अध्यायः 214
भीष्मेण युधिष्ठिरम् प्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मानुवादः ॥ 1 ॥
गुरुरुवाच 001
प्रवृत्तिलक्षणो धर्मो यथा समुपलभ्यते । 001a
तेषां विज्ञाननिष्ठानामन्यत्तत्वं न रोचते ॥ 001c
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः । 002a
प्रयोजनं महत्त्वात्तु मार्गमिच्छन्ति संस्तुतम् ॥ 002c
'वेदस्य न विदुर्भावं ज्ञानमार्गप्रतिष्ठितम् ।' 003a
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम् । 003c
इयं सा बुद्धिरभ्येत्य यथा याति परां गतिम् ॥ 003e
शरीरवानुपादत्ते मोहात्सर्वान्परिग्रहान् । 004a
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः ॥ 004c
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम् । 005a
कर्मणां विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् ॥ 005c
लोहयुक्तं तथा हेम विपक्वं न विराजते । 006a
तथाऽपक्वकषायाख्यं विज्ञानं न प्रकाशते ॥ 006c
'केचिदात्मगुणं प्राप्तास्ते मुक्ताश्चक्रबन्धनात् । 007a
इतरे दुःखसन्द्वन्द्वास्तथा दुःखपरायणाः ॥ 007c
शुकाकर्मानुरूपं ते जायमानाः पुनः पुनः । 008a
क्रोधलोभमदाविष्टा मूढान्तःकरणाः सदा ॥ 008c
यथा— सञ्छाया नास्ति नित्यतया परा । 009a
गुणानेव तथा चिन्त्या सन्त्येति च विदुर्बुधाः ॥' 009c
यश्चाधर्मं चरेल्लोभात्कामक्रोधावनुप्लुवन् । 010a
धर्म्यं पन्थानमुत्क्रम्य सानुबन्धो विनश्यति ॥ 010c
'अचलं ज्ञानमप्राप्य चलचित्तश्चलानियात् ।' 011a
शब्दादीन्विषयांस्तस्मान्न संरागादुपप्लवेत् । 011c
क्रोधो हर्षो विषादश्च जायन्ते हि परस्परात् ॥ 011e
'गुणाः कार्याः क्रोधहर्षौ सुखदुःखे प्रियाप्रिये । 012a
द्वन्द्वान्यथैवमादीनि विजयेच्चैव सर्ववित् ॥' 012c
पञ्चभूतात्मके देहे सत्त्वराजसतामसे । 013a
कमभिष्टुवते चायं कं वा क्रोशति किं वदन् ॥ 013c
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः । 014a
नावगच्छन्ति विज्ञानादात्मानं पार्थिवं गुणम् ॥ 014c
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते । 015a
पार्थिवोऽयं तथा देहो मृद्विकारान्न नश्यति ॥ 015c
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः । 016a
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा ॥ 016c
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् । 017a
ग्राम्यमाहारमादद्यादस्वाद्वपि हि यापनम् ॥ 017c
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः । 018a
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा ॥ 018c
'भक्षणे श्वापदैर्मार्गादिति चारं करोति चेत् । 019a
एवं संसारमार्गेण यात्रार्थं विषयाणि च ॥ 019c
न गच्छेद्भोगविज्ञानादुन्मार्गे पद्यते तदा । 020a
तस्माददुःखतो मार्गमास्थितस्तमनुस्मरेत् ॥ 020c
नानापर्णफला वृक्षा बहवः सन्ति तत्र हि । 021a
भोक्तारो मुनयश्चैव तस्मात्परतरं वनम् ॥ 021c
अनुमानैस्तथाशास्त्रैर्यशसा विक्रमेण च ।' 022a
सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च । 022c
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च ॥ 022e
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् । 023a
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च ॥ 023c
सत्त्वेन रजसा चैव तमसा चैव मोहिताः । 024a
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् ॥ 024c
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसम्भवान् । 025a
अज्ञानप्रभवं नित्यमहङ्कारं परित्यजेत् ॥ 025c
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः । 026a
