अध्यायः 215
भीष्मेण युधिष्ठिरम् प्रति वार्ष्णेयाध्यात्मानुवादः ॥ 1 ॥
गुरुरुवाच 001
रजसा साध्यते मोहस्तमश्च भरतर्षभ । 001a
क्रोधलोभौ भयं दर्प एतेषां सादनाच्छुचिः ॥ 001c
परमं परमात्मानं देवमक्षयमव्ययम् । 002a
विष्णुमव्यक्तसंस्थानं विदुस्तं देवसत्तमम् ॥ 002c
तस्य मायापिनद्धाङ्गा ज्ञान भ्रष्टा निराशिषः । 003a
मानवा ज्ञानसम्मोहात्ततः कामं प्रयान्ति वै ॥ 003c
कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः । 004a
मानदर्पावहङ्कारमहङ्कारात्ततः क्रियाः ॥ 004c
क्रियाभिः स्नेहसम्बन्धः स्नेहाच्छोकमनन्तरम् । 005a
अथ दुःखसमारम्भा जराजन्मकृतक्षणाः ॥ 005c
जन्मतो गर्भवासं तु शुक्रशोणितसम्भवम् । 006a
पुरीषमूत्रविक्लेदं शोणितप्रभवाविलम् ॥ 006c
तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन् । 007a
'तथा नरकगर्तस्थस्तृष्णारज्जुभिराचितः । 007c
पुण्यपापप्रणुन्नाङ्गो जायते स यथा कृमिः ॥ 007e
मशकैर्मत्कुणैर्दष्टस्तथा चित्रवधार्दितः । 008a
नानाव्याधिभिराकीर्णः कथञ्चिद्यौवनं गतः ॥ 008c
कूर्मोत्सृजति भूयश्च रज्जुः स्वस्वमुखेप्सया । 009a
योषितं नरकं गृह्य जन्मकर्मवशानुगः ॥ 009c
पुरक्षेत्रनिमित्तं यद्दुःखं वक्तुं न शक्यते । 010a
कस्तत्र निन्दकश्चैव नरके पच्यते भृशम् ॥ 010c
वार्धक्यमनुलङ्घेत तत्र कर्मारभेत्पुनः । 011a
भगवान्संस्तुतः पश्चात्किं प्रवक्ष्यामि ते भृशम् ॥' 011c
संसारतन्त्रवाहिन्यस्तत्र बुद्ध्येत योषितः । 012a
प्रकृत्याः क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः । 012c
तस्मादेवाविशेषेण नरोऽतीयाद्विशेषतः ॥ 012e
कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् । 013a
रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी ॥ 013c
तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः । 014a
स्वदेहजानस्वसञ्ज्ञान्यद्वदङ्गात्कृमींस्त्यजेत् । 014c
स्वसञ्ज्ञानस्वकांस्तद्वत्सुतसञ्ज्ञान्कृमींस्त्यजेत् ॥ 014e
शुक्रतो रसतश्चैव देहाज्जायन्ति जन्तवः । 015a
स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् ॥ 015c
रजस्तमसि पर्यस्तं सत्वं च रजसि स्थितम् । 016a
ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहङ्कारलक्षणम् ॥ 016c
तद्बीजं देहिनामाहुस्तद्बीजं जीवसञ्ज्ञितम् । 017a
कर्मणा कालयुक्तेन संसारपरिवर्तनम् ॥ 017c
रमत्ययं यथा स्वप्ने मनसा देहवानिव । 018a
कर्मगर्भैर्गुणैर्देही गर्भे तदुपलभ्यते ॥ 018c
कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् । 019a
जायते तदहङ्काराद्रागयुक्तेन चेतसा ॥ 019c
शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः । 020a
रूपरागात्तथा चक्षुर्घ्राणं गन्धजिघृक्षया ॥ 020c
संस्पर्शेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः । 021a
व्यानोदानौ समानश्च पञ्चधा देहयापनम् ॥ 021c
सञ्जातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः । 022a
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ॥ 022c
दुःखं विद्यादुपादानादभिमानाच्च वर्धते । 023a
त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते ॥ 023c
इन्द्रियाणां रजस्येव प्रलयप्रभवावुभौ । 024a
परीक्ष्य सञ्चरेद्विद्वान्यथावच्छास्त्रचक्षुषा ॥ 024c
ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् । 025a
ज्ञानैश्च करणैर्देही न देहं पुनरर्हति ॥ 025c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥
12-215-12 तस्मादेव विशेषेण विनश्येयुर्विपश्चितः इति थ. पाठः । तस्मादेता विशेषेण नरा नेयुर्विपश्चितः इति थ. पाठः ॥ 12-215-13 शत्रुमारणार्थं मन्त्रमयी शक्तिः कृत्या सैव एताः ॥ 12-215-14 स्नहोज्जायन्ति जन्तव इति थ. ध. पाठः ॥ 12-215-17 तद्बीजं बीजसञ्ज्ञितमिति ध. पाठः । तत्संस्थं देहबन्धनमिति थ. पाठः । तज्ज्ञानं जीवसंस्थितमिति ट. पाठः ॥