अध्यायः 209

भीष्मेण युधिष्ठिरम् प्रति वासुदेवतत्वकथनम् ॥ 1 ॥ '* युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ केशवस्य महात्मनः । 001a
वक्तुमर्हसि तत्त्वेन माहात्म्यं पुनरेव तु ॥ 001c
न तृप्याम्यहमप्येनं पश्यञ्शृण्वंश्च भारत । 002a
एवं कृष्णं महाबाहो तस्मादेतद्ब्रवीहि मे ॥ 002c
भीष्म उवाच 003
शृणु राजन्कथामेतां वैष्णवीं पापनाशनीम् । 003a
नारदो मां पुरा प्राह यामहं ते वदामि ताम् ॥ 003c
देवर्षिर्नारदः पूर्वं तत्वं वेत्स्यामि वै हरेः । 004a
इति सञ्चिन्त्य मनसा दध्यौ ब्रह्म सनातनम् ॥ 004c
हिमालये शुभे दिव्ये दिव्यं वर्षशतं किल । 005a
अनुच्छ्वसन्निराहारः संयतात्मा जितेन्द्रियः ॥ 005c
ततोऽन्तरिक्षे वागासीत्तं मुनिप्रवरं प्रति । 006a
मेघगम्भीरनिर्घोषा दिव्या वाह्याऽशरीरिणी ॥ 006c
किमर्थं त्वं समापन्नो ध्यानं मुनिवरोत्तम । 007a
अहं ददामि ते ज्ञानं धर्माद्यं वा वृणीष्व माम् ॥ 007c
तच्छ्रुत्वा मुनिरालोच्य सम्भ्रमाविष्टमानसः । 008a
किन्नु स्यादिति सञ्चिन्त्य वाक्यमाहापरं प्रति ॥ 008c
कस्त्वं भवानण्डं बिभेद मध्ये समास्थितो वाक्यमुदीरयन्माम् । 009a
न रूपमन्यत्तव दृश्यते वै ईदृग्विधस्त्वं समधिष्ठितोऽसि ॥ 009c
पुनस्तमाह स मुनिमनन्तोऽहं बृहत्तरः । 010a
न मां मूढा विजानन्ति ज्ञानिनो मां विदन्त्युत ॥ 010c
तं प्रत्याह मुनिः श्रीमान्प्रणतो विनयान्वितः । 011a
भवन्तं ज्ञातुमिच्छामि तव तत्वं ब्रवीहि मे ॥ 011c
तस्य तद्वचनं श्रुत्वा नारदं प्राह लोकपः । 012a
ज्ञानेन मां विजानीहि नान्यथा शक्तिरस्ति ते ॥ 012c
नारद उवाच 013
कीदृग्विधं तु तज्ज्ञानं येन जानामि ते तनुम् । 013a
अनन्त तन्मे ब्रूहि त्वं यद्यनुग्रहवानहम् ॥ 013c
लोकपाल उवाच 014
विकल्पहीनं विपुलं तस्य चूरं शिवं परम् । 014a
ज्ञानं तत्तेन जानासि साधनं प्रति ते मुने ॥ 014c
अत्रावृत्य स्थितं ह्येतत्तच्छुद्धमितरन्मृषा । 015a
एतत्ते सर्वमाख्यातं सङ्क्षेपान्मुनिसत्तम ॥ 015c
नारद उवाच 016
त्वमेव तव यत्तत्वं ब्रूहि लोकगुरो मम । 016a
भवन्तं ज्ञातुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 016c
ततः प्रहस्य भगवान्मेघगम्भीरया गिरा । 017a
प्राहेशः सर्वभूतानां न मे चास्यं श्रुतिर्न च ॥ 017c
न घ्राणजिह्वे दृक्चैव त्वचा नास्ति तथा मुने । 018a
कथं वक्ष्यामि चात्मानमशरीरस्तथाप्यहम् ॥ 018c
तज्ज्ञात्वा विस्मयाविष्टो मुनिराह प्रणम्य तम् । 019a
येन त्वं पूर्वमात्मानमनन्तोऽहं बृहत्तरः । 019c
शतोऽहमिति मां प्रीतः प्रोक्तवानसि तत्कथम् ॥ 019e
पुनस्तमाह भगवांस्तवाप्यक्षाणि सन्ति वै । 020a
त्वमेनं ब्रूहि चात्मानं यदि शक्नोषि नारद ॥ 020c
आत्मा यथा तव मुने विदितस्तु भविष्यति । 021a
मां च जानासि तेन त्वमेकं साधनमावयोः । 021c
इत्युक्त्वा भगवान्देवस्ततो नोवाच किञ्चन ॥ 021e
नारदोऽप्युत्स्मयन्खिन्नः क्व गतोऽसाविति प्रभुः । 022a
स्थित्वा स दीर्घकालं च मुनिर्व्यामूढमानसः ॥ 022c
आह मां भगवान्देवस्त्वनन्तोऽहं बृहत्तरः । 023a
तेनाहमिति सर्वस्य को वानन्तो बृहत्तरः ॥ 023c
केयमुर्वी ह्यनन्ताख्या बृहती नूनमेव सा । 024a
यस्यां जानन्ति भूतानि विलीनानि ततस्ततः । 024c
एनां पृच्छामि तरुणीं सैषा नूनमुवाच माम् ॥ 024e
इत्येवं स मुनिः श्रीमान्कृत्वा निश्चयमात्मनः । 025a
स भूतलं समाविश्य प्रणिपत्येदमब्रवीत् ॥ 025c
आश्चर्यासि च धन्यासि बृहती त्वं वसुन्धरे । 026a
