अध्यायः 220

भीष्मेण युधिष्ठिरम् प्रति जनकाय पञ्चशिखोक्तनास्तिकादिमतखण्डनानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः । 001a
जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य बुद्धिमान् ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
येन वृत्तेन धर्मज्ञः स जगाम महत्सुखम् ॥ 002c
जनको जनदेवस्तु मिथिलायां जनाधिप । 003a
और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥ 003c
तस्य स्म शतमाचार्या वसन्ति सततं गृहे । 004a
दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः ॥ 004c
स तेषां प्रेत्यभावेन प्रेत्य गातौ विनिश्चये । 005a
आगमस्थः स भूयिष्ठमात्मतत्त्वेन तुष्यन्ति ॥ 005c
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः । 006a
परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ॥ 006c
सर्वसन्न्यासधर्माणां तत्त्वज्ञानविनिश्चये । 007a
सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः ॥ 007c
ऋषीणामाहुरेकं यं कामादवसितं नृषु । 008a
शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्लभम् ॥ 008c
यमाहुः कपिलं साङ्ख्याः परमर्षिं प्रजापतिम् । 009a
समेत्य तेन रूपेण विस्मापयति हि स्वयम् ॥ 009c
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् । 010a
पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् ॥ 010c
तमासीनं समागम्य कापिलं मण्डलं महत् । 011a
[पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः । 011c
पञ्चज्ञः पञ्चकृत्पञ्चगुणः पञ्चशिखः स्मृतः ।] 012a
पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत् ॥ 012c
इष्ट्वा सत्रेण सम्पृष्टो भूयश्च तपसाऽऽसुरिः । 013a
क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनात् ॥ 013c
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते । 014a
'बोधायनपरान्विप्रानृषिभावमुपागतः ।' 014c
आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् ॥ 014e
तस्य पञ्चशिखः शिष्यो मानुष्याः पयसा भृतः । 015a
ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी ॥ 015c
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ । 016a
ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् ॥ 016c
एतन्मे भगवानाह कापिलेयस्य सम्भवम् । 017a
तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥ 017c
सामान्यं जनकं ज्ञात्वा धर्मज्ञानामनुत्तमम् । 018a
उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥ 018c
'निराकरिष्णुस्तान्सर्वांस्तेषां हेतुगुणान्बहून् । 019a
श्रावयामास मतिमान्मुनिः पञ्चशिखो नृप ॥' 019c
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् । 020a
उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् ॥ 020c
तस्मै परमकल्याय प्रणताय च धर्मतः । 021a
अब्रवीत्परमं मोक्षं यतः साङ्ख्यं विधीयते ॥ 021c
जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत् । 022a
कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥ 022c
यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः । 023a
तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥ 023c
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके । 024a
आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥ 024c
आत्मना ह्यात्मनो नित्यं क्लेशमृत्युजरामयम् । 025a
आत्मानं मन्यते मोहात्तदसम्यक्परं मतम् ॥ 025c
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते । 026a
अजरोऽयममृत्युश्च राजाऽसौ मन्यते तथा ॥ 026c
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे । 027a
किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् ॥ 027c
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि । 028a
प्रत्यक्षेणागमो भिन्नः कृतान्तो वा न कश्चन ॥ 028c
यत्रतत्रानुमानेऽस्मिन्कृतं भावयतोऽपि च । 029a
नान्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः ॥ 029c
रेतो वटकणीकायां घृतपाकाधिवासनम् । 030a
जातिः स्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥ 030c
प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् । 031a
