अध्यायः 221
भीष्मेण युधिष्ठिरम् प्रति जनकम् प्रत्युक्तपञ्चशिखवाक्यानुवादः ॥ 1 ॥
'*भीष्म उवाच 001
जनको नरदेवस्तु ज्ञापितः परमर्षिणा । 001a
पुनरेवानुपप्रच्छ साम्पराये भवाभवौ ॥ 001c
भगवन्यदिदं प्रेत्य सञ्ज्ञा भवति कस्यचित् । 002a
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ 002c
विवादादेव सिद्धोऽसौ कारणस्येव वेदना । 003a
चेतनो विद्यते ह्यत्र हैतुकं च मनोगतम् ॥ 003c
आगमादेव सिद्धोऽसौ स्वतःसिद्धा इति श्रुतिः । 004a
वर्तते पृथगन्योन्यं न ह्यपाश्रित्य कर्मसु ॥ 004c
चेतनो ह्यंशवस्तत्र स्वमूर्तं धारयन्त्यतः । 005a
स्वभावं पौरुषं कर्म ह्यात्मानं तमुपाश्रितम् । 005c
तमाश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः ॥ 005e
गुणज्ञानमभिज्ञानं तस्य लिङ्गानुशब्दवत् । 006a
पृथिव्यादिषु भूतेषु तत्तदाहुर्निदर्शनम् ॥ 006c
आत्माऽसौ वर्तते भिन्नस्तत्रतत्र समन्वितः । 007a
परमात्मा तथैवैको देहेऽस्मिन्निति वै श्रुतिः ॥ 007c
आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम् । 008a
यथा त्रिधा प्रवर्तन्ते तथाऽसौ पुरुषः स्मृतः ॥ 008c
पयस्यन्तर्हितं यद्वत्तद्वद्व्याप्तं महात्मकम् । 009a
पूर्वं नैश्वर्ययोगेन तस्मादेतन्न शेषवान् ॥ 009c
शब्दाः कालः क्रिया देहो ममैकस्यैव कल्पना । 010a
स्वभावं तन्मयं त्वेदं मायारूपं तु भेदवत् ॥ 010c
नानाख्यं परमं शुद्धं निर्विकल्पं परात्मकम् । 011a
लिङ्गादि देवमध्यास्ते ज्ञानं देवस्य तत्तथा ॥ 011c
चिन्मयोऽयं हि नादाख्यः शब्दश्चासौ मनो महान् । 012a
गतिमानुत सन्धत्ते वर्णमत्तत्पदान्वितम् ॥ 012c
कायो नास्ति च तेषां वै अवकाशस्तथा परम् । 013a
एतेनोढा इति चाख्याताः सर्वे ते धर्मदूषकाः ॥ 013c
अबन्धनमविज्ञानाज्ज्ञानं तद्ध्रुवमव्ययम् । 014a
नानाभेदविकल्पेन येषामात्मा स्मृतः सदा ॥ 014c
प्रकृतेरपरस्तेषां बहवोऽप्यात्मवादिनः । 015a
विरोधो ह्यात्मसन्मायां न तेषां सिद्ध एव हि । 015c
अन्यदा च गृहीतै—–वेदबाह्यास्ततः स्मृताः ॥ 015e
एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत् । 016a
तस्माद्वेदस्य हृदयमद्वैध्यमिति विद्धि तत् ॥ 016c
वेदादृष्टेरयं लोकः सर्वार्थेषु प्रवर्तते । 017a
तस्माच्च स्मृतयो जाताः सेतिहासाः पृथग्विधाः ॥ 017c
न यन्न साध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् । 018a
इन्द्रियाणि च भूरीणि परा च प्रकृतिर्मनः ॥ 018c
आत्मा च परमः शुद्धः प्रोक्तोऽसौ परमः पुमान् ॥ 019ac
उत्पत्तिलक्षणं चेदं विपरीतमथोभयोः । 020a
यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस्तु ताम् । 020c
प्रदहत्येष कर्माख्यं दावोद्भूत इवानलः ॥ 020e
चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते ॥ 021ac
आकाशकल्पं विमलं नानाशक्तिसमन्वितम् । 022a
तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम् । 022c
दुःखमस्ति न निर्दुःखं तद्विद्वान्न च लिप्यति ॥ 022e
असावश्नाति यद्वत्तद्भ्रमरोऽश्नाति यन्मधु । 023a
एवमेष महानात्मा नात्मानमवबुध्यते ॥ 023c
एवम्भूतस्त्वमित्यत्र स्वाधितो बुद्ध्यते परम् । 024a
बुधस्य बोधनं तत्र क्रियते सद्भिरित्युत । 024c
न बुधस्येति वै कश्चिन्न तथावच्छृणुष्व मे ॥ 024e
शोकमस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः । 025a
लोकं निघ्नन्ति सम्भिन्ना ज्ञातिनोत्र वदन्त्युत ॥ 025c
एवं तस्य विभोः कृत्यं धातुरस्य महात्मनः । 026a
