अध्यायः 210

भीष्मेण युधिष्ठिरम् प्रति नारदाय श्रीनारायणोक्तस्य प्रयाणकाले श्रीभगवदनुस्मृतिप्रकारस्य कथनम् ॥ 1 ॥ 'युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद । 001a
प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः ॥ 001c
किन्नु स्मरन्कुरुश्रेष्ठ मरणे समुपस्थिते । 002a
प्राप्नुयात्परमां सिद्धिं श्रोतुमिच्छामि तत्वतः ॥ 002c
भीष्म उवाच 003
त्वद्युक्तश्च हितः सूक्ष्म उक्तः प्रश्नस्त्वयाऽनघ । 003a
शृणुष्वावहितो राजन्नारदेन पुरा श्रुतम् ॥ 003c
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम् । 004a
पुरा नारायणं देवं नारदः पर्यपृच्छत ॥ 004c
अक्षरं परमं ब्रह्म निर्गुणं तमसः परम् । 005a
आहुर्वैद्यं परं धाम ब्रह्मादिकमलोद्भवम् ॥ 005c
भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः । 006a
कथं भक्तैर्विचिन्त्योसि योगिभिर्मोक्षकाङ्क्षिभिः ॥ 006c
किन्नु जप्यं जपेन्नित्यं काल्यमुत्थाय मानवः । 007a
स्मरेच्च म्रियमाणो वै विशेषेण महाद्युते ॥ 007c
कथं युञ्जन्समाध्यायेद्ब्रूहि तत्वं सनातनम् ॥ 008ac
श्रुत्वा च नारदोक्तं तु देवानामीश्वरः स्वयम् । 009a
प्रोवाच भगवान्विष्णुर्नारदं वरदः प्रभुः ॥ 009c
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् । 010a
यामधीत्य प्रयाणे तु मद्भावायोपपद्यते ॥ 010c
ओङ्कारमग्रतः कृत्वा मां नमस्कृत्य नारद । 011a
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् ॥ 011c
ओं नमो भगवते वासुदेवायेति ॥ 012ac
इत्युक्तो नारदः प्राह प्राञ्जलिः प्रणतः स्थितः । 013a
सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् ॥ 013c
नारद उवाच 014
अव्ययं शाश्वतं देवं प्रभवं पुरुषोत्तमम् । 014a
प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम् ॥ 014c
पुराणं प्रभवं विष्णुमक्षयं लोकसाक्षिणम् । 015a
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥ 015c
लोकनाथं सहस्राक्षमद्भुतं परदं पदम् । 016a
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥ 016c
स्रष्टारं सर्वलोकानामनन्तं सर्वतोमुखम् । 017a
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ॥ 017c
हिरण्यगर्भममृतं भूगर्भं परतः परम् । 018a
प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् ॥ 018c
सहस्रशीर्षं पुरुषं महर्षिं तत्वभावनम् । 019a
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ 019c
नारायणं पुराणर्षिं योगात्मानं सनातनम् । 020a
संस्थानं सर्वतत्वानां प्रपद्ये ध्रुवमीश्वरम् ॥ 020c
यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् । 021a
परावरगुरुर्विष्णुः स मे देवः प्रसीदतु ॥ 021c
यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः सनातनः । 022a
ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु ॥ 022c
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे । 023a
ब्रह्मादिषु प्रलीनेषु नष्टे लोकपरावरे ॥ 023c
आभूतसम्प्लवे चैव प्रलीनेऽप्राकृतो महान् । 024a
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥ 024c
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । 025a
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ 025c
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये । 026a
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ॥ 026c
अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् । 027a
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥ 027c
योगावास नमस्तुभ्यं सर्वावास वरप्रद । 028a
यज्ञगर्भ हिरण्याङ्ग पञ्चयज्ञ नमोस्तु ते ॥ 028c
चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित । 029a
सर्वावास नमस्तेऽस्तु वासुदेव प्रधानकृत् ॥ 029c
अजस्त्वनामयः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत् । 030a
विकर्तः पञ्चकालज्ञ नमस्ते ज्ञानसागर ॥ 030c
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः । 031a
यस्मात्परतरं नास्ति तमस्मि शरणं गतः ॥ 031c
न प्रधानो न च महान्पुरुषश्चेतनो ह्यजः । 032a
अनयोर्यः परतरस्तमस्मि शरणं गतः ॥ 032c
चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् । 033a
