अध्यायः 217
भीष्मेण युधिष्ठिरम् प्रति वैराग्यादिमोक्षसाधनप्रतिपादकगुरुवाक्यानुवादः ॥ 1 ॥
गुरुरुवाच 001
दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः । 001a
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् ॥ 001c
जन्ममृत्युजरादुःखैर्व्याधिभिर्मानसक्लमैः । 002a
दृष्ट्वैव सन्ततं लोकं घटेन्मोक्षाय बुद्धिमान् ॥ 002c
वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहङ्कृतः । 003a
प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् ॥ 003c
'वशा मोक्षवतां पाशास्तासां रूपं प्रदर्शकम् । 004a
दुर्ग्रहं पश्यमानोऽपि मन्यते मोहितस्तदा ॥ 004c
एवं पश्यन्तमात्मानमनुध्यातं हि बन्धुषु । 005a
अयथात्वेन जानामि भेदरूपेण संस्थितम् ॥' 005c
अथवा मनसः सङ्गं पश्येद्भूतानुकम्पया । 006a
तत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् ॥ 006c
यत्कृतं स्याच्छुभं कर्म पापं वा यदि वाऽश्नुते । 007a
तस्माच्छुभानि कर्माणि कुर्याद्वा बुद्धिकर्मभिः ॥ 007c
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् । 008a
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥ 008c
'अनक्षसाध्यं तद्ब्रह्म निर्मलं जगतः परम् । 009a
स्वात्मप्रकाशमग्राह्यमहेतुकमचञ्चलम् ॥ 009c
विवेकज्ञानवाचिस्थो ह्याशुरूपेण संस्थितः । 010a
वैकारिकात्प्रदृश्येते गैरिके मधुधारवत् ॥' 010c
यश्चैनं परमं धर्मं सर्वभूतसुखावहम् । 011a
दुःखान्निःसरणं वेद तत्त्वज्ञः स सुखी भवेत् ॥ 011c
तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत् । 012a
नापथ्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् ॥ 012c
अथामोघप्रयत्नेन मनो ज्ञाने निवेशयेत् । 013a
सुवाचोऽथ प्रयोगेण मनोज्ञं समप्रवर्तते ॥ 013c
विवेकयित्वा तद्वाक्यं धर्मसूक्ष्ममवेक्ष्य च । 014a
सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् ॥ 014c
कल्कापेतामपरुषामनृशंसामपैशुनीम् । 015a
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ॥ 015c
वाक्यबन्धेन संरागविहाराद्व्याहरेद्यदि । 016a
बुद्ध्याऽप्यनुगृहीतेन मनसा कर्म तामसम् ॥ 016c
रजोभूतैर्हि करणैः कर्मणि प्रतिपद्यते । 017a
स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते । 017c
तस्मान्मनोवाक्शरीरैराचरेद्धैर्यमात्मनः ॥ 017e
प्रकीर्ण एव भारो हि यद्वद्धार्येत दस्युभिः । 018a
प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा । 018c
'संसारमार्गमापन्नः प्रतिलोमं विवर्जयेत् ॥' 018e
तामेव च यथा दस्यून्हत्वा गच्छेच्छिवां दिशम् । 019a
तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयाच्छुभम् ॥ 019c
निःसन्दिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः । 020a
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः ॥ 020c
ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान् । 021a
निष्प्रचारेण मनसा परं तदधिगच्छति ॥ 021c
धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम् । 022a
मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसाऽऽत्मनः । 022c
'योजयित्वा मनस्तत्र निश्चलं परमात्मनि ॥ 022e
योगाभिसन्धियुक्तस्य ब्रह्म तत्सम्प्रकाशते । 023a
ऐकान्त्यं तदिदं विद्धि सर्ववस्त्वन्तरस्थितिः ॥ 023c
विशेषहीनं गृह्णन्ति विशेषां कारणात्मिकाम् । 024a
अथवा न प्रभुस्तत्र परमात्मनि वर्तितुम् । 024c
आगामितत्त्वं योगात्मा योगतन्त्रमुपक्रमेत् ॥' 024e
निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे । 025a
देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम् ॥ 025c
ताभिः संयुक्तमनसो ब्रह्म तत्सम्प्रकाशते । 026a
शनैश्चापगते सत्वे ब्रह्मभूयाय कल्पते ॥ 026c
अथवा न प्रवर्तेत योगतन्त्रैरुपक्रमेत् । 027a
योगतन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत् ॥ 027c
कणकुल्माषपिण्याकशाकयावकसक्तवः । 028a
तथा मूलफलं भैक्ष्यं पर्यायेणोपयोजयेत् ॥ 028c
आहारनियमं चैव देशे काले च सात्विकः । 029a
तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् ॥ 029c
प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत् । 030a
ज्ञानैधितं तथा ज्ञानमर्कवत्सम्प्रकाशते ॥ 030c
ज्ञानाधिष्ठानमज्ञानं त्रील्लोँकानधितिष्ठति । 031a
विज्ञानानुगतं ज्ञानमज्ञानेनापकृष्यते ॥ 031c
पृथक्त्वात्सम्प्रयोगाच्च नासूयुर्वेद शाश्वतम् । 032a
स तयोरपवर्गज्ञो वीतरागो विमुच्यते ॥ 032c
वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् । 033a
अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् ॥ 033c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥
12-217-2 क्लमैः क्लेशैः सन्ततं व्याप्तं दृष्ट्वैव नतु ममेदानीं क्लेशो नास्तीत्युपेक्षेत ॥ 12-217-3 घटनमेवाहाध्यायेन वागिति । चरेद्गुरुरिति ध. पाठः ॥ 12-217-6 पश्येद्भूतादिकं यथा इति ध. पाठः ॥ 12-217-12 नापध्यायेत् परानिष्टं न चिन्तयेत् । अबद्धं स्वस्यायोग्यं राज्यादिकं न स्पृहयेत् । असन्नष्टं भावि वा स्त्रीपुत्रादिकं न चिन्तयेत् ॥ 12-217-13 वाचामोघप्रयासेन मनोज्ञं तत्प्रवर्तते इति झ. पाठः ॥ 12-217-14 विवक्षता च तद्वाक्यं धर्मं सूक्ष्ममवेक्षता इति झ. पाठः ॥ 12-217-15 कल्कापेतां शाठ्येन हीनाम् ॥ 12-217-16 वाक्प्रबद्धो हि संसारो विरागात् इति झ. पाठः ॥ 12-217-17 रजोभूतैः प्रवृत्तिपरैः ॥ 12-217-20 अनीहश्चेष्टाशून्यः ॥ 12-217-21 प्रयोगो योगाङ्गानामनुष्ठानं तत्र रतिः प्रीतिर्यस्य । निष्प्रचारेण निरुद्धेन ॥ 12-217-26 एतैश्चाभिमतैः सर्वैरिति ध. पाठः ॥