त्वामत्र वेत्तुमिच्छामि याग्दृभूताऽसि शोभने ॥ 026c
तच्छ्रुत्वा धरणी देवी स्मयमानाऽब्रवीदिदम् । 027a
नाहं हि बृहती विप्र न चानन्ता च सत्तम ॥ 027c
कारणं मम यो गन्धो गन्धात्मानं ब्रवीहि तम् । 028a
ततो मुनिस्तद्धि तत्वं प्रणिपत्येदमब्रवीत् ॥ 028c
कारणं मे जलं मत्तो बृहत्तरतमं हि तत् ॥ 029ac
स समुद्रं मुनिर्गत्वा प्रणिपत्येदमब्रवीत् । 030a
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ॥ 030c
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय । 031a
तच्छ्रुत्वा सरितानाथः समुद्रो मुनिमब्रवीत् ॥ 031c
कारणं मेऽत्र सम्पृच्छ रसात्मानं बृहत्तरम् । 032a
ततो बृहत्तरं विद्वंस्त्वं पृच्छ मुनिसत्तम ॥ 032c
ततो मुनिर्यथायोगं जलं तत्वमवेक्ष्य तत् । 033a
जलात्मानं प्रणम्याह जलतत्वस्थितो मुनिः ॥ 033c
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः । 034a
भवन्तं श्रोतुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 034c
ततो रसात्मकः सोनु मुनिमाह पुनःपुनः । 035a
ममापि कारणं पृच्छ तेजोरूपं विभावसुम् । 035c
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम ॥ 035e
ततोऽग्निं प्रणिपत्याह मुनिर्विस्मितमानसः । 036a
यज्ञात्मानं महावासं सर्वभूतनमस्कृतम् ॥ 036c
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः । 037a
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 037c
ततः प्रहस्य भगवान्मुनिं स्विष्टकृदब्रवीत् । 038a
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम । 038c
कारणं मम रूपं यत्तं पृच्छ मुनिसत्तम ॥ 038e
ततो योगक्रमेणैव प्रतीतं तं प्रविश्य सः । 039a
रूपात्मानं प्रणम्याह नारदो वदतांवरः ॥ 039c
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः । 040a
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 040c
उत्स्मयित्वा तु रूपात्मा तं मुनिं प्रत्युवाच ह । 041a
वायुर्मे कारणं ब्रह्मंस्तं पृच्छ मुनिसत्तम । 041c
मत्तो बहुतरः श्रीमाननन्तश्च महाबिलम् ॥ 041e
स मारुतं प्रणम्याह भगवान्मुनिसत्तमः । 042a
योगसिद्धो महायोगी ज्ञानविज्ञानपारगः ॥ 042c
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः । 043a
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 043c
ततो वायुर्हि सम्प्राह नारदं मुनिसत्तमम् । 044a
कारणं पृच्छ भगवन्स्पर्शात्मानं ममाद्य वै ॥ 044c
मत्तो बृहत्तरः श्रीमाननन्तश्च तथैव सः । 045a
ततोस्य वचनं श्रुत्वा स्पर्शात्मानमुवाच सः ॥ 045c
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः । 046a
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 046c
तस्य तद्वचनं श्रुत्वा स्पर्शात्मा मुनिमब्रवीत् । 047a
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम ॥ 047c
कारणं मम चैवेममाकाशं च बृहत्तरम् । 048a
तं पृच्छ मुनिशार्दूल सर्वव्यापिनमव्ययम् ॥ 048c
तच्छ्रुत्वा नारदः श्रीमान्वाक्यं वाक्यविशारदः । 049a
आकाशं समुपागम्य प्रणम्याह कृताञ्जलिः ॥ 049c
आश्चर्योसि न धन्योसि ह्यनन्तोसि बृहत्तरः । 050a
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 050c
आकाशस्तमुवाचेदं प्रहसन्मुनिसत्तमम् । 051a
नाहं बृहत्तरो ब्रह्मञ्शब्दो वै कारणं मम । 051c
तं पृच्छ मुनिशार्दूल स वै मत्तो बृहत्तरः ॥ 051e
