अध्यायः 211

भीष्मेण युधिष्ठिरम् प्रति गरुडेनात्मानम् प्रत्युक्तश्रीभगवन्महिमानुवादः ॥ 1 ॥

  • युधिष्ठिर उवाच 001
    देवासुरमनुष्येषु ऋषिमुख्येषु वा पुनः । 001a
    विष्णोस्तत्वं यथाख्यातं को विद्वाननुवेत्ति तत् ॥ 001c
    एतन्मे सर्वमाचक्ष्व न मे तृप्तिर्हि तत्वतः । 002a
    वर्तते भरतश्रेष्ठ सर्वज्ञोऽसीति मे मतिः ॥ 002c
    भीष्म उवाच 003
    कारितोऽहं त्वया राजन्यद्वृत्तं च पुरा मम । 003a
    गरुडेन पुरा मह्यं संवादोऽभूभृतोत्तम ॥ 003c
    पुराहं तप आस्थाय वासुदेवपरायणः । 004a
    ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेवच । 004c
    गङ्गाद्वीपे समासीनो दशवर्षाणि भारत ॥ 004e
    माता च मम सा देवी जननी लोकपावनी । 005a
    समासीना समीपे मे रक्षणार्थं ममाच्युत ॥ 005c
    तस्मिन्कालेऽद्भुतः श्रीमान्सर्ववेदमयः प्रभुः । 006a
    सुपर्णः पततांश्रेष्ठो मेरुमन्दरसन्निभः । 006c
    आजगाम विशुद्धात्मा गङ्गां द्रष्टुं महायशाः ॥ 006e
    तमागतं महात्मानं प्रत्युद्गम्याहमर्थितः । 007a
    प्रणिपत्य यथान्यायं कृताञ्जलिरवस्थितः ॥ 007c
    सोऽपि देवो महाभागामभिनन्द्य च जाह्नवीम् । 008a
    तथा च पूजितः श्रीमानुणपोपाविशदासने ॥ 008c
    ततः कथान्तरे तं वै वचनं चेदमब्रवम् । 009a
    वेदवेद महावीर्य वैनतेय महाबल ॥ 009c
    नारायणं हृषीकेशं सहमानोऽनिशं हरिम् । 010a
    जानासि तं यथा वक्तुं यादृग्भूतो जनार्दनः । 010c
    ममापि तस्य सद्भावं वक्तुमर्हसि सत्तम ॥ 010e
    गरुड उवाच 011
    शृणु भीष्म यथान्यायं पुरा त्वमिह सत्तमाः । 011a
    अनेके मुनयः सिद्धा मानसोत्तरवासिनः | 011c
    पप्रच्छुर्मां महाप्राज्ञा वासुदेवपरायणाः ॥ 011e
    पक्षीन्द्र वासुदेवस्य तत्वं वेत्सि परं पदम् । 012a
    स्वसा सयो न तस्यास्ति सन्निकृष्टप्रियोपि च ॥ 012c
    तेषामहं वचः श्रुत्वा प्रणिपत्य महाहरिम् । 013a
    अब्रवं च यथावृत्तं मम नारायणस्य च ॥ 013c
    शृणुध्वं मुनिशार्दूला हृत्वा सोममहं पुरा । 014a
    आकाशे पतमानस्तु वाक्यं तत्र शृणोमि वै ॥ 014c
    साधुसाधु महाबाहो प्रीतोस्मि तव दर्शनात् । 015a
    वृणीष्व वचनं मत्तः पक्षीन्द्र गरुडाधुना ॥ 015c
    त्वामहं भक्तितत्वज्ञो ब्रवै वचनमुत्तमम् । 016a
    इत्याह स्म ध्रुवं तत्र मामाह भगवान्पुनः ॥ 016c
    ऋषिरस्मि महावीर्य न मां जानाति वा मयि । 017a