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥ 031c
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः । 032a
अमूर्तस्य हि मूर्तेन सामान्यं नोपपद्यते ॥ 032c
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवे । 033a
कारणं लोभमोहौ तु दोषाणां च निषेवणम् ॥ 033c
अविद्यां क्षेत्रमाहुर्हि कर्मबीजं तथा कृतम् । 034a
तृष्णासञ्जननं स्नेह एष तेषां पुनर्भवः ॥ 034c
तस्मिन्मूढे च जग्धे च देहे मरणधर्मिणि । 035a
अन्योऽसौ जायते प्रेतस्तदाहुस्तत्वमक्षयम् ॥ 035c
यदा स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः । 036a
कथमस्मिन्स इत्येवं सम्बोधः स्यादसंहितः ॥ 036c
एवं सति च का प्रीतिर्दानविद्यातपोबलैः । 037a
यद्यदाचरितं कर्म सर्वमन्यत्प्रपद्यते ॥ 037c
यदि ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् । 038a
सुखितो दुःखितैर्वाऽपि दृश्यो ह्यस्यविनिर्णयः ॥ 038c
यदा हि मुसलैर्हन्युः शरीरं न पुनर्भवेत् । 039a
पृथग्ज्ञानं यदन्यच्च येनैतन्नोपपद्यते ॥ 039c
ऋतुसंवत्सरौ तिथ्यः शीतोष्णेऽथ प्रियाप्रिये । 040a
यथाऽतीता न दृश्यन्ते तादृशः सत्वसङ्क्षयः ॥ 040c
जरयाऽभिपरीतस्य मृत्युना न विनाशिना । 041a
दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥ 041c
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च । 042a
आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च ॥ 042c
लोकयात्राविधानं च दानधर्मफलागमः । 043a
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥ 043c
इति सम्यङ्मनस्येते बहवः सन्ति हेतवः । 044a
एतदासीन्ममास्तीति न कश्चित्प्रतिपद्यते ॥ 044c
तेषां विमृशतामेवं तत्तत्समभिधावताम् । 045a
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥ 045c
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः । 046a
आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ॥ 046c
'न जातु कामः कामानामुपभोगेन शाम्यति । 047a
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥' 047c
अर्थांस्तथाऽत्यन्तमुखावहांश्च लिप्सन्त एते बहवो विशुष्काः । 048a
महत्तरं दुःखमनुप्रपन्ना हित्वा सुखं मृत्युवशं प्रयान्ति ॥ 048c
विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च । 049a
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥ 049c
भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयन्ति । 050a
इतीदमालक्ष्य रतिः कुतो भवेद्विनाशिनो ह्यस्य न कर्म विद्यते ॥ 050c
इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् । 051a
नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥ 051c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥ 220 ॥

12-220-2 महत्सुखं मोक्षम् ॥ 12-220-3 जनको जनकवंश्यः नाम्ना जनदेवः ॥ 12-220-4 पाषण्डा लोकायतादयस्तेषां वादिनः प्रतिभटत्वेन जेतारः ॥ 12-220-6 कापिलेयः कपिलायाः पुत्रः । परिधावन् एकत्र वासमकुर्वन् ॥ 12-220-7 सुपर्यवसितार्थः सम्यङ्निश्चितप्रयोजनः ॥ 12-220-8 कामादवसितं यदृच्छया स्थितम् । नृषु सुखम् अन्विच्छन्तम् । स्थापयितुमिति शेषः ॥ 12-220-9 कपिलं तत्प्रशिष्यत्वात्तत्तुल्यम् ॥ 12-220-15 मनुष्यो वयसा वृत इति ध. पाठः । धृत इति ट. थ. पाठः ॥ 12-220-17 भगवान्मार्कण्डेयः सनत्कुमारो वा ॥ 12-220-18 सामान्यं सर्वेष्वाचार्येषु समबुद्धिम् ॥ 12-220-21 कल्याय समर्थाय ॥ 12-220-22 जातिर्जन्म । कर्म यागादि । सर्वं ब्रह्मलोकान्तम् । तेषु निर्वेदः क्षयिष्णुत्वात् ॥ 12-220-23 तं मोहमब्रवीदिति पूर्वेणान्वयः ॥ 12-220-25 अनात्मा ह्यात्मनः क्लेशं जन्ममृत्युजरामयम् इति ट. थ. पाठः ॥ 12-220-29 यत्रकुत्राप्यनुमाने ईदृशानिष्टनित्यात्मान्यतमसाधके साध्यसिद्धिं भावयतः कृतम् अलम् । भावनयालमित्यर्थः । उक्तविधयानुमानस्याप्रमाणत्वात् । शरीरस्य शरीरात् ॥ 12-220-30 रेतो धातुर्वटकणिका धृतधूमाधिवासनमिति ध. पाठः । सूर्यकान्ताग्निमोक्षणमिति थ. पाठः ॥ 12-220-35 व्यूढे च दग्धे चेति ध. पाठः । अन्योन्याज्जायते स्नेहस्तमाहुः सत्वसङ्क्षयमिति ध. पाठः ॥ 12-220-38 सुखितैः सुखितो वापि दृष्टो ह्यस्य विनिर्णय इति ट. थ. पाठः ॥