अध्यायः 216
भीष्मेण युधिष्ठिरम् प्रति ब्रह्मचर्योपायादिप्रतिपादकवार्ष्णेयाध्यात्मानुवादः ॥ 1 ॥
गुरुरुवाच 001
अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा । 001a
तत्त्वज्ञानाच्चरन्राजन्प्राप्नुयात्परमां गतिम् ॥ 001c
सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते । 002a
पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रदर्शिनः ॥ 002c
सर्वभूतात्मभूतास्ते सर्वज्ञाः सर्वदर्शिनः । 003a
ब्राह्मणा वेदशास्त्रज्ञास्तत्त्वार्थगतनिश्चयाः ॥ 003c
नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि । 004a
ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः ॥ 004c
तांस्तानुपासते धर्मान्धर्मकामा यथागमम् । 005a
न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् ॥ 005c
वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः । 006a
सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणाञ्छुभान् ॥ 006c
यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् । 007a
परं तत्सर्वधर्मेभ्यस्तेन यान्ति परां गतिम् ॥ 007c
लिङ्गसंयोगहीनं यच्छब्दस्पर्शविवर्जितम् । 008a
श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् ॥ 008c
वाक्सम्भाषाप्रवृत्तं यत्तन्मनः परिवर्जितम् । 009a
बुद्ध्या चाध्यवसीयीत ब्रह्मचर्यमकल्मषम् ॥ 009c
सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् । 010a
द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः ॥ 010c
सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु । 011a
सम्प्रदीप्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः ॥ 011c
योषितां न कथा श्राव्या न निरीक्ष्या निरम्बराः । 012a
कथञ्चिद्दर्शनादासां दुर्बलानां विशेद्रजः ॥ 012c
रागोत्पन्नश्चेरत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः । 013a
मग्नस्त्वप्स्वेव मनसा त्रिर्जपेदघमर्षणम् ॥ 013c
पाप्मानं निर्दहेदेवमन्तर्भूतरजोमयम् । 014a
ज्ञानयुक्तेन मनसा सन्ततेन विचक्षणः ॥ 014c
कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् । 015a
तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् ॥ 015c
'अमेध्यपूर्णं यद्भाण्डं श्लेष्मान्तकलिलावृतम् । 016a
नेच्छते वीक्षितुं भाण्डं कुतः स्प्रष्टुं प्रवर्तते ॥ 016c
देहभाण्डं मलैः पूर्णं बहिः स्वेदजलावृतम् । 017a
बीभत्सं नरनारीणां ज्ञानिनां नरकं मतम् ॥ 017c
छिद्रकुम्भो यथा स्रावं सृजते तद्गतं दृढम् । 018a
अन्तस्थं स्रंसते तद्वज्जलं देहेषु देहिनाम् ॥ 018c
श्लेष्माश्रुमूत्रकलिलं पुरीषं शुक्लमेव च । 019a
कफजालविनिर्यासः सरसश्चित्त मुञ्चय ॥' 019c
वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च । 020a
मज्जां देहं सिराजालैस्तर्पयन्ति रसा नृणाम् ॥ 020c
दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः । 021a
याभिः सूक्ष्माः प्रजायन्ते धमन्योऽन्याः सहस्रशः ॥ 021c
एवमेताः सिरा नद्यो रसोदा देहसागरम् । 022a
तर्पयन्ति यथाकालमापगा इव सागरम् ॥ 022c
मध्ये च हृदयस्यैका सिरा तत्र मनोवहा । 023a
शुक्रं सङ्कल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ॥ 023c
सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः । 024a
नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् ॥ 024c
पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः । 025a
शुक्रं निर्मथ्यते तद्वद्देहसङ्कल्पजैः खजैः ॥ 025c
स्वप्नेऽप्येवं यथाऽभ्येति मनः सङ्कल्पजं रजः । 026a
शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहाः ॥ 026c
महर्षिर्भगवानत्रिर्वेद तच्छ्रुक्रसम्भवम् । 027a
नृबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते ॥ 027c
ये वै शुक्रगतिं विद्युर्भूतसङ्करकारिकाम् । 028a
विरागा दग्धदोषास्ते नाप्नुयुर्देहसम्भवम् ॥ 028c
गुणानां साम्यमागम्य मनसैव मनोवहम् । 029a
देहकर्म नुदन्प्राणानन्तकाले विमुच्यते ॥ 029c
भविता मनसो ज्ञानं मन एव प्रजायते । 030a
ज्योतिष्मद्विरजो नित्यं मन्त्रसिद्धं महात्मनाम् ॥ 030c
तस्मात्तदभिघाताय कर्म कुर्यादकल्मषम् । 031a
देहबीजं समुत्पन्नमस्मिन्कर्मणि विद्यते ॥ 031c
न स्मरेन्न प्रयुञ्जीत ज्ञानी तत्कर्म बुद्धिमान् । 032a
रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् ॥ 032c
तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् । 033a
विपक्वबुद्धिः कालेन आदत्ते मानसं बलम् ॥ 033c
'एव पुत्रकलत्रेषु ज्ञातिसम्बन्धिबन्धुषु । 034a
आदत्ते हृदये कामं व्याध्यादिभिरभिप्लुतः ॥ 034c
यतस्ततः परिपतन्नविन्दन्सुखमण्वपि । 035a
बहुदुःखसमापन्नः पश्चान्निर्वेदमास्थितः । 035c
ज्ञानवृक्षं समाश्रित्य पश्चान्निर्वृतिमश्नुते ॥' 035e
सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् । 036a
यथा पश्येत्तथा दोषानतीत्यामृतमश्नुते ॥ 036c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥
12-216-10 कन्यसीं कनीयसीम् ॥ 12-216-11 निगृह्णीयाच्चलं मन इति ध. पाठः ॥ 12-216-12 रजो रागः ॥ 12-216-20 सिरानाड्यस्तासां जालैः ॥ 12-216-21 धमन्यो नाड्यः । याभिः सूक्ष्माः प्रतायन्ते इति झ. पाठः ॥ 12-216-24 सर्वगात्रप्रवाहिन्यः इति ध. पाठः ॥ 12-216-25 खजैर्मन्थनदण्डैः । देहस्थात् सङ्कल्पात् खेभ्य इन्द्रियेभ्यश्च जातैः सङ्कल्पजैः खजैः स्त्रीदर्शनस्पर्शनादिभिः ॥ 12-216-26 शुक्रं सङ्कल्पजं देहात्सृजत्यस्य मनोवहा इति झ. पाठः ॥ 12-216-27 त्रिबीजमिन्द्रदैवत्यं इति झ. पाठः ॥ 12-216-31 तदभिघाताय मनोनाशाय । अकल्मषं निवृत्तिरूपम् ॥ 12-216-32 यथेष्टां गतिमाप्नुयात् इति झ. पाठः । तत्र यथा येन प्रकारेण इष्टां गतिं मोक्षम् ॥ 12-216-33 जरया दुर्बलता ताम् । तृतीया तत्कृतार्थेनेति समासः । मानसं बलं सङ्कल्पमादत्ते संहरति । काले पूर्वभाग्येन नतु दृष्टयोग्यतया ॥ 12-216-36 गुणा देहेन्द्रियादयस्तदेव बन्धनम् ॥