ततो ह्याविश्य चाकाशं शब्दात्मानमुवाच ह । 052a
स्वरव्यञ्जनसंयुक्तं नानाहेतुविभूषितम् । 052c
वेदाख्यं परमं गुह्यं वेदकारणमच्युतम् ॥ 052e
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः । 053a
भवन्तं श्रोतुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 053c
वेदात्मा प्रत्युवाचेदं नारदं मुनिपुङ्गवम् । 054a
मया कारणभूतेन सर्ववेत्ता पितामहः ॥ 054c
ब्रह्मणो बुद्धिसंस्थानमास्थितोऽहं महामुने । 055a
तस्माद्बृहत्तरो मत्तः पद्मयोनिर्महामतिः । 055c
तं पृच्छ मुनिशार्दूल सर्वकारणकारणम् ॥ 055e
ब्रह्मलोकं ततो गत्वा नारदो मुनिपुङ्गवैः । 056a
सेव्यमानं महात्मानं लोकपालैर्मरुद्गणैः ॥ 056c
समुद्रैश्च सरिद्भिश्च भूततत्वैः सभूधरैः । 057a
गन्धर्वैरप्सरोभिश्च ज्योतिषां च गणैस्तथा ॥ 057c
स्तुतिस्तोमग्रहस्तोभैस्तथा वेदैर्मुनीश्वरैः । 058a
उपास्यमानं ब्रह्माणं लोकनाथं परात्परम् ॥ 058c
हिरण्यगर्भं विश्वेशं चतुर्वक्त्रेण भूषितम् । 059a
प्रणम्य प्राञ्जलिः प्रह्वस्तमाह मुनिपुङ्गवः ॥ 059c
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः । 060a
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ 060c
तच्छ्रुत्वा भगवान्ब्रह्मा सर्वलोकपितामहः । 061a
उत्स्मयन्मुनिमाहेदं कर्ममूलस्य लोपकम् ॥ 061c
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम । 062a
लोकानां मम सर्वेषां नाथभूतो बृहत्तरः ॥ 062c
नन्दगोपकुले गोपकुमारैः परिवारितः । 063a
समस्तजगतां गोप्ता गोपवेषेण संस्थितः ॥ 063c
मद्रूपं च समास्थाय जगत्सृष्टिं करोति सः । 064a
ऐशानमास्थितः श्रीमान्हन्ति नित्यं हि पाति च ॥ 064c
विष्णुः स्वरूपरूपोऽसौ कारणं स हरिर्मम । 065a
तं पृच्छ मुनिशार्दूल स चानन्तो बृहत्तरः ॥ 065c
ततोऽवतीर्य भगवान्ब्रह्मलोकान्महामुनिः । 066a
नन्दगोपकुले विष्णुमेनं कृष्णं जगत्पतिम् ॥ 066c
बालक्रीडनकासक्तं वत्सजालविभूषितम् । 067a
पाययित्वाथ बध्नन्तं धूलिधूम्राननं परम् ॥ 067c
गाहमानैर्हसद्भिश्च नृत्यद्भिश्च समन्ततः । 068a
पाणिवादनकैश्चैव संवृतं वेणुवादकैः ॥ 068c
प्रणिपत्याब्रवीदेनं नारदो भगवान्मुनिः । 069a
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः । 069c
वेत्ताऽसि चाव्ययश्चासि वेत्तुमिच्छामि यादृशम् ॥ 069e
ततः प्रहस्य भगवान्नारदं प्रत्युवाच ह । 070a
मत्तः परतरं नास्ति मत्तः सर्वं प्रतिष्ठितम् ॥ 070c
मतो बृहत्तरं नान्यदहमेव बृहत्तरः । 071a
आकाशे च स्थितः पूर्वमुक्तवानहमेव ते ॥ 071c
न मां वेत्ति जनः कश्चिन्माया मम दुरत्यया । 072a
भक्त्या त्वनन्यया युक्ता मां विजानन्ति योगिनः ॥ 072c
प्रियोसि मम भक्तोसि मम तत्वं विलोकय । 073a
ददामि तव तज्ज्ञानं येन तत्वं प्रपश्यसि ॥ 073c
अन्येषां चैव भक्तानां मम योगरतात्मनाम् । 074a
ददामि दिव्यं ज्ञानं च येन तत्वं प्रपश्यसि ॥ 074c
अन्येषां चैव भक्तानां मम योगरतात्मनाम् । 075a
ददामि दिव्यं ज्ञानं च तेन ते यान्ति मत्पदम् ॥ 075c
एवमुक्त्वा ययौ कृष्णो नन्दगोपगृहं हरिः ॥ 076ac
भीष्म उवाच 077
एतत्ते कथितं राजन्विष्णुतत्वमनुत्तमम् । 077a
भजस्वैनं विशालाक्षं जपन्कृष्णेति सत्तम ॥ 077c
मोहयन्मां तथा त्वां च शृणोत्येष मयेरितान् । 078a
धर्मात्मा च महाबाहो भक्तान्रक्षति नान्यथा ॥ 078c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥ *अयमध्यायो ध. पुस्तकएव दृश्यते |