिष्टं बुद्धिरूपवत् । 009a
वाचामगोचरं नित्यं ज्ञेयमेवं भविष्यति ॥ 009c
ज्ञानं ज्ञेयं तथा ज्ञानं त्रिविधं ज्ञानमुच्यते ।' 010a
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसङ्ग्रहः ॥ 010c
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः । 011a
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥ 011c
'प्राणादयस्तथा स्पर्शा न सम्बाधगतास्तथा । 012a
पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान् ॥ 012c
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च । 013a
इन्द्रियाणीति पञ्चैते चित्तपूर्वगमा गुणाः ॥ 013c
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा । 014a
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥ 014c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्तयः । 015a
एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये ॥ 015c
तेषु कर्मविसर्गश्च सर्वतत्वार्थनिश्चयः । 016a
तमाहुः परमं शुक्रं 'पारे च रजसः प्रभुम् ॥ 016c
विरागाद्वर्तते तस्मिन्मनो रजसि नित्यगम् । 017a
तस्मिन्प्रसन्ने सम्पश्येद्' बुद्धिरित्यव्ययं महत् ॥ 017c
इमं गुणसमाहारमात्मभावेन पश्यतः । 018a
असम्यग्दर्शिनो दुःखमनन्तं नोपशाम्यति ॥ 018c
'तस्मादेतेषु मेधावी न प्रसज्येत बुद्धिमान् ।' 019a
अनात्मेति च यद्दृष्टं तन्नाहं न ममेत्यपि । 019c
वर्तते किमधिष्ठाना प्रसक्ता दुःखसन्ततिः ॥ 019e
यत्र सम्यङ्मनो नाम त्यागमात्रमनुत्तमम् । 020a
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥ 020c
त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम् । 021a
नित्यदुःखविनीतानां श्लेषो दुःखवहो हतः ॥ 021c
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि । 022a
सुखत्यागे तपोयोगं सर्वत्यागे समापना ॥ 022c
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः । 023a
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत् ॥ 023c
'शेते जरामृत्युभयैर्विमुक्तः क्षीणे पुण्ये विगते च पापे । 024a
तपोनिमित्ते विगते च निष्ठे फले यथाऽऽकाशमलिङ्ग एव ॥' 024c
पञ्चज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि । 025a
मनःषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु ॥ 025c
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् । 026a
प्रजनानन्दयोः शेफो निसर्गे पायुरिन्द्रियम् ॥ 026c
वाक्च शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः । 027a
एवमेकादशैतानि बुद्ध्या तूपहतं मनः ॥ 027c
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसङ्ग्रहे । 028a
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥ 028c
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये । 029a
येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ॥ 029c
सात्विको राजसश्चापि तामसश्चापि ते त्रयः । 030a
त्रिविधा वेदना येषु प्रसूताः सर्वसाधनाः ॥ 030c
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता । 031a
अकुतश्चित्कुतश्चिद्वा चिन्तितः सात्विको गुणः ॥ 031c
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा । 032a
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥ 032c
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता । 033a
कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः ॥ 033c
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् । 034a
वर्तते सात्विको भाव इत्यपेक्षेत तत्तथा ॥ 034c
यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः । 035a
प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत् ॥ 035c
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् । 036a
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ 036c
श्रोत्रं व्योमाश्रितं भूतं शब्दः श्रोत्रं समाश्रितः । 037a
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ॥ 037c
एवं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी । 038a
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥ 038c
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति । 039a
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥ 039c
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः । 040a
आस्थितो युगपद्भावे व्यवहारः स लौकिकः ॥ 040c
इन्द्रियाण्युपसृत्यापि दृष्ट्वा पूर्वं श्रुतागमात् । 041a
चिन्तयन्ननुपर्येति त्रिभिरेवान्वितो गुणैः ॥ 041c
यत्तमोपहतं चित्तमाशुसञ्चारमध्रुवम् । 042a
करोत्युपरमं काये तदाहुस्तामसं सुखम् ॥ 042c