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥ 033c
जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः । 034a
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥ 034c
एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः । 035a
अग्राह्यं निर्गुणं नित्यं तमस्मि शरणं गतः ॥ 035c
सोमार्काग्निमयं तेजो या च तारमयी द्युतिः । 036a
दिवि सञ्जायते योऽयं स महात्मा प्रसीदतु ॥ 036c
गुणादिर्निर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः । 037a
सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु ॥ 037c
साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः । 038a
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥ 038c
अव्यक्तः समधिष्ठाता अचिन्त्यः सदसत्परः । 039a
अस्थितिः प्रकृतिश्रेष्ठः स महात्मा प्रसीदतु ॥ 039c
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः । 040a
महान्गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥ 040c
सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता । 041a
भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु ॥ 041c
नमस्ते सर्वतः सर्वं सर्वतोक्षिशिरोमुख । 042a
निर्विकार नमस्तेऽस्तु साक्षी क्षेत्रध्रुवस्थितिः ॥ 042c
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे । 043a
ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते ॥ 043c
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः । 044a
मान्यभक्ता विजानन्ति न पुनर्भवका द्विजाः ॥ 044c
एकान्तिनो हि निर्द्वन्द्वा निराशीःकर्मकारिणः । 045a
ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ॥ 045c
अशरीरं शरीरस्थं समं सर्वेषु देहिषु । 046a
पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्राविशन्त्युत ॥ 046c
अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च । 047a
त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि ॥ 047c
एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम् । 048a
समोसि सर्वभूतेषु न ते द्वेष्योस्ति न प्रियः ॥ 048c
समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा । 049a
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् । 049c
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव ॥ 049e
स्रष्टा भोक्तासि कूटस्थो ह्यतत्वं तत्वसञ्ज्ञिकः । 050a
अकर्ता हेतुरचलः पृथगात्मन्यवस्थितः ॥ 050c
न ते भूतेषु संयोगो भूततत्वगुणाधिकः । 051a
अहङ्कारेण बुद्ध्या वा न ते योगस्त्रिभिर्गुणैः ॥ 051c
न मोक्षधर्मो वा न त्वं नारम्भो जन्म वा पुनः । 052a
जरामरणमोक्षार्थं त्वां प्रपन्नोस्मि सर्वग ॥ 052c
ईश्वरोसि जगन्नाथ ततः परम उच्यसे । 053a
भक्तानां यद्धितं देव तद्ध्याहि त्रिदशेश्वर ॥ 053c
विषयैरिन्द्रियैर्वाऽपि न मे भूयः समागमः । 054a
पृथिवीं यातु गन्धो वै रसं यातु जलं तथा ॥ 054c
तेजो हुताशनं यातु स्पर्शो यातु च मारुतम् । 055a
श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः ॥ 055c
इन्द्रियाण्यपि संयान्तु स्वासुस्वासु च योनिषु । 056a
पृथिवी यातु सलिलमापोग्निमनलोऽनिलम् ॥ 056c
वायुराकाशमप्येतु मनश्चाकाश एव च । 057a
अहङ्कारं मनो यातु मोहनं सर्वदेहिनाम् ॥ 057c
अहङ्कारस्ततो बुद्धिं बुद्धिरव्यक्तमच्युत ॥ 058ac
प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते । 059a
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् ॥ 059c
निष्केवलं पदं तात काङ्क्षेऽहं परमं तव । 060a
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः ॥ 060c
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तिस्त्वत्परायणः । 061a
त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥ 061c
पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम् । 062a
अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु ॥ 062c
अनुध्यातोऽसि देवेश न मे जन्म भवेत्पुनः । 063a
तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥ 063c
नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसञ्चिताः । 064a