क्षमन्ति ते महात्मानः सर्वद्वन्द्वविवर्जिताः ॥ 026c
अतोऽन्यथा महात्मानमन्यथा प्रतिपद्यते । 027a
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ 027c
तस्य संयोगयोगेन शुचिरप्यशुचिर्भवेत् । 028a
अशुचिश्च शुचिश्चापि ज्ञानाद्देहादयो यथा ॥ 028c
दृश्यं न चैव दृष्टं स्याद्दृष्टं दृश्यं तु नैव च ॥ 029ac
अतीतत्रितयाः सिद्धा ज्ञानरूपेण सर्वदा । 030a
एवं न प्रतिपद्यन्ते रागमोहमदान्विताः ॥ 030c
वेदबाह्या दुरात्मानः संसारे दुःखभागिनः । 031a
आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते ॥ 031c
बुद्ध्या भवति बुद्ध्या त्वं यद्बुद्धं चात्मरूपवत् । 032a
तमस्यन्धे न सन्देहात्परं यान्ति न संशयः ॥ 032c
नित्यनैमित्तिकान्कृत्वा पापहानिमवाप्य च । 033a
शुद्धसत्वा महात्मानो ज्ञाननिर्धूतकल्मषाः ॥ 033c
असक्ताः परिवर्तन्ते संसरन्त्यथ वायुवत् । 034a
न युज्यन्तेऽथवा क्लेशैरहम्भावोद्भवैः सह ॥ 034c
इतस्ततः समाहृत्य ज्ञानं निर्वर्णयन्त्युत । 035a
ज्ञानान्वितस्तमो हन्यादर्कवत्स महामतिः ॥ 035c
एवमात्मानमन्वीक्ष्य नानादुःखसमन्वितम् । 036a
देहं पङ्कमले मग्नं निर्मलं परमार्थतः ॥ 036c
तमेवं सर्वदुःखात्तु मोचयेत्परमात्मवान् । 037a
ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः । 037c
लघ्वाहारो विशुद्धात्मा परं निर्वाणमृच्छति ॥ 037e
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च । 038a
आनुपूर्व्याद्विनश्यन्ति स्वं धातुमुपयान्ति च ॥ 038c
कारणानुगतं कार्यं यदि तच्च विनश्यति । 039a
अलिङ्गस्य कथं लिङ्गं युज्यते तन्मृषा दृढम् ॥ 039c
न त्वेव हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः । 040a
अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते ॥ 040c
लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम् । 041a
कृतानुस्मरणात्सिद्धो वेदगम्यः परः पुमान् ॥ 041c
प्रत्यक्षानुगतो वेदो नामहेतुभिरिष्यते ॥ 042ac
यथा शाखा हि वै शाखा तरोः सम्बध्यते तदा । 043a
श्रुत्या तथापरोप्यात्मा दृश्यते सोऽप्यलिङ्गवान् । 043c
अलिङ्गसाध्यं तद्ब्रह्म बहवः सन्ति हेतवः ॥ 043e
लोकयात्राविधानं च दानधर्मफलागमः । 044a
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥ 044c
इति सम्यङ्मनस्येते बहवः सन्ति हेतवः । 045a
एतदस्तीदमस्तीति न किञ्चित्प्रतिदृश्यते ॥ 045c
तेषां विमृशतामेवं तत्तत्समभिधावताम् । 046a
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥ 046c
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः । 047a
आगमैरपकृष्यन्ति हस्तिनो हस्तिपैर्यथा ॥ 047c
न जातु कामः कामानामुपभोगेन शाम्यति । 048a
हविषा कृष्णवर्त्मेव भूय एवाभिर्वधते ॥ 048c
अर्थांस्तथाऽत्यन्तदुःखावहांश्च लिप्सन्त एके बहवो विशुष्काः । 049a
महत्तरं दुःखमभिप्रपन्ना हित्वा सुखं मृत्युवशं प्रयान्ति ॥ 049c
विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मन्त्रपरिग्रहैश्च । 050a
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥ 050c
स्वं भूमितोयानलवायवो हि सदा शरीरं प्रतिपालयन्ति । 051a
इतीदमालक्ष्य कुतो रतिर्भवेद्विनाशिनो ह्यस्य न कर्म विद्यते ॥ 051c
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् । 052a
नरपतिरनुवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥' 052c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥
- अयमध्यायो ध. पुस्तकएव दृश्यते ।