    असूयति च मां मूढ तच्छ्रुत्वा गर्वमास्थितः ॥ 017c
    अहं देवनिकायानां मध्ये वचनमब्रवम् । 018a
    ऋषे पूर्वं वरं मत्तस्त्वं वृणीष्व ततो ह्यहम् । 018c
    वृणे त्वत्तो वरं पश्चादित्येवं मुनिसत्तमाः ॥ 018e
    तस्मात्त्वां भगवान्देवः श्रीमाञ्श्रीवत्सलक्षणः । 019a
    अद्य पश्यति पक्षीन्द्र वाहनं भव मे सदा । 019c
    वृणेऽहं वरमेतद्धि त्वत्तोऽद्य पतगेश्वर ॥ 019e
    तथेति तं वीक्ष्य मातामनहङ्कारमास्थितम् । 020a
    जेतुकामो ह्यहं विष्णुं मायया मायिनं हरिम् ॥ 020c
    त्वत्तो ह्यहं वृणे त्वद्य वरम् ऋषिवरोत्तम । 021a
    तवोपरिष्टात्स्थास्यामि वरमेतत्प्रयच्छ मे ॥ 021c
    तथेति च हसन्प्राह हरिर्नारायणः प्रभुः । 022a
    ध्वजं च मे भव सदा त्वमेव विहगेश्वर । 022c
    उपरिष्टात्स्थितिस्तेऽस्तु मम पक्षीन्द्र सर्वदा ॥ 022e
    इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः । 023a
    सहस्रचरणः श्रीमान्सहस्रादित्यसन्निभः ॥ 023c
    सहस्रशीर्षा पुरुषः सहस्रनयनो महान् । 024a
    सहस्रमकुटोऽचिन्त्यः सहस्रवदनो विभुः ॥ 024c
    विद्युन्मालानिभैर्दिव्यैर्नानाभरणराजिभिः । 025a
    क्वचित्सन्दृश्यमानस्तु चतुर्बाहुः क्वचिद्धरिः ॥ 025c
    क्वचिज्ज्योतिर्मयोचिन्त्यः क्वचित्स्कन्धे समाहितः । 026a
    एवं मम जयन्देवस्तत्रैवान्तरधीयत ॥ 026c
    ततोऽहं विस्मयापन्नः कृत्वा कार्यमनुत्तमम् । 027a
    अस्याविमुच्य जननीं मया सह मुनीश्वराः ॥ 027c
    अचिन्त्योऽयमहं भूयः कोऽसौ मामब्रवीत्पुरा । 028a
    कीदृग्विधः स भगवानिति मत्वा तमास्थितः ॥ 028c
    अनन्तरं देवदेवं स्कन्धे मम समाश्रितम् । 029a
    अद्राक्षं पुण्डरीकाक्षं वहमानोऽहमद्भुतम् ॥ 029c
    अवशस्तस्य भावेन यत्र यत्र स चेच्छति । 030a
    विस्मयापन्नहृदयो ह्यहं किमिति चिन्तयन् । 030c
    अन्तर्जलमहं सर्वं वहमानोऽगमं पुनः ॥ 030e
    सेन्द्रैर्देवैर्महाभागैर्ब्रह्माद्यैः कल्पजीविभिः । 031a
    स्तूयमानो ह्यहमपि तैस्तैरभ्यर्चितः पृथक् ॥ 031c
    क्षीरोदस्योत्तरे कूले दिव्ये मणिमये शुभे । 032a
    वैकर्णनाम सदनं हरेस्तस्य महात्मनः ॥ 032c
    दिव्यं तेजोमयं श्रीमदचिन्त्यममरैरपि । 033a
    तेजोनिलमयैः स्तम्भैर्नानासंस्थानसंस्थितैः ॥ 033c
    विभूषितं हिरण्येन भास्वरेण समन्ततः । 034a
    दिव्यं ज्योतिः समायुक्तं गीतवादित्रशोभितम् ॥ 034c
