अध्यायः 212

भीष्मेण युधिष्ठिरम् प्रति शिष्याय गुरूक्तवार्ष्णेयाध्यात्मत्वानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
योगं मे परमं तात मोक्षस्य वद भारत । 001a
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतांवर ॥ 001c
'भूयोपि ज्ञानसद्भावे स्थित्यर्थं त्वां ब्रवीम्यहम् । 002a
अचिन्त्यं वासुदेवाख्यं तस्मात्प्रब्रूहि सत्तम ॥' 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ 003c
कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् । 004a
तेजोराशिं महात्मानं सत्यसन्धं जितेन्द्रियम् ॥ 004c
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः । 005a
चरणावुपसङ्गृह्य स्थितः प्राञ्जलिरब्रवीत् ॥ 005c
उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम । 006a
संशयो मे महान्कश्चित्तं मे व्याख्यातुमर्हसि । 006c
कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् ॥ 006e
कथं च सर्वभूतेषु समेषु द्विजसत्तम । 007a
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः ॥ 007c
वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् । 008a
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि ॥ 008c
गुरुरुवाच 009
शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् । 009a
अध्यात्मं सर्वभूतानामागमानां च यद्वसु ॥ 009c
वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम् । 010a
सत्यं दानं तपो यज्ञस्तितिक्षा दम आर्जवम् ॥ 010c
पुरुषं सनातनं विष्णुं यं तं वेदविदो विदुः । 011a
सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ॥ 011c
तदिदं ब्रह्म वार्ष्णोयमितिहासं शृणुष्व मे । 012a
ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा ॥ 012c
[वैश्यो वैश्यैस्तथा श्राव्यः शूद्रः शूद्रैर्महामनाः ।] 013a
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ॥ 013c
अर्हस्त्वमसि कल्याणं वार्ष्णेयाध्यात्ममुत्तमम् ॥ 014ac
'यमच्युतं परं नित्यं लिङ्गहीनं च निर्मलम् । 015a
निर्वाणममृतं श्रीमत्तद्विष्णोः परमं पदम् ॥ 015c
भवे च भेदवद्भिन्नं प्रदानं गुणकारकम् । 016a
तस्मिन्न सज्यते नित्यं स एष पुरुषोऽपरः ॥ 016c
पुरुषाधिष्ठितं नित्यं प्रधानं ब्रह्म कारणम् । 017a
कालस्वरूपं रूपेण विष्णुना प्रभविष्णुना ॥ 017c
क्षोभ्यमाणं सृजत्येव नानाभूतानि भागशः । 018a
तद्दृष्ट्वा पुरुषोतत्वं साक्षीभूत्वा प्रवर्तते । 018c
तत्प्रविश्य यथायोगमभिन्नो भिन्नलक्षणः ॥' 018e
कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् । 019a
त्रैलोक्ये सर्वभूतेषु चक्रवत्परिवर्तते ॥ 019c
यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् । 020a
वदन्ति पुरुषव्याघ्र केशवं पुरुषर्षभम् ॥ 020c
'तदक्षरमचिन्त्यं वै भिन्नरूपेण दृश्यते । 021a
पश्य कालाख्यमनिशं न चोष्णं नातिशीतलम् ॥ 021c
न सन्त्येते गुणास्तस्मिन्तथा तस्मात्प्रवर्तते । 022a
शीतलोऽयमनुप्राप्तः कालो ग्रीष्मस्तथैव च ॥ 022c
वक्ष्यन्ति सर्वभूतानि ह्येते सूर्योदयं प्रति । 023a
आगच्छन्ति निवर्तन्ति स कालो गुणराशयः ॥ 023c
न चैव प्रकृतिस्थेन कालयुक्तेन नित्यशः । 024a
गुणैः सम्भोगमरतिस्तत्वविज्ञानकोविदम् । 024c
पुरुषाधिष्ठिता नित्यं प्रकृतिः सूयते परा ॥' 024e
पितॄन्देवानृषींश्चैव तथा वै यक्षराक्षसान् । 025a
नागासुरमनुष्यांश्च सृजते मनसाऽव्ययः ॥ 025c
तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् । 026a
प्रलये प्रकृतिं यातान्युगादौ सृजते पुनः ॥ 026c