'देहमूलं विजानीहि नैतानि भगवानतः ॥ 026c
उपायतः प्रवक्ष्यामि तं च मृत्युं दुरासदम् ।' 027a
त्रैलोक्यं सेश्वरं सर्वमहङ्कारे प्रतिष्ठितम् ॥ 027c
यथेह नियतः कालो दर्शयत्यार्तवान्गुणान् । 028a
तद्वद्भूतेष्वहङ्कारं विद्याद्भूतप्रवर्तकम् ॥ 028c
सम्मोहकं तमो विद्यात्कृष्णमज्ञानसम्भवम् । 029a
प्रकृतेर्गुणसञ्जातो महानहङ्क्रिया ततः ॥ 029c
अहङ्कारात्पुनः पश्चाद्भूतग्राममुदाहृतम् । 030a
अव्यक्तस्य गुणेभ्यस्तु तद्गुणांश्च निबोध तान् ॥ 030c
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् । 031a
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान् ॥ 031c
प्रसादो हर्षजा प्रीतिरसन्देहो धृतिः स्मृतिः । 032a
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् ॥ 032c
'असन्तोषोऽक्षमाऽधैर्यमतृप्तिर्विषयादिषु । 033a
राजसाश्च गुणा ह्येते तत्परं तामसाञ्शृणु ॥ 033c
मोहस्तन्द्री तथा दुःखं निद्राऽऽलस्यं प्रमादता । 034a
विषादी दीर्घसूत्रश्च तत्तामसमुदाहृतम् ॥' 034c
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः । 035a
विषादशोकावरतिर्मानदर्पावनार्यता ॥ 035c
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम् । 036a
विमृशेदात्मसंस्थानमेकैकमनुसन्ततम् ॥ 036c
'यस्मिन्प्रतिष्ठितं चेदं यस्मिन्सज्ज्ञाननिर्गतिः । 037a
सर्वभूताधिकं नित्यमहङ्कारं विलोकयेत् ॥ 037c
विलोकमानः स तदा स्वबुद्ध्या सूक्ष्मया पुनः । 038a
तदेव भाति तद्रूपमात्मना यत्सुनिर्मलम् ॥' 038c
शिष्य उवाच 039
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः | 039a
के पुनः पुनरायान्ति के मोहादचला इव ॥ 039c
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः । 040a
'एतन्मे सर्वमाचक्ष्व यथा विद्यामहं विभो । 040c
मह्यं शुश्रूषवे विद्वन्वक्ष्येतद्बुद्धिनिश्चितम् ॥ 040e
शान्तत्वादपरान्ताच्च आरम्भादपि चैकतः । 041a
प्रोक्तो ह्यत्र यथा हेतुरेवमाहुर्मनीषिणः ॥ 041c
गुरुरुवाच' 042
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते । 042a
विनाशयति सम्भूतमयस्मयमयो यथा । 042c
तथा कृतात्मा सहजैर्दोषैर्नश्यति राजसैः ॥ 042e
'सहजैरविशुद्धात्मा दोषैर्नश्यति तामसैः ।' 043a
राजसं तामसं चैव शुद्धात्मा कालसम्भवम् ॥ 043c
'शमयेत्सत्त्वमास्थाय बुद्ध्या केवलया द्विजः । 044a
त्यजेच्च मनसा चेतः शुद्धात्मा बुद्धिमास्थितः |' 044c
तत्सर्वं देहिनां बीजं सत्त्वमात्मवतः समम् । 045a
तस्मादात्मवता वर्ज्यं रजश्च तम एव च ॥ 045c
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् । 046a
'आहारान्वर्जयेन्नित्यं राजसांस्तामसानपि ॥ 046c
ते ब्रह्म पुनरायान्ति न मोहादचला इव ।' 047a
अथवा मन्त्रवद्ब्रूयुर्मांसादीनां यजुष्कृतम् ॥ 047c
स वै हेतुरनादाने शुद्धधर्मानुपालने । 048a
रजसा कामयुक्तानि कार्याण्यपि समाप्नुते ॥ 048c
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते । 049a
तमसा लोभयुक्तानि क्रोधजानि च सेवते । 049c
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः ॥ 049e
सत्वस्थः सात्विकान्भावाञ्शुद्धान्पश्यति संश्रितः । 050a
स देही विमलः श्रीमाञ्श्रद्धाविद्यासमन्वितः ॥ 050c
इति श्रीमन्महाभारते शान्तिप्रवणि मोक्षधर्मपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥
12-214-9 प्रयोजनमत्तत्त्वात्तु इति ट. थ. पाठः ॥ 12-214-15 मृद्विकारैर्विलिप्यते इति ध. पाठः ॥ 12-214-23 यथावृत्तान्समीक्ष्य विषयात्मकान् इति झ. पाठः ॥ 12-214-40 वक्षि ब्रूहि । वच परिभाषण इति धातोर्लोटि मध्यमपुरुषैकवचनम् ॥