    शृणोमि शब्दं तत्राहं न पश्यामि शरीरिणम् । 035a
    न च स्थलं न चान्यच्च पादयोस्तं समन्ततः । 035c
    वेपमानो ह्यहं तत्र विष्ठितोऽहं कृताञ्जलिः ॥ 035e
    ततो ब्रह्मादयो देवा लोकपालास्तथैव च । 036a
    सनन्दनाद्या मुनयस्तथाऽन्ये परजीविनः ॥ 036c
    प्राप्तास्तत्र सभाद्वारि देवगन्धर्वसत्तमाः । 037a
    ब्रह्माणं परतः कृत्वा कृताञ्जलिपुटास्तदा ॥ 037c
    ततस्तदन्तरे तस्मिन्क्षीरोदार्णवशीकरैः । 038a
    बोध्यमानो महाविष्णुराविर्भूत इवाबभौ ॥ 038c
    फणासहस्रमालाढ्यं शेषमव्यक्तसंस्थितम् । 039a
    पश्याम्यहं मुदाऽऽकाशे यस्योपरि जनार्दनम् ॥ 039c
    दीर्घवृत्तैः समैः पीनैः केयूरवलयोज्ज्वलैः । 040a
    चर्तुभिर्बाहुभिर्युक्तं———— ॥ 040c
    पिताम्बरेण संवीतं कौस्तुभेन विराजितम् । 041a
    वक्षस्थलेन संयुक्तं पद्मयाऽधिष्ठितेन च ॥ 041c
    ईषदुन्मीलिताक्षं तं सर्वकारणकारणम् । 042a
    क्षीरोदस्योपरि बभौ नीलाभ्रं परमं यथा ॥ 042c
    न कश्चिद्वदते कश्चिन्न व्याहरति कश्चन । 043a
    ब्रह्मादिस्तम्बपर्यन्तं माशब्दमिति रोषितम् । 043c
    भ्रुकुटीकुटिलाक्षास्ते नानाभूतगणाः स्थिताः ॥ 043e
    कृत्वा च प्रस्थितं तत्र जगतां हितकाम्यया । 044a
    गच्छध्वमिति मामुक्त्वा गरुडेत्याह मां ततः ॥ 044c
    ततोऽहं प्रणिपत्याग्रे कृताञ्जलिरवस्थितः । 045a
    आगच्छेति च मामुक्त्वा पूर्वोत्तरपथं गतः ॥ 045c
    अतीव मृदुभावेन गच्छन्निव स दृश्यते । 046a
    अयुतं नियुतं चाहं प्रयुतं चार्बुदं तथा । 046c
    पतमानोऽहमनिशं योजनानि ततस्ततः ॥ 046e
    ननु तत्वमहं भक्तो विष्ठितोस्मि प्रशास्तु नः । 047a
    आगच्छ गरुडेत्येवं पुनराह स माधवः ॥ 047c
    ततो भूयो ह्यहं पातं पतमानो विहायसम् । 048a
    आजगाम ततो घोरं शतकोटिसमावृतम् ॥ 048c
    तामसानीव भूतानि पर्वताभानि तत्र ह । 049a
    समानानीव पद्मानि ततोऽहं भीत आस्थितः ॥ 049c
    ततो मां किङ्करो घोरः शतयोजनमायतम् । 050a
    निगृह्य पाणिना तस्माच्चिक्षेप च स लोष्टवत् ॥ 050c
    तत्तमोऽहमतिक्रम्य ह्यापं चैव विहायसम् । 051a
    हुङ्कारघोषं तत्राहमशनीपातसन्निभान् । 051c
    कर्णमूले ह्यशृण्वन्तस्ततो भूतैः समास्थितः ॥ 051e
    ततोऽहं देवदेवेश त्राहि मां पुष्करेक्षण । 052a
    इत्यब्रवमहं तत्र ततो विष्णुरुवाच माम् ॥ 052c
    सुषिरस्य मुखे कश्चिन्मां चिक्षेप भयङ्करः । 053a
