अध्यायः 219
भीष्मेण युधिष्ठिरम् प्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मानुवादसमापनम् ॥ 1 ॥
गुरुरुवाच 001
न स वेद परं ब्रह्म यो न वेद चतुष्टयम् । 001a
व्यक्ताव्यक्तं च यत्तत्त्वं सम्प्रोक्तं परमर्षिणा ॥ 001c
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् । 002a
निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥ 002c
तत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् । 003a
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ॥ 003c
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् । 004a
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ॥ 004c
तां गतिं परमामेति निवृत्तिपरमो मुनिः । 005a
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ॥ 005c
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ । 006a
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ॥ 006c
तं विशेषमवेक्षेत विशेषेण विचक्षणः । 007a
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ॥ 007c
उभौ नित्यावनुचरौ महद्भ्यश्च महत्तरौ । 008a
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् ॥ 008c
प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणसत्वया । 009a
विपरीतमतो विद्यात्क्षेत्रज्ञस्य स्वलक्षणम् ॥ 009c
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् । 010a
'क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम् ॥ 010c
अग्राह्यं येन जानन्ति तज्ज्ञानं दंशितश्च तत् । 011a
तेनैव दंशितो नित्यं न गुणः परिभूयते ॥ 011c
अग्राह्यौ पुरुषावेतावलिङ्गत्वादसङ्गिनौ । 012a
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यथा ॥ 012c
करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते । 013a
कीर्त्यते शब्दसञ्ज्ञाभिः कोऽहमेषोप्यसाविति ॥ 013c
'ममापि कायमिति च तदज्ञो नित्यसंवृतः ।' 014a
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः । 014c
संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥ 014e
'भेदवस्तु त्वभेदेन जानाति स यदा पुमान् । 015a
तदा परं परात्माऽसौ भवत्येव निरञ्जनः ॥ 015c
क्रियायोगे च भेदाख्ये बहु सङ्क्षिप्यते क्वचित् । 016a
वसुरुद्रगणाद्येषु स्वानुभोगेन भोगतः ॥ 016c
एवमेष परः सत्त्वो नानारूपेण संस्थितः । 017a
सङ्क्षिप्तो दृश्यते पश्चादेकरूपेण विष्ठितः ॥' 017c
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिरावृतम् । 018a
तथासञ्ज्ञो ह्ययं सम्यगन्तकाले न मुह्यति । 018c
'वायुर्विधो यथा भानुर्विप्रकाशं गमिष्यति ॥' 018e
श्रियं दिव्यामभिप्रेप्सुर्वर्ष्मवान्मनसा शुचिः । 019a
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ॥ 019c
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता । 020a
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ॥ 020c
'अन्यच्च धर्मसाम्यं यत्तपस्तत्कीर्त्यते पुनः ।' 021a
प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः ॥ 021c
रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् । 022a
'त्रितयं ह्येतदाख्यातं यद्यस्माद्भासितुं पुनः ॥ 022c
स्वभासा भासयंश्चापि चन्द्रमा ह्यत्र वर्तते । 023a
सूर्ययोगे तु यः सन्धिस्तपः सर्वं प्रदीप्यते ॥' 023c
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते । 024a
वाङ्मनोनियमः सम्यङ्मानसं तप उच्यते ॥ 024c
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते । 025a
आहारनियमेनास्य पाप्मा शाम्यति राजसः ॥ 025c
वैमनस्यं च विषये यान्त्यस्य करणानि च । 026a
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ॥ 026c
अन्तकाले बलोत्कर्षाच्छनैः कुर्यादनातुरः । 027a
एवं युक्तेन मनसा ज्ञानं यदुपपद्यते ॥ 027c
रजोवर्ज्यो ह्ययं देही देहवाञ्छब्दवांश्चरेत् । 028a
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ॥ 028c
आदेहादप्रमादाच्च देहान्ताद्विप्रमुच्यते । 029a
हेतुयुक्तः सदा सर्गो भूतानां प्रलयस्तथा ॥ 029c
परप्रत्ययसर्गे तु नियमो नातिवर्तते । 030a
एवं तत्प्रभवां प्रज्ञामासते ये विपर्यये ॥ 030c
धृत्या देहान्धारयन्तो बुद्धिसङ्क्षिप्तचेतसः । 031a
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तदुपासते ॥ 031c
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुद्ध्यते । 032a
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः ॥ 032c
युक्तो धारणया कश्चित्सतः केचिदुपासते । 033a
अभ्यस्यन्ति परं देवं विद्यासंशब्दिताक्षरम् ॥ 033c
अन्तकाले ह्युपासन्ते तपसा दग्धकिल्बिषाः । 034a
सर्व एते महात्मानो गच्छन्ति परमां गतिम् ॥ 034c
सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा । 035a
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् ॥ 035c
अन्तरिक्षादन्यतरं धारणासक्तमानसम् । 036a
मर्त्यलोकाद्विमुच्यन्ते विद्यासंसक्तचेतसः ॥ 036c
ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् । 037a
एवमेकायनं धर्ममाहुर्वेदविदो जनाः ॥ 037c
यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम् । 038a
कषायवर्जितं ज्ञानं तेषामुत्पद्यतेऽमलम् । 038c
यान्ति तेऽपि पराल्ँलोकान्विशुध्यन्ति यथाबलम् ॥ 038e
भगवन्तमजं दिव्यं विष्णुमव्यक्तसञ्ज्ञितम् । 039a
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥ 039c
ज्ञात्वाऽऽत्मस्थं हरिं चैव न निवर्तन्ति तेऽव्ययाः । 040a
प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् ॥ 040c
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च । 041a
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ॥ 041c
बिसतन्तुर्यथैवायमन्तस्थः सर्वतो बिसे । 042a
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ॥ 042c
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः । 043a
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबद्ध्यते ॥ 043c
'इतस्ततः समाहृत्य रूपं निर्वर्तयिष्यति ।' 044a
विकारं प्रकृतिं चैव पुरुषं च सनातनम् ॥ 044c
यो यथावद्विजानाति स वितृष्णो विमुच्यते । 045a
याति नित्यं स सद्भावमात्मनो वै महद्ध्रुवम् ॥ 045c
भीष्म उवाच 046
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् । 046a
भूतानामनुकम्पार्थं जगाद जगतो हितम् ॥ 046c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥
12-219-1 न स वेद परं धर्मम् इति ध. पाठः ॥ 12-219-22 तपसस्तच्च लक्षणमिति थ. पाठः । तत्वलक्षणमिति ध. पाठः ॥ 12-219-25 ग्राह्यमन्नं तपस्विभिरिति ट. थ. पाठः ॥ 12-219-29 देहान्ते विप्रमुच्यत इति ट. थ. पाठः । सदोत्सर्ग इति ध. पाठः ॥ 12-219-38 विमुच्यन्ते यथाबलमिति झ. पाठः । विशुध्यन्तो यथाबलमिति ट. थ. पाठः ॥ 12-219-46 प्रकाशं स्पष्टम् । अमृतं मोक्षसाधनम् ॥