अध्यायः 213

भीष्मेम युधिष्ठिरम् प्रति शिष्यम् प्रत्युक्तजगत्सृष्ट्यादिप्रतिपादकगुरुवाक्यानुवादः ॥ 1 ॥ गुरुरुवाच 001
चतुर्विधानि भूतानि स्थावराणि चराणि च । 001a
अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च । 001c
अव्यक्तलक्षणं विद्यादव्यक्तात्मात्मकं मनः ॥ 001e
यथाऽश्वत्थकणीकायामन्तर्भूतो महाद्रुमः । 002a
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्सम्भवस्तथा ॥ 002c
'आत्मानमनुसंयाति बुद्धिरव्यक्तजा तथा । 003a
तामन्वेति मनो यद्वल्लोहवर्मणि सन्निधौ ॥' 003c
अभिद्रवत्ययस्कान्तमयोनिश्चेतनं यथा । 004a
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ॥ 004c
तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः । 005a
अचेतनाश्चेतयितुः कारणादभिसङ्गताः ॥ 005c
न भूर्न खं द्यौर्भूतानि नर्षयो न सुरासुराः । 006a
नान्यदासीदृते जीवमासेदुर्न तु संहतिम् ॥ 006c
सर्वं नित्यं सर्वगतं मनोहेतुत्वलक्षणम् । 007a
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् ॥ 007c
तत्कारणेन संयुक्तं कार्यसङ्ग्रहकारकम् । 008a
येनैतद्वर्तते चक्रमनादिनिधनं महत् ॥ 008c
'येन स्वभावसद्भावं हेतुभूता सकारणा । 009a
एवं प्राकृतविस्तारो ह्याश्रित्य पुरुषं परम् ॥' 009c
अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् । 010a
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥ 010c
स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् । 011a
तिलपीडैरिवाक्रम्य भोगैरज्ञानसम्भवैः ॥ 011c
'प्राणेनायं हि शान्ते तु विरोधात्प्रतिपालनम् । 012a
देहस्येषून्य आस्ते यः शुद्धोऽचिन्त्यः सनातनः ॥ 012c
भ्रामयन्नेषतो याति कालचक्रसमन्वितः । 013a
भूतानि मोहयन्नित्यं चक्रस्य च रयं गतः ॥ 013c
स्नेहद्रव्यसमायोगे क्षेत्रपाचं न वस्तुषु । 014a
तिलवत्पीडिते चक्रे ह्याधियन्त्रनिपीडिते । 014c
बहिश्चाधिष्ठिते यद्वज्ज्ञानिनां कर्मसम्भवम् ॥' 014e
कर्म तत्कुरुते तर्षादहङ्कारपरिग्रहम् । 015a
कार्यकारणसंयोगे स हेतुरुपपादितः ॥ 015c
'यथाऽऽकर्ण्य च तच्छिष्यस्तत्वज्ञानमनुत्तमम् ।' 016a
नात्येति कारणं कार्यं न कार्यं कारणं तथा । 016c
कार्याण्यमूनि करणे कालो भवति हेतुमान् ॥ 016e
हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् । 017a
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा ॥ 017c
सत्वरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः । 018a
क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा ॥ 018c
न च तैः स्पृश्यते भावैर्न ते तेन महात्मना । 019a
सरजस्कोऽरजस्कश्च स वै वायुर्भवेद्यथा ॥ 019c
तथैतदन्तरं विद्यात्सत्वक्षेत्रज्ञयोर्बुधः । 020a
अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः ॥ 020c
सन्देहमेतमुत्पन्नमच्छिनद्भगवानृषिः । 021a
तथा वार्तां समीक्षेत कृतलक्षणसंविदम् ॥ 021c
बीजान्यग्न्युपदग्धानि नरो हन्ति यथा पुनः । 022a
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ 022c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयोदशाधिकद्विशततमोऽध्यायः ॥ 213 ॥

12-213-9 विद्यादव्यक्तात्मकमेव च इति थ. पाठः ॥ 12-213-16 कार्यव्यक्तेन करणे इति झ. पाठः ॥ 12-213-18 राजसैस्तामसैर्भावैः इति झ. पाठः ॥