अध्यायः 218

भीष्मेण युधिष्ठिरम् प्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मानुवादः ॥ 1 ॥ गुरुरुवाच 001
निष्कल्मषं ब्रह्मचर्यमिच्छताचरितुं सदा । 001a
निद्रा सर्वात्मना त्याज्या स्वप्नदोषमवेक्षता ॥ 001c
स्वप्ने हि रजसा देही तमसा चाभिभूयते । 002a
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः ॥ 002c
ज्ञानाभ्यासाज्जागरिता जिज्ञासार्थमनन्तरम् । 003a
विज्ञानाभिनिवेशात्तु स जागर्त्यनिशं सदा ॥ 003c
अत्राह कोन्वयं भावः स्वप्ने विषयवानिव । 004a
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव ॥ 004c
अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः । 005a
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः ॥ 005c
इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं मनः । 006a
'तन्मयानीन्द्रियाण्याहुस्तावद्गच्छन्ति तानि वै ॥ 006c
अत्राहुस्त्रितयं नित्यमतथ्यमिति चेच्च न । 007a
प्रथमे वर्तमानोऽसौ त्रितयं चेति सर्वदा ॥ 007c
नेतरावुपसङ्गम्य विजानाति कथञ्चन । 008a
स्वप्नावस्थागतो ह्येष स्वप्न इत्येव वेत्ति च ॥ 008c
तदप्यसदृशं युक्त्या त्रितयं मोहलक्षणम् । 009a
यदात्मत्रितयान्मुक्तस्तदा जानात्यसत्कृतः ॥' 009c
मनसस्त्वप्रलीनत्वात्तत्तदाहुर्निदर्शनम् । 010a
कार्ये चासक्तमनसः सङ्कल्पो जाग्रतो ह्यपि । 010c
यद्वन्मनोरथैश्चर्यं स्वप्ने तद्वन्मनोगतम् ॥ 010e
संसाराणामसङ्ख्यानां कामात्मा तदवाप्नुयात् । 011a
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः ॥ 011c
गुणानामपि यद्येतत्कर्मणा चाप्युपस्थितम् । 012a
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा ॥ 012c
ततस्तमुपसर्पन्ति गुणा राजसतामसाः । 013a
सात्विका वा यथायोगमानन्तर्यफलोदयम् ॥ 013c
ततः पश्यन्त्यसम्बन्धान्वातपित्तकफोत्तरान् । 014a
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरत्ययम् ॥ 014c
प्रसन्नैरिन्द्रियैर्यद्यत्सङ्कल्पयति मानसम् । 015a
तत्तत्स्वप्नेप्युपरते मनो बुद्धिर्निरीक्षते ॥ 015c
व्यापकं सर्वभूतेषु वर्तते दीपवन्मनः । 016a
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥ 016c
मनस्यन्तर्हितं द्वारं देहमास्थाय मानुषम् । 017a
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् ॥ 017c
'व्यक्तभेदमतीतोऽसौ चिन्मात्रं परिदृश्यते ।' 018a
सर्वभूतात्मभूतस्थं तमध्यात्मगुणं विदुः ॥ 018c
लिप्सेन मनसा यश्च सङ्कल्पादैश्वरं गुणम् । 019a
आत्मप्रसादात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥ 019c
एवं हि तपसा युञ्ज्यादर्कवत्तमसः परम् । 020a
त्रैलोक्यप्रकृतिर्देही तमसोन्ते महेश्वरम् ॥ 020c
तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः । 021a
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् ॥ 021c
सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः । 022a
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ ॥ 022c
'सत्त्वं मनस्तथा बुद्धिर्देवा इत्यभिशम्ब्दिताः । 023a
तैरेव हि वृतस्तस्माज्ज्ञात्वैवं परमं—– ॥ 023c
निद्राविकल्पेन सतां—- विशति लोकवत् । 024a
स्वस्थो भवति गूढात्मा कलुषैः परिवर्जितः ॥ 024c
निशादिका ये कथिता लोकानां कलुषा मताः । 025a
तैर्हीनं यत्पुरं शुद्धं बाह्याभ्यन्तरवर्तिनम् । 025c
सदानन्दमयं नित्यं भूत्वा तत्परमन्वियात् ॥ 025e
एवमाख्यातमत्यर्थं ब्रह्मचर्यमकल्मषम् । 026a
सर्वसंयोगहीनं तद्विष्ण्वाख्यं परमं पदम् । 026c
अचिन्त्यमद्भुतं लोके ज्ञानेन परिवर्तते ॥' 026e
ब्रह्म तत्परमं ज्ञानममृतं ज्योतिरक्षरम् । 027a
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् ॥ 027c
हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा । 028a
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् ॥ 028c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥

12-218-2 अपगतस्पृहः इति झ. पाठः ॥ 12-218-11 वेद सोऽन्तरपूरुषः इति ट. पाठः ॥ 12-218-16 अप्रतिमं मनः इति ध. पाठः । अप्रतिघं मनः इति झ. पाठः ॥ 12-218-21 गुप्तं ज्ञानाज्ञानस्य लक्षणमिति थ. ध. पाठः ॥ 12-218-27 ब्रह्म तत्परमं वेद्यम् इति ट. थ. पाठः । ये विदुः सात्विकात्मानः इति थ. पाठः ॥