यद्यदागमसंयुक्तं न कृच्छ्रादुपशाम्यति । 043a
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥ 043c
एवमेव प्रसङ्ख्यातः स्वकर्मप्रत्ययो गुणः । 044a
कथञ्चिद्वर्तते सम्यक्केषाञ्चिद्वा निवर्तते ॥ 044c
'अहमित्येष वै भावो नान्यत्र प्रतितिष्ठति । 045a
यस्य भावो दृढो नित्यं स वै विद्वांस्तथेतरः ॥ 045c
देहधर्मस्तथा नित्यं सर्वभूतेषु वै दृढः । 046a
एतेनैवानुमानेन त्याज्यो धर्मस्तथा ह्यसौ ॥ 046c
ज्ञानेन मुच्यते जन्तुर्धर्मात्मा ज्ञानवान्भवेत् । 047a
धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम् ॥ 047c
सर्वार्थजनकश्चैव धर्मः सर्वस्य कारणम् । 048a
सर्वो हि दृश्यते लोके न सर्वार्थः कथञ्चन ॥ 048c
सर्वत्यागे कृते तस्मात्परमात्मा प्रसीदति । 049a
व्यक्तादव्यक्तमतुलं लोकेषु परिवर्तते ॥' 049c
एतदाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः । 050a
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥ 050c
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् । 051a
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुषु ॥ 051c
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च । 052a
नतु स्वतां नियच्छन्ति तादृशः सत्वसङ्क्षयः ॥ 052c
एवं सति कुतः सञ्ज्ञा प्रेत्यभावे पुनर्भवेत् । 053a
प्रतिसम्मिश्रिते जीवे गृह्यमाणे च सर्वतः ॥ 053c
इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः । 054a
न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् ॥ 054c
दृढैर्हि पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च । 055a
यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ॥ 055c
श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादभीतः । 056a
क्षीणे च पुण्ये विगते च पापे ततो निमित्ते च फले विनष्टे । 056c
अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महत्यसक्ताः ॥ 056e
यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्ठति पात्यमानः । 057a
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ठ इवाद्रिमृच्छन् ॥ 057c
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाऽप्युरगो यथा च । 058a
विहाय गच्छत्यनवेक्षमाणस्तथा विमुक्तो विजहाति दुःखम् ॥ 058c
द्रुमं यथावाऽप्युदके पतन्तमुत्सृज्य पक्षी निपतत्यसक्तः । 059a
तथा ह्यसौ सुखदुःखे विहाय मुक्तः पराद्धर्यां गतिमेत्यलिङ्गः ॥ 059c
'इमान्स्वलोकाननुपश्य सर्वान्व्रजन्यथाऽऽकाशमिवाप्नुकामः । 060a
इमां हि गाथां प्रलपन्यथाऽस्ति समस्तसङ्कल्पविशेषमुक्तः । 060c
अहं हि सर्वं किल सर्वभावे ह्यहं तदन्तर्ह्यहमेव भोक्ता ॥' 060e
अपिच भवति मैथिलेन गीतं नगरमुपाहितमग्निनाऽभिवीक्ष्य । 061a
न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः ॥ 061c
भीष्म उवाच 062
इदममृतपदं विदेहराजा स्वयमिह पञ्चशिखेन भाष्यमाणम् । 062a
निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ॥ 062c
इमं हि यः पठति विमोक्षनिश्चयं महीपते सततमवेक्षते तथा । 063a
उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ 063c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥

12-222-2 भगवन्यदिदं प्रोक्तम् इति ट. ड. थ. पाठः ॥ 12-222-3 पञ्चत्वे तद्द्विजोत्तमेति ध. पाठः ॥ 12-222-6 उच्छेदनिष्ठा देहेऽस्ति इति ट. थ. पाठः ॥ 12-222-13 चित्तरूपं गमा गुणाः इति ध. पाठः ॥ 12-222-15 गन्धश्च पञ्चमः इति ड. पाठः । आमरणाद्युक्ता इति ट. ड. थ. पाठः ॥ 12-222-20 तत्तु सम्यङ्मातं नाम त्यागशास्त्रमनुत्तममिति ट. ड. थ. पाठः । अत्र सम्यग्वधो नाम त्यागशास्त्रमनुत्तममिति झ. पाठः ॥ 12-222-21 नित्यं मिथ्या विनीतानां क्लेशो दुःखवहो मतः इति झ. पाठः ॥ 12-222-22 सर्वशास्त्रतात्पर्यं त्यागे एवेत्याह द्रव्येति । द्रव्यादित्यागनिमित्तं यज्ञकर्मादीन्युपदिशन्तीति शेषः । सर्वत्यागनिमित्तं योगमुपदिशन्ति । यतः सा त्यागस्य समापना समाप्तिः पराकाष्ठेत्यर्थः ॥ 12-222-27 बुद्ध्याशु विसृजेन्मनः इति झ. पाठः ॥ 12-222-34 इत्युपेक्षेत तं तथा इति ड. ध. पाठः ॥ 12-222-35 यत्त्वसन्तोषसंयुक्तम् इति झ. पाठः ॥ 12-222-40 उच्छेदो नास्ति मानसः इति ड. थ. पाठः । तामसे इति झ. पाठः ॥ 12-222-41 इन्द्रियाण्यपि सूक्ष्माणि इति झ. पाठः ॥ 12-222-42 तामसं गुणम् इति ट. ड. पाठः । तामसं बुधाः इति झ. पाठः ॥ 12-222-43 न कृच्छ्रमनुपश्यति इति झ. पाठः ॥ 12-222-52 नदाश्च तानि यच्छन्ति इति झ. पाठः ॥ 12-222-58 रुरुर्मृगभेदः ॥ 12-222-59 पराद्र्घ्यां श्रेष्ठाम् ॥ 12-222-63 अवेक्षते अर्थतः पर्यालोचयति । कपिलं कपिलप्रशिष्यं पञ्चशिखम् ॥