    अतीतोऽहं क्षणादग्निमपश्यं वायुमण्डलम् ॥ 053c
    आकाशमिव सम्प्रेक्ष्य क्षेप्तुकाममुपागतः । 054a
    तत्राहं दुःखितो भूतः क्रोशमानो ह्यवस्थितः ॥ 054c
    क्षणान्तरेण घोरेण क्रुद्धो हि परमात्मना । 055a
    स्वपक्षराजिना दृष्ट्वा मां चिक्षेप भयङ्करः ॥ 055c
    —–गरुडकुलं सहस्रादित्यसन्निभम् । 056a
    मां दृष्ट्वाऽप्यथ संस्थेऽथ ह्यल्पकालोऽतिदुर्बलः ॥ 056c
    अहो विहङ्गमः प्राप्त इति विस्मयमानसाः । 057a
    मां दृष्ट्वोचुरहं तत्र पश्यामि गरुडध्वजम् ॥ 057c
    सहस्रयोजनायामं सहस्रादित्यवर्चसम् । 058a
    सहस्रगरुडारूढं गरुडास्ते महाबलाः ॥ 058c
    अत्याश्चर्यमिमं देव वपुषाऽस्मत्कुलोद्भवः । 059a
    स्वल्पप्राणः स्वल्पकायः कोसौ पक्षी इहागतः ॥ 059c
    तच्छ्रुत्वाऽहं नष्टगर्वो भीतो लज्जासमन्वितः । 060a
    स्वयं बुद्धश्च संविग्नस्ततो ह्यशृणवं पुनः ॥ 060c
    आगच्छ गरुडेत्येव ततोऽहं यानमास्थितः । 061a
    परार्ध्यं च ततो गत्वा योजनानां शतं पुनः । 061c
    तत्रापश्यमहं यो वै ब्रह्माणं परमेष्ठिनम् ॥ 061e
    तत्रापि चापरं तत्र शतकोटिपितामहान् । 062a
    पुनरेहीत्युवाचोच्चैर्भगवान्मधुसूदनः ॥ 062c
    महाकुलं ततोऽपश्यं प्रमाणानि तमव्ययम् । 063a
    कपित्थफलसङ्काशमन्धकारैः समाश्रितम् ॥ 063c
    तत्र स्थितो हरिः श्रीमानण्डमेकं बिभेद ह । 064a
    महद्भूतं हि मां गृह्य दत्त्वा वै प्राक्षिपत्पुनः ॥ 064c
    तन्मध्ये सागरान्सप्त ब्रह्माणं च तथा सुरान् । 065a
    पश्याम्यहं यथायोगं मातरं स्वकुलं तथा ॥ 065c
    एवं मयाऽनुभूतं हि तत्वान्वेषणकाङ्क्षिणा । 066a
    शिबिकासदृशं मां वै पश्यध्वं मुनिसत्तमाः ॥ 066c
    इत्येवमब्रवं विप्रान्भीष्म यन्मे पुराऽभवत् । 067a
    तत्ते सर्वं यथान्यायमुक्तवानस्मि सत्तम ॥ 067c
    योगिनस्तं प्रपश्यन्ति ज्ञानं दृष्ट्वा परं हरिम् । 068a
    नान्यथा शक्यरूपोसौ ज्ञानगम्यः परः पुमान् ॥ 068c
    अनन्यया च भक्त्या च प्राप्तुं शक्यो महाहरिः ॥ 069ac
    भीष्म उवाच 070
    इत्येवमुक्त्वा भगवान्सुपर्णः पक्षिराट् प्रभुः । 070a
    आमन्त्र्य जननीं मे वै तत्रैवान्तरधीयत ॥ 070c
    तस्माद्राजेन्द्र सर्वात्मा वासुदेवः प्रधानकृत् । 071a
    ज्ञानेन भक्त्या सुलभो नान्यथेति मतिर्मम ॥' 071c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥ 211 ॥

  • अयमध्यायो ध. पुस्तक एव दृश्यते ।