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥ 064c
श्रीभगवानुवाच 065
अहं भगवतस्तस्य मम चासौ सनातनः । 065a
तस्याहं न प्रणश्यासि स च मे न प्रणश्यति ॥ 065c
कर्मेन्द्रियाणि संयम्य पञ्च बुद्धीन्द्रियाणि च । 066a
दशेन्द्रियाणि मनसि अहङ्कारे तथा मनः ॥ 066c
अहङ्कारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् । 067a
यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बुद्ध्येत्परात्परम् ॥ 067c
ममायमिति यस्याहं येन सर्वमिदं तततम् । 068a
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ॥ 068c
मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत् । 069a
अपि पापसमाचारः स याति परमां गतिम् ॥ 069c
ओं नमो भगवते तस्मै देहिनां परमात्मने । 070a
नारायणाय भक्तानामेकनिष्ठाय शाश्वते ॥ 070c
इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः । 071a
स्वपन्विबुद्धश्च पठेद्यत्र तत्र समभ्यसेत् ॥ 071c
पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः । 072a
श्रावयेच्छ्रद्दधानांश्च मद्भक्तांश्च विशेषतः ॥ 072c
यद्यहङ्कारमाश्रित्य यज्ञदानतपः क्रियाः । 073a
कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं न तु ॥ 073c
अभ्यर्चयन्पितॄन्देवान्पठञ्जुह्वन्बलिं ददत् । 074a
ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम् ॥ 074c
यज्ञो दानं तपश्चैव पावनानि शरीरिणाम् । 075a
यज्ञं दानं तपस्तस्मात्कुर्यादाशीर्विवर्जितः ॥ 075c
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः । 076a
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद ॥ 076c
किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् । 077a
श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः ॥ 077c
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते । 078a
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः । 078c
अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्येव पदं मम ॥ 078e
अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम् । 079a
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥ 079c
तस्मात्प्रदेयं साधुभ्यो जन्मबन्धभयापहम् । 080a
एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति ॥ 080c
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । 081a
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ 081c
भीष्म उवाच 082
एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा । 082a
यदुवाच तदाऽसौ भो तदुक्तं तव सुव्रत ॥ 082c
त्वमप्येकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम् । 083a
भजस्व सर्वभावेन परमात्मानमव्ययम् ॥ 083c
श्रुत्वैतन्नारदो वाक्यं दिव्यं नारायणेरितम् । 084a
अत्यन्तभक्तिमान्देव एकान्तत्वमुपेयिवान् ॥ 084c
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् । 085a
इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम् ॥ 085c
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने । 086a
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ 086c
इमां रहस्यां परमामनुस्मृतिमधीत्य बुद्धिं लभते च नैष्ठिकीम् । 087a
विहाय दुःखान्यवमुच्य सङ्कटात्स वीतरागो विगतज्वरः सुखी ॥ 087c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥

12-210-1 श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयमिति थ. पाठः ॥ 12-210-14 अव्यक्तं शाश्वतं देवमिति ट.थ. पाठः ॥ 12-210-15 पुराणं प्रभवं नित्यमिति ट. थ. पाठः ॥ 12-210-30 त्रिकर्तः पञ्चकालज्ञेति ट. थ. पाठः ॥ 12-210-44 न पुनर्मारका द्विजा इति ट. थ. पाठः ॥ 12-210-46 त्वां विशन्ति विनिश्चिता इति ध. पाठः ॥ 12-210-52 न मे धर्मो ह्यधर्मो वेति ट. थ. पाठः ॥ 12-210-54 पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् । रूपं हुताशनं यातु इति ट. थ. पाठः ॥ 12-210-60 निष्केवलं वरं देवेति ध. पाठः ॥ 12-210-74 जपन्भिन्नं स्मरेदिति ध. पाठः ॥ 12-210-78 मद्भक्तो नान्तमश्नुत इति ट. थ. पाठः ॥ 12-210-82 यदुवाच तदा शम्भुरिति ट. थ. पाठः ॥ 12-210-87 स वीतरागो विचरेदिमां महीम् । इति ट. थ. पाठः ॥