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । 027a
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ 027c
अथ यद्यद्यदा भावि कालयोगाद्युगादिषु । 028a
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ॥ 028c
'श्रुतिरेषा समाख्याता तदर्थं कारणात्मना । 029a
अनाम्नायविधानाद्वै वेदा ह्यन्तर्हिता यथा ॥' 029c
युगान्ते ह्यस्तभूतानि शास्त्राणि विविधानि च । 030a
सर्वसत्वविना द्वै जीवात्मनित्यया स्मृताः । 030c
अन्यस्मिन्नण्डसद्भावे वर्तमानानि नित्यशः ॥ 030e
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः । 031a
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ॥ 031c
'नियोगाद्ब्रह्मणो विप्रा लोकतन्त्रप्रवर्तकाः ।' 032a
वेदविद्भगवान्ब्रह्मा वेदाङ्गानि बृहस्पतिः । 032c
भार्गवो नीतिशास्त्रं तु जगाद जगतो हितम् ॥ 032e
गान्धर्वं नारदो वेद भरद्वाजो धनुर्ग्रहम् । 033a
देवर्षिचरितं गर्गो कृष्णात्रेयश्चिकित्सितम् ॥ 033c
'न्यायतन्त्रं हि कार्त्स्न्येन गौतमो वेद तत्वतः । 034a
वेदान्तकर्मयोगं च वेदविद्ब्रह्मविद्विभुः । 034c
द्वैपायनो निजग्राह शिल्पशास्त्रं भृगुः पुनः ॥ 034e
न्यायतन्त्राण्यनेकानि तस्तैरुक्तानि वादिभिः । 035a
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ॥ 035c
अनाद्यं तत्परं ब्रह्म न देवा नर्षयो विदुः । 036a
एकस्तद्वेद भगवान्धाता नारायणः प्रभुः ॥ 036c
नारायणादृषिगणास्तथा मुख्याः सुरासुराः । 037a
राजर्षयः पुराणाश्च परमं दुःखभेषजम् । 037c
'वक्ष्येऽहं तव यत्प्राप्तमृषेद्वैपायनान्मया ॥' 037e
पुरुषाधिष्ठितान्भावान्प्रकृतिः सूयते यदा । 038a
हेतुयुक्तमतः पूर्वं जगत्सम्परिवर्तते ॥ 038c
दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः । 039a
प्रकृतिः सूयते तद्वदानन्त्यान्नापचीयते ॥ 039c
अव्यक्तकर्मजा बुद्धिरहङ्कारं प्रसूयते । 040a
आकाशं चाप्यहङ्काराद्वायुराकाशसम्भवः ॥ 040c
वायोस्तेजस्ततश्चाप अद्भ्योऽथ वसुधोद्गता । 041a
मूलप्रकृतयो ह्यष्टौ जगदेतास्ववस्थितम् ॥ 041c
ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि । 042a
विषयाः पञ्च चैकं च विकाराः षोडशं मनः ॥ 042c
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियाण्यथ । 043a
पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणी अपि ॥ 043c
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । 044a
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ॥ 044c
'बुद्धीन्द्रियार्था इत्युक्ता दशसंसर्गयोनयः । 045a
सदसद्भावयोगे च मन इत्यभिधीयते ॥ 045c
व्यवसायगुणा बुद्धिरहङ्कारोऽभिमानकः । 046a
न बीजं देहयोगे च कर्मबीजप्रवर्तनात् ॥' 046c
रसज्ञाने तु जिह्वेयं व्याहृते वाक्यथैव च । 047a
इन्द्रियैर्विविधैर्युक्तं सर्वैर्व्यस्तं मनस्तथा ॥ 047c
विद्यात्तु षोडशैतानि दैवतानि विभागशः । 048a
देहेषु ज्ञानकर्तारमुपासीनमुपासते ॥ 048c
तत्र सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः । 049a
श्रोत्रे शब्दगुणे चैव चक्षुरग्नेर्गुणस्तथा । 049c
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ॥ 049e
मनः सत्वगुणं प्राहुः सत्वमव्यक्तजं तथा । 050a
सर्वभूतात्मभूतस्थं तस्माद्बुद्ध्येत बुद्धिमान् ॥ 050c
एते भावा जगत्सर्वं वहन्ति सचराचरम् । 051a
श्रिता विरजसं देवं यमाहुः परमं पदम् ॥ 051c
नवद्वारं पुरं पुण्यमेतैर्भावैः स्मन्वितम् । 052a
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ॥ 052c
अजरश्चामरश्चैव व्यक्ताव्यक्तोपदेशवान् । 053a
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ॥ 053c
यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् । 054a
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ॥ 054c
श्रोत्रं वेदयते वेद्यं स शृणोति स पश्यति । 055a
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् ॥ 055c
अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते । 056a
तथैवात्मा शरीरस्थ ऋते योगान्न दृश्यते ॥ 056c
अग्निर्यथा ह्युपायेन मथित्वा दारु दृश्यते । 057a
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥ 057c
नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः । 058a
सन्तन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ॥ 058c
स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमायुतः । 059a
देहमुत्सृज्य वै याति तथैवात्मोपलभ्यते ॥ 059c
कर्मणा व्याप्यते सर्वं कर्मणैवोपपद्यते । 060a
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा ॥ 060c
स तु देहाद्यथा देहं त्यक्त्वाऽन्यं प्रतिपद्यते । 061a
तथा तं सम्प्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ॥ 061c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥

12-212-7-8 भूतेषु पञ्चसूपादानकारणेषु समेषु सत्सु विपरीता विषमाः कथं क्षयोदया निवर्तन्ते नितरां वर्तन्ते । वेदेषु यद्वाक्यं वर्णधर्मव्यवस्थापरं, लौकिकं स्मृतिवाक्यं तादृशं व्यापकं सर्ववर्णाश्रमसाधारणम् इदमपि कथम् । हेतुसाम्येऽपि कार्यवैषम्ये किं बीजं तद्ब्रूहीत्यर्थः । श्लोकद्वयमेकं वाक्यम् ॥ 12-212-9 ब्रह्म गुह्यं वेदगोप्यम् । वसु धनं तद्वद्रक्षणीयमुपकारकं वा ॥ 12-212-10 ब्रह्मणो मुखं वेदादिः प्रणवः । उपायोपेययोरभेदात्प्रणवादीनां वासुदेवत्वम् ॥ 12-212-11 उपेयस्वरूपमाह पुरुषमिति ॥ 12-212-12 एतदेवायं कृष्ण इत्याह तदिति । वार्ष्णेयं वृष्णिषु कृतावतारम् । इतिहासं तत्स्वरूपप्रकाशनपरं ग्रन्थम् । राजन्यः क्षत्रियस्तथेति ड. पाठः ॥ 12-212-27 भावाभावौ सृष्टिप्रलयौ स्वलक्षणं स्वरूपज्ञापकौ यस्य । प्रत्यब्दं यथा वसन्तादिष्वाम्रादयो नियमेन पुष्पिता भवन्त्येवं ब्रह्महरविष्णुषु प्रतिकल्पं सृष्टिप्रलयस्थितिकर्तृत्वं तदातदा आविर्भवति । तथा ब्रह्महरादिषु इति ट. पाठः । ब्रह्मापरादिष्विति ड. पाठः । ब्रह्माक्षरादिष्विति ध. पाठः ॥ 12-212-31 अनुज्ञाता उपदिष्टाः । स्वयम्भुवा ब्रह्मणा ॥ 12-212-33 दत्तात्रेयश्चिकित्सितमिति ट. ड. पाठः ॥ 12-212-35 हेतुर्युक्तिः । आगमो वेदः । सदाचारः प्रत्यक्षम् । तैः प्रमाणैः ॥ 12-212-36 अनाद्यं नास्ति आद्यं कारणं यस्य तत् ॥ 12-212-42 शब्दादिविषयाः पञ्च विकाराः इति थ. पाठः ॥ 12-212-43 वाक्कर्मणामपि इति थ. पाठः ॥ 12-212-48 ज्ञानकर्तार उदासीनमुपासते इति ध. पाठः ॥ 12-212-49 श्रोत्रं नभोगुणं चैव इति झ. पाठः ॥ 12-212-50 ईश्वरस्तत्स्थमुपाधित्वेन तत्र स्थितं सर्वान्तरङ्गं सत्त्वं जानीयात् । सत्त्वविशिष्टस्य ज्ञेयत्वेऽपि चिद्विवेके परिशेषादचितः सत्वस्यैव ज्ञेयत्वमस्तीति सत्वमेव बुद्भ्येतेत्युक्तम् ॥ 12-212-51 यमाहु प्रकृतेः परमिति झ. पाठः ॥ 12-212-52 व्यापकः स गुणैः सूक्ष्मः इति थ. पाठः ॥ 12-212-55 भेदेनैवात्र दृश्यते इति ट. थ. पाठः । शरीरस्थो योगेनैवानुदृश्यते इति झ. पाठः ॥ 12-212-57 सन्ततत्वाद्यथा यान्ति इति झ. पाठः ॥ 12-212-59 कर्मणा जायते पूर्वम् इति ट. पाठः । कर्मणा बाध्यते रूपम् इति झ